न कञ्चिद् रसम् आदत्ते नष्टैवापि न नश्यति । न पुष्पिता न फलिता तृष्णा शुष्कलतेव नः
कर्म मर्मणि निर्मग्नं वासनाख्यम् अशर्मणे । जीवितं जन्मने जीर्णं नैवोत्तीर्णो भवार्णवः
दिनानुदिनम् उच्छूना भोगाशा भयदायिनी । पूर्णापूर्णात्मनि क्षीणा श्वभ्रकण्टकवृक्षवत्
चिन्ताज्वरविकारिण्या लक्ष्म्याẖ खलु महापदः । सम्पन् नाम कृतं सापि विप्रलम्भेन जृम्भते
अन्तस्स्फुरितरत्नेहं भासुरं चान्धकोटरम् । कल्लोलकलिलं शून्यं चेतश् शुष्काब्धिदुर्भगम्
माम् इन्द्रियार्थैकपरं न स्पृशन्ति विवेकिनः । सकण्टकम् अमेध्यस्थं श्लेष्मातकम् इव द्रुमम्
असद् एव महारम्भं वल्गदर्जुनवातवत् । मनो रमणम् अप्राप्तं शून्यं दुẖखाय वल्गति
शास्त्रसज्जनसम्पर्कचन्द्रतारकधारिणी । अहम्भावोल्लसद्यक्षा क्षीणा नाज्ञानयामिनी
अज्ञानध्वान्तमत्तेभसिंहẖ कर्मतृणानलः । उदितो न विवेकार्को वासनारजनीक्षयः
अवस्तु वस्तुवद् बुद्धं मत्तश् चित्तमतङ्गजः । इन्द्रियाणि निकृन्तन्ति न जाने किं भविष्यति
शास्त्रदृष्टिर् अपि प्राज्ञैर् आश्रिता तरणाय या । साप्य् अदृष्टिर् इवान्ध्याय वासनावेशकारिणी
तद् एवम् अतिसम्मोहे यत् कार्यम् इह दारुणे । उदर्कश्रेयसे तात तन् मे कथय पृच्छते
शाम्यन्ति मोहमिहिकाश् शरदीव साधौ प्राप्ते भवन्ति विमलाश् च तथाखिलाशाः । सत्येति वाग् भवतु साधुजनोपगीता मद्बोधनेन भवता भवशान्तिदेन
संवेदनं भावनं च वासना कलनेति च । अनर्थायेह शब्दार्थो विगतार्थो विजृम्भते
वेदनं भावनं विद्धि सर्वदोषसमाश्रयम् । अस्मिन्न् एवापदस् सन्ति लता मधुरसे यथा
संसारमार्गे गहने वासनावेशवाहिनः । उपयाति विचित्रोच्चैर् वृत्तवृत्तान्तसन्ततिः
विवेकिनो वासनया सह संसारसम्भ्रमः । क्षीयते माधवस्यान्ते शनैर् वनम् इवारसम्
अस्यास् संसृतिसल्लक्या वासनोत्सेधकारिणी । कदल्या घनजालिन्या रसलेखेव माधवी
संसाराब्धितयोदेति वासनात्मा रसश् चितौ । यथा वनतयान्तस्स्थो मधुमासरसẖ क्षितौ
चिन्मात्राद् अमलाच् छून्याद् ऋते किञ्चिन् न विद्यते । नान्यत् क्वचिद् अपर्यन्ते खे शून्यत्वेतरद् यथा
वेदनात्मा रसो ऽस्त्य् अन्य इति या प्रतिभा स्थिरा । एषाविद्या भ्रमस् त्व् एष एष संसार आततः
अनालोचनसंसिद्ध आलोकेनैष नश्यति । असदात्मा सदाभासो बालवेतालवत् क्षणात्
सर्वदृश्यदृशो बोधे बोधसारतयैकताम् । यान्त्य् अशेषमहीपीठसरित्पूर इवार्णवे
मृण्मयं हि यथा भाण्डं मृच्छून्यं तु न लभ्यते । चिन्मयं हि तथा चेत्यं चिच्छून्यं तु नोपलभ्यते
बोधावबुद्धं यद् वस्तु बोध एव तद् उच्यते । नाबोधं बुध्यते बोधो वैरूप्यात् तेन नान्यथा
द्रष्टृदर्शनदृश्येषु प्रत्येकं बोधमात्रता । सारस् तेन तदन्यत्वं नास्ति किञ्चित् खपुष्पवत्
सजातीयस् सजातीयेनैकताम् अनुगच्छति । अन्योऽन्यानुभवस् तेन भवत्य् एकत्वनिश्चयः
यदि काष्ठोपलादीनां न भवेद् बोधरूपता । तत् सदानुपलम्भस् स्याद् एतेषाम् असताम् इव
यदा त्व् अशेषा दृश्यश्रीर् बोधमात्रैकरूपिणी । तदान्येवाप्य् अनन्यैव सती बोधेन बोध्यते
सर्वं जगद्गतं दृश्यं बोधमात्रम् इदं ततम् । स्पन्दमात्रं यथा वायुर् जलमात्रं यथार्णवः