यथाभूतार्थसन्दर्शच्छिन्नाहम् इति भावना । दृष्टापि न करोत्य् अन्तर् दग्धं बीजम् इवाङ्कुरम्
कर्म कुर्वन्न् अकुर्वन् वा वीतरागो निरामयः । निर्मना नित्यनिर्वाणो मुनिर् आत्मनि तिष्ठति
चित्तोपशान्तौ संशान्ताश् शान्तये भोगबन्धवः । न त्व् अभावपरिक्षीणाश् चित्तम् एषां किलाकरः
अघनẖ केवलालोको बुद्धो जीवḫ परायते । स एवान्यो ऽप्य् अनन्यो ऽन्तरपराह्ण इवातपः
एकदेशस्थितात् पुंसो दूरं यातस्य चेतसः । यद् रूपम् अकलं मध्ये तद् रूपं परमात्मनः
चारु चिद् व्योमकर्पूरं यच् चमत्कुरुते स्वयम् । अनन्तम् अन्तर् अव्यक्तं जगद् इत्य् एव वेत्ति तत्
गतभवभ्रमभासुरम् अक्षयं शमम् उपेतम् उपेक्षितदीपवत् । स्थितम् अपीह जनं जगदीश्वरा ननु नमन्ति रमन्ति मुदा च खे
निराशवासनापास्तसमस्तभववासनः । उत्थाय गच्छ प्रकृतेर् अस्या मङ्किर् इवाङ्कतः
मङ्किनामाभवत् पूर्वं ब्राह्मणस् संशितव्रतः । स कथं शृणु निर्वाणम् आप्तवान् मद्विबोधतः
अहं कदाचिद् आकाशकोशाद् अवनिम् आगतः । भवत्पितामहार्थेन केनाप्य् उपनिमन्त्रितः
विहरन् भूतलं गच्छंस् त्वत्पितामहपत्तनम् । प्राप्तो ऽस्मि काम् अप्य् आदीर्घाम् अरण्यानीं महातपाम्
पांसुप्रतर्दगहनां प्रकचत्तप्तसैकताम् । अदृष्टपारपर्यन्तां क्वचिद् ग्रामकलाञ्छिताम्
अक्षुब्धखानिलालोकजलभूशान्तिशालिनीम् । ततां शून्यां महारम्भां ब्रह्मसत्ताम् इवामलाम्
अविद्याम् इव सम्मोहमृगतृष्णागतभ्रमाम् । जाड्यदाम् आततां शून्यां दिग्दाहमिहिकाकुलाम्
अथ तस्याम् अरण्यान्यां यावत् प्रविहराम्य् अहम् । तावत् पश्यामि पुरतो वदन्तं पथिकं श्रमात्
अहो नु परिखेदाय प्रौढप्रायातपो रविः । परितापाय पापो ऽयं दुर्जनेनेव सङ्गमः
सङ्गलन्तीव मर्माणि स्फुरतीवाग्निर् आतपे । सङ्कुचत्पल्लवापीडास् ताम्यन्ति वनराजयः
तावत् तद् एतम् अग्रस्थं ग्रामकं प्रविशाम्य् अहम् । श्रमम् अत्रापनीयाशु वहाम्य् अध्वानम् आशुगः
इति सञ्चिन्त्य सो ऽग्रस्थं किरातग्रामकं यदा । प्रवेष्टुम् इच्छति तदा मया प्रोक्त इदं वचः
अपरिज्ञात नीराग मार्गमित्र शुभाकृते । मरुमार्गमहारण्यपान्थ स्वागतम् अस्तु ते
चिरं मनुष्यदेशे ऽस्मिन् निर्जनग्रामधन्वनि । नागराध्वग विश्रान्तिं विश्रान्तो ऽपि न लप्स्यसे
श्रमो विश्रमणेनैव वर्धते पामरास्पदे । तृड् वै लवणपानेन भूय एवाभिवर्धते
एते ग्रामैकशरणाḫ पल्लवस्पन्दभीरवः । अयथायथसञ्चारा हरिणा इव जन्तवः
न स्फुरन्ति विचारेषु न ज्वलन्त्य् अनुभूतिषु । न त्रसन्ति दुराचाराद् अश्मयन्त्रमया इव
कामार्थरागविद्वेषपरिनिष्ठितपौरुषाः । कर्मण्य् आपातमधुरे रमन्ते दग्धबुद्धयः
आभिजात्योन्नतोदारा शीतला रसशालिनी । नेह विश्वसिति प्रज्ञा मेघमाला मराव् इव
वरम् अन्धगुहाहित्वं शिलान्तẖ कीटता वरम् । वरं मरौ पङ्गुमृगो न ग्राम्यजनसङ्गमः
निमेषास्वादमधुराẖ क्षणान्तरविरागिणः । मारणैकान्तनिरता ग्राम्या विषकणा इव
वान्ति भस्मकणाकीर्णा जीर्णास् संशीर्णसद्मसु । तृणपर्णवनव्यग्रा ग्राम्यावकरवायवः
एवम् उक्तेन तेनाहम् इदम् उक्तस् तदानघ । मद्वाक्येन समाश्वस्य स्नातेनेवामृताम्भसा