न च मे गन्तुम् उद्योगो विरक्तमनसो गृहम् । दृष्ट्वा तडित्प्रकाशानि भूतानि भुवनोदरे
भगवन् मह्यम् आत्मानं कथयेहानुकम्पया । गम्भीराणि प्रसन्नानि साधुचेतस्सरांसि हि
दर्शनाद् एव मित्रत्वं कुर्वतां महतां पुरः । कमलानीव भूतानि विकसन्त्य् आश्वसन्ति च
ममेमं च मनोमोहं संसारभ्रमसम्भवम् । मन्ये हातुं समर्थस् त्वं सत्त्वबोधानुकम्पनैः
वसिष्ठो ऽस्मि महाबुद्धे मुनिर् अस्मि नभोगृहः । केनाप्य् अर्थेन राजर्षेर् इमं मार्गम् उपस्थितः
मा गा विषादं पन्थानम् आगतो ऽसि मनीषिणाम् । प्रायḫ प्राप्तो ऽसि संसारसागरस्यापरं तटम्
वैराग्यविभवोदारा मतिर् उक्तिर् अपीदृशी । आकृतिश् शान्तरूपा च न भवत्य् अमहात्मनः
मणिर् मधुरकाषेण यथैति विमलात्मताम् । तथा कषायपाकेन चित्तम् एति विवेकिताम्
किं ज्ञातुम् इच्छसि कथं संसारं हातुम् इच्छसि । उपदिष्टम् अहं मन्ये सम्पादयसि कर्मभिः
विमलवासन उन्नतमानसḫ परिविविक्तमतिर् जनचेतसाम् । पदम् अशोकम् अलं खलु युज्यसे जगति नेतुम् इतीदम् इहोच्यते
ममेत्य् उक्तवतो मङ्किर् विनिपत्य स पादयोः । उवाचानन्दपूर्णाक्षम् इदं मार्गे वहन् वचः
भगवन् भूरिशो भ्रान्ता दिशो दश दशावता । मया न तु पुनस् साधुर् लब्धस् संशयनाशकृत्
समस्तदेहवाराणां सारस्याद्य फलं मया । प्राप्तं यद् अस्मि त्वत्पादपद्मे भ्रमरतां गतः
खिन्नो ऽस्मि भगवन् पश्यन् दशास् संसारदोषदाः । पुनर् जातं पुनर् नष्टं सुखदुẖखभ्रमस् सदा
अवश्यम्भाविपर्यन्तदुẖखत्वात् सकलान्य् अपि । सुखान्य् एवातिदुẖखानि वरं दुẖखान्य् अतो मुने
दृढदुẖखवद् अन्तत्वाद् दुẖखयन्ति सुखानि माम् । तथा नाम यथा दुẖखम् एव मे सुखतां गतम्
वयो दशनलोमाङ्गैस् सह जर्जरतां गतम् । उच्चैḫपदे पातपरा बुद्धिर् नाध्यवसायिनी
प्रसुवानं कुसङ्कल्पान् गहनं न प्रकाशते । मनḫ पिप्पलपद्मूलैर् इव कुग्रामकोटरम्
वासनागर्धवृद्ध्यैति श्वश् श्वḫ पापीयसीं स्थितिम् । कण्टकद्रुमवल्लीव करालकुटिला मतिः
आयुर् आयासशालिन्या यामिन्येव तमोऽन्धया । अक्षीवानागतालोकं क्षीणं सन्ततचिन्तया
न कञ्चिद् रसम् आदत्ते नष्टैवापि न नश्यति । न पुष्पिता न फलिता तृष्णा शुष्कलतेव नः
कर्म मर्मणि निर्मग्नं वासनाख्यम् अशर्मणे । जीवितं जन्मने जीर्णं नैवोत्तीर्णो भवार्णवः
दिनानुदिनम् उच्छूना भोगाशा भयदायिनी । पूर्णापूर्णात्मनि क्षीणा श्वभ्रकण्टकवृक्षवत्
चिन्ताज्वरविकारिण्या लक्ष्म्याẖ खलु महापदः । सम्पन् नाम कृतं सापि विप्रलम्भेन जृम्भते
अन्तस्स्फुरितरत्नेहं भासुरं चान्धकोटरम् । कल्लोलकलिलं शून्यं चेतश् शुष्काब्धिदुर्भगम्
माम् इन्द्रियार्थैकपरं न स्पृशन्ति विवेकिनः । सकण्टकम् अमेध्यस्थं श्लेष्मातकम् इव द्रुमम्
असद् एव महारम्भं वल्गदर्जुनवातवत् । मनो रमणम् अप्राप्तं शून्यं दुẖखाय वल्गति
शास्त्रसज्जनसम्पर्कचन्द्रतारकधारिणी । अहम्भावोल्लसद्यक्षा क्षीणा नाज्ञानयामिनी
अज्ञानध्वान्तमत्तेभसिंहẖ कर्मतृणानलः । उदितो न विवेकार्को वासनारजनीक्षयः
अवस्तु वस्तुवद् बुद्धं मत्तश् चित्तमतङ्गजः । इन्द्रियाणि निकृन्तन्ति न जाने किं भविष्यति