सर्व एव त्व् इमे भावा देहदारधनादयः । क्षिप्रम् आशुष्कसिकताशरावविशरारवः
आब्रह्मस्तम्बपर्यन्तम् अपि योनिशतेषु च । आकल्पं भ्रमतश् चित्तशान्तिर् नास्ति शमाद् ऋते
पर्यालोचनमात्रेण बन्धगन्धो न बाधते । गच्छतो मार्गवैषम्यम् इवालोकनकारिणः
न तवावहितं चित्तं कामẖ कवलयिष्यति । सावधानस्य बुद्धस्य पिशाचẖ किं करिष्यति
यथेक्षणप्रसरणं रूपालोकनमात्रकम् । संवित्प्रसरमात्रात्म तथा साहं जगत् स्थितम्
यथाक्षिसंवृतिस् सर्वरूपालोकशमो ऽरिहन् । संवित्संवरणं नाम सर्वदृश्यशमस् तथा
असद् एव जगत् साहं शुद्धा संवित् तनोति खे । ईषत्प्रसरणेनाशु स्पन्दनं पवनो यथा
सद् इवासत्यम् एवेदम् अकुर्वत्यैव मन्यते । विदा हेम्नेव कुम्भत्वम् अपृथग्लभ्यम् आत्मगम्
शून्यमात्रं यथा व्योम स्पन्दमात्रं यथानिलः । जलमात्रं यथोर्म्यादि संविन्मात्रं जगत् तथा
अव्यवच्छिन्ननिर्भागसंविन्मात्रं जगत्त्रयम् । विद्धि शान्तं तथा व्योम यथा वारिणि पर्वतम्
निर्वाणस्योपशान्तस्य ज्ञस्य सोदेति शीतता । अन्तर् यत्रेन्दवो ऽप्य् एते दीप्तज्वलनबन्धवः
किं केन कथम् एकान्तशान्ताततशिवात्मनि । निरालोके परालोके शून्ये जगति जन्यते
या सत्ता ब्रह्मशब्दाख्या रूपं सर्वस्य तन् निजम् । न यत्र काचिद् बाधास्ति सर्वं तन्मयम् अव्ययम्
यद् इदं तु पदार्थत्वं यत्र बाधानुभूयते । यच् च वा बाधनं प्रेक्ष्य तन् न विद्मẖ खपुष्पवत्
ज्ञ एवापगतस्वान्तं शान्तम् आस्स्व महाश्मवत् । अबोधमननो मौनम् अनन्तम् अजम् अव्ययम्
आकाशकल्पे स्वे भावे तिष्ठतो ऽङ्गादिवेदनम् । भवत्य् अभ्यासदार्ढ्येन विना स्वप्नविकारवत्
निरुपादानसम्भारम् अभित्ताव् एव चेतति । ब्रह्माकर्तृ जगच्चित्रं न कश्चिद् वा न किञ्चन
तनोति यत् तद् आत्मैव तस्य तत्र तथा स्थितम् । दृश्याभावाद् अतद्दर्शी तेन कẖ क्व करोति किम्
अहं सुखीति सुखिता अहं दुẖखीति दुẖखिताः । सर्व एव स्वभावस्था व्योमात्मानो ऽपि पार्थिवाः
सर्वेषाम् एव भावानां विदाकाशात्मनाम् अपि । मिथ्यैव स्वप्नशैलानाम् इव पार्थिवतास्ति ते
अहन्तोल्लेखतस् सत्ता भ्रमभारविकारिणी । तदभावात् स्वभावैकनिष्ठता शमशालिनी
हेम्नẖ कटकशब्दार्थो व्यतिरिक्तो यथास्ति नो । व्यतिरिक्ता तथासत्या नाहन्तास्ति शमात्मनः
निर्वाणो निर्मना मौनी कर्ताकर्ता च शीतलः । ज्ञ एकश् शान्त एवास्ते शून्य एवाभिपूरितः
निर्वासनं स्पन्दमानो यन्त्रपुत्रकगात्रवत् । स यथास्थितम् एवास्ते ज्ञस् संव्यवहरन्न् अपि
यथा मञ्चकसंस्थस्य स्पन्दते नैव वा शिशोः । अङ्गालिर् अनुसन्धानं विनैवं विदितात्मनः
निस्सम्बोधैकबोधस्य निराशेहैषणाशिषः । शान्ताहन्त्वात्मरूपत्वाद् अनुसन्धानिता कुतः
अद्रष्टुर् अपदृश्यस्य दृग्रूपस्यापरूपिणः । कुतẖ किलानुसन्धानम् अनपेक्षस्य पश्यतः
अपेक्षैव घनो बन्धो ह्य् अनपेक्षैव मुक्तता । सर्वशब्दान्विता तस्यां विश्रान्तेन किम् ईक्ष्यते
पार्थिवत्वे शरीरे ऽस्मिन् स्वस्वप्नाद्राव् इवासति । भ्रममात्रात्मनि कुतẖ क्व कस्य किम् अपेक्षणम्
उपशान्तसमस्तेहं विगताखिलकौतुकम् । निरस्तवेदनं ज्ञेन विदा केवलम् आस्यते