चिरं मनुष्यदेशे ऽस्मिन् निर्जनग्रामधन्वनि । नागराध्वग विश्रान्तिं विश्रान्तो ऽपि न लप्स्यसे
श्रमो विश्रमणेनैव वर्धते पामरास्पदे । तृड् वै लवणपानेन भूय एवाभिवर्धते
एते ग्रामैकशरणाḫ पल्लवस्पन्दभीरवः । अयथायथसञ्चारा हरिणा इव जन्तवः
न स्फुरन्ति विचारेषु न ज्वलन्त्य् अनुभूतिषु । न त्रसन्ति दुराचाराद् अश्मयन्त्रमया इव
कामार्थरागविद्वेषपरिनिष्ठितपौरुषाः । कर्मण्य् आपातमधुरे रमन्ते दग्धबुद्धयः
आभिजात्योन्नतोदारा शीतला रसशालिनी । नेह विश्वसिति प्रज्ञा मेघमाला मराव् इव
वरम् अन्धगुहाहित्वं शिलान्तẖ कीटता वरम् । वरं मरौ पङ्गुमृगो न ग्राम्यजनसङ्गमः
निमेषास्वादमधुराẖ क्षणान्तरविरागिणः । मारणैकान्तनिरता ग्राम्या विषकणा इव
वान्ति भस्मकणाकीर्णा जीर्णास् संशीर्णसद्मसु । तृणपर्णवनव्यग्रा ग्राम्यावकरवायवः
एवम् उक्तेन तेनाहम् इदम् उक्तस् तदानघ । मद्वाक्येन समाश्वस्य स्नातेनेवामृताम्भसा
भगवन् को ऽसि पूर्णात्मा महात्मा कथम् आत्मवान् । पश्यन्न् अनाकुलो लोकं ग्रामयात्राम् इवाध्वगः
किं त्वया पीतम् अमृतं किं त्वं सम्राड् विराड् अथ । सर्वार्थरिक्तो ऽपि चिरं सुपूर्ण इव राजसे
शून्यो ऽसि परिपूर्णो ऽसि घूर्णसीव स्थिरो ऽसि च । न सर्वम् असि सर्वं च न किञ्चित् किञ्चिद् एव वा
उपशान्तं च कान्तं च दीप्तम् अप्रतिघाति च । निभृतं चोर्जितं चेदं रूपं किम् इति ते मुने
भूसंस्थो ऽपि समस्तानां लोकानाम् उपरीव खे । संस्थितो ऽसि निरास्थो ऽसि घनास्थो ऽसि च लक्ष्यसे
प्रसृतं च पदार्थेषु न पदार्थात्म चास्ति च । तवेन्दोर् इव शुद्धस्य मनो ऽमृतमयं स्थितम्
कलावान् अकलङ्को ऽन्तश्शीतलो भासुरस् समः । रसायनपरापूर्णḫ पूर्णेन्दुर् इव राजसे
त्वदिच्छायत्तसदसद्भावं पश्यामि ते चिति । संसारमण्डलम् इदं स्थितं फलम् इवाङ्कुरे
अहं तावद् अयं विप्रश् शाण्डिल्यकुलसम्भवः । मङ्किर् नाम महाभाग तीर्थयात्राप्रसङ्गतः
गत्वा सुदूरम् अध्वानं दृष्ट्वा तीर्थानि सम्प्रति । चिरकालेन सदनम् आत्मीयं गन्तुम् उद्यतः
न च मे गन्तुम् उद्योगो विरक्तमनसो गृहम् । दृष्ट्वा तडित्प्रकाशानि भूतानि भुवनोदरे
भगवन् मह्यम् आत्मानं कथयेहानुकम्पया । गम्भीराणि प्रसन्नानि साधुचेतस्सरांसि हि
दर्शनाद् एव मित्रत्वं कुर्वतां महतां पुरः । कमलानीव भूतानि विकसन्त्य् आश्वसन्ति च
ममेमं च मनोमोहं संसारभ्रमसम्भवम् । मन्ये हातुं समर्थस् त्वं सत्त्वबोधानुकम्पनैः
वसिष्ठो ऽस्मि महाबुद्धे मुनिर् अस्मि नभोगृहः । केनाप्य् अर्थेन राजर्षेर् इमं मार्गम् उपस्थितः
मा गा विषादं पन्थानम् आगतो ऽसि मनीषिणाम् । प्रायḫ प्राप्तो ऽसि संसारसागरस्यापरं तटम्
वैराग्यविभवोदारा मतिर् उक्तिर् अपीदृशी । आकृतिश् शान्तरूपा च न भवत्य् अमहात्मनः
मणिर् मधुरकाषेण यथैति विमलात्मताम् । तथा कषायपाकेन चित्तम् एति विवेकिताम्
किं ज्ञातुम् इच्छसि कथं संसारं हातुम् इच्छसि । उपदिष्टम् अहं मन्ये सम्पादयसि कर्मभिः
विमलवासन उन्नतमानसḫ परिविविक्तमतिर् जनचेतसाम् । पदम् अशोकम् अलं खलु युज्यसे जगति नेतुम् इतीदम् इहोच्यते