वेदनात्मा रसो ऽस्त्य् अन्य इति या प्रतिभा स्थिरा । एषाविद्या भ्रमस् त्व् एष एष संसार आततः
अनालोचनसंसिद्ध आलोकेनैष नश्यति । असदात्मा सदाभासो बालवेतालवत् क्षणात्
सर्वदृश्यदृशो बोधे बोधसारतयैकताम् । यान्त्य् अशेषमहीपीठसरित्पूर इवार्णवे
मृण्मयं हि यथा भाण्डं मृच्छून्यं तु न लभ्यते । चिन्मयं हि तथा चेत्यं चिच्छून्यं तु नोपलभ्यते
बोधावबुद्धं यद् वस्तु बोध एव तद् उच्यते । नाबोधं बुध्यते बोधो वैरूप्यात् तेन नान्यथा
द्रष्टृदर्शनदृश्येषु प्रत्येकं बोधमात्रता । सारस् तेन तदन्यत्वं नास्ति किञ्चित् खपुष्पवत्
सजातीयस् सजातीयेनैकताम् अनुगच्छति । अन्योऽन्यानुभवस् तेन भवत्य् एकत्वनिश्चयः
यदि काष्ठोपलादीनां न भवेद् बोधरूपता । तत् सदानुपलम्भस् स्याद् एतेषाम् असताम् इव
यदा त्व् अशेषा दृश्यश्रीर् बोधमात्रैकरूपिणी । तदान्येवाप्य् अनन्यैव सती बोधेन बोध्यते
सर्वं जगद्गतं दृश्यं बोधमात्रम् इदं ततम् । स्पन्दमात्रं यथा वायुर् जलमात्रं यथार्णवः
मिश्रीभूता अपि ह्य् एते जतुकाष्ठादयो यथा । मिथोऽननुभवामिश्रा ऐक्यं ह्य् अनुभवो मिथः
अन्योऽन्यानुभवो ह्य् ऐक्यम् ऐक्यं त्व् अन्योऽन्यवेदनम् । यथाम्भसोẖ क्षीरयोर् वा न काष्ठजतुनोर् इव
अहम् इत्य् एव बन्धाय नाहम् इत्य् एव मुक्तये । एतावन्मात्रके भद्रे स्वायत्ते किम् अशक्तता
चन्द्रद्वयप्रत्ययवन् मृगतृष्णाम्बुबुद्धिवत् । किम् अनुत्थित एवायम् असद् एवाहम् उत्थितः
ममेदम् इति बन्धाय न ममेत्य् एव मुक्तये । एतावन्मात्रके वस्तुन्य् आत्मायत्ते किम् अज्ञता
यẖ काष्ठबदरन्यायो यो घटाकाशयोस् स्थितः । स सम्बन्धो ऽपि नैवैक्यम् ऐक्यम् अन्योऽन्यवेदनम्
अन्योऽन्यवेदनं त्व् ऐक्यं भागशो गतम् अप्य् अलम् । अजडं तज् जडं वापि नैकं रूपं विमुञ्चति
नाजडो जडताम् एति स्वभावा ह्य् अनपायिनः । यच् चाजडं जडं दृष्टं दृष्टे तत्रास्ति नैकता
वासनावेशवलिताẖ कुविकारशतात्मभिः । संसारारण्यकुहरे नृत्यन्ति हतकर्मभिः
वासनारज्जुना कृष्टा दूरं नीतास् स्वकर्मभिः । व्रजन्त्य् अधोऽधो धावन्तश् शिलाश् शैलच्युता इव
व्यूढानां वासनावातैर् नृतृणानाम् इतस् ततः । तान्य् आपतन्ति दुẖखानि यानि वक्तुं न पार्यते
भ्रान्त्या भृशं करतलाहतकन्दुकाभं लोकाḫ पतन्ति निरयेषु रयेण रक्ताः । क्लेदेन तत्र परिजर्जरतां प्रयाताẖ कालान्तरेण पुनर् अन्यनिभा भवन्ति
संसारमार्गे गहने पतितस्यापतन्ति हि । वृत्तवृत्तान्तलक्ष्याणि काष्ठा इव घनागमे
सर्व एव त्व् इमे भावाḫ परस्परम् असङ्गिनः । अटव्याम् उपलानीव भावनैतेषु शृङ्खला
चित्तम् आन्ध्याय वृत्तान्तद्रुमैर् गहनयन् स्थितः । रसरञ्जनया लोको वसन्त इव काननम्
अहो बत विचित्राणि वासनावशतो ऽवशैः । भूतकैर् अनुभूयन्ते सुखदुẖखानि जन्मसु
अहो बतातिविषमा वासना यद्वशाज् जनैः । अविद्यमान एवायं भ्रमो ऽन्तर् अनुभूयते
आह्लादिनो ऽमृतवतश् शुद्धस्यालोककारिणः । शीतलस्याखिलार्थेषु ज्ञस्येन्दोश् च किम् अन्तरम्
पूर्वापरम् अनालोच्य यत् किञ्चिद् अभिवाञ्छतः । निर्मर्यादस्य मूढस्य बालस्य च किम् अन्तरम्
लब्धम् आप्राणपर्यन्तं शुभाशुभम् अनुज्झतोः । आमिषे को विशेषो ऽस्ति वद मार्जारमूढयोः