प्रसरन्ति यतश् चित्रास् संसारासारदृष्टयः । अक्षयामृतसम्पूर्णाद् अम्भोदाद् इव वृष्टयः
आविर्भावतिरोभावमय्यस् त्रिभुवनोर्मयः । स्फुरन्त्य् अविरतं यस्मिन् घृणाव् इव मरीचयः
नाशरूपो ऽविनाशात्मा यो ऽन्तस्स्थस् सर्ववस्तुषु । गुप्तो यो व्यतिरिक्तो ऽपि सर्वभावेषु संस्थितः
प्रकृतिव्रततिर् व्योम्नि जाता ब्रह्माण्डसत्फला । चित्तमूलेन्द्रियदला येन नृत्यति वायुना
यश् चिन्मणिः प्रकचति प्रतिदेहसमुद्गकम् । यस्मिन्न् इन्दौ स्फुरन्त्य् एता जगज्जालमरीचयः
प्रशान्तचिद्घने यस्मिन् स्फुरन्त्य् अमृतवर्षिणि । धाराजलानि भूतानि दृष्टयस् तडितस् स्फुटाः
चमत्कुर्वन्ति वस्तूनि यदालोकनया मिथः । असज् जातम् असद् येन येन सत् सत्त्वम् आगतम्
चलतीदम् अनिच्छस्य कायायो यस्य सन्निधौ । जडं परमरत्नस्य शान्तम् आत्मनि तिष्ठतः
नियतिर् देशकालौ च चलनं स्पन्दनं क्रियाः । इति येन गतं सत्तां सर्वसत्त्वाभिगामिना
शुद्धसंविन्मयत्वाद् यः खं भवेद् व्योमवित्तया । पदार्थवित्तयार्थत्वम् अवतिष्ठत्य् अनिष्ठितः
कुर्वन्न् अपीव जगतां महताम् अनन्तस्पन्दं न किञ्चन करोति कदाचनापि । स्वात्मन्य् अनस्तमयसंविदि निर्विकारे त्यक्तोदयस्थितिमतिस् स्थित एक एव
अस्य देवातिदेवस्य परस्य परमात्मनः । ज्ञानाद् एव परा सिद्धिर् न त्व् अनुष्ठानखेददा
अत्र ज्ञानम् अनुष्ठानं न त्व् अन्यद् उपयुज्यते । मृगतृष्णाजलभ्रान्तिशान्तिवेदनरूपि तत्
न चैष दूरे नाकाशे नालभ्यो विषमो न च । स्वानन्दभासरूपो ऽसौ स्वदेहाद् एव लभ्यते
किञ्चिन् नोपकरोत्य् अत्र तपोदानव्रतादिकम् । स्वभावमात्रविश्रान्तिम् ऋते नात्रास्ति साधनम्
शास्त्रसत्सङ्गसद्योगिपरतैवात्र केवलम् । साधनं बोधनं मोहजालस्य यद् अकृत्रिमम्
अयं स देव इत्य् एव सम्परिज्ञानमात्रतः । जन्तोर् न जायते दुःखं जीवन्मुक्तत्वम् एति च
सम्परिज्ञातमात्रेण किलानेनात्मनात्मनि । पुनर् दोषा न बाधन्ते मरणाद्याः कदाचन
देवदेवो महान् एष कुतो दूराद् अवाप्यते । तपसा केन तीव्रेण क्लेशेन कियताथवा
स्वपौरुषप्रयत्नेन विवेकेन विकासिना । स देवो ज्ञायते राम न तपस्स्नानकर्मभिः
रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् । विना राम तपोदानं क्लेश एव न वास्तवम्
रागाद्युपहते चित्ते वञ्चयित्वा परं धनम् । यद् अर्ज्यते ततो दानाद् यस्यार्थस् तस्य तत्फलम्
रागाद्युपहते चित्ते व्रतादि क्रियते च यत् । स दम्भः प्रोच्यते तस्य फलम् अस्ति मनाङ् न वा
तस्मात् पुरुषयत्नेन मुख्यम् औषधम् आहरेत् । सच्छास्त्रसज्जनासङ्गं संसृतिव्याधिनाशनम्
अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः । सर्वदुःखक्षयप्राप्तौ न काचिद् उपपद्यते
शृणु तत् पौरुषं कीदृग् आत्मज्ञानस्य लब्धये । येन शाम्यन्त्य् अशेषेण रागद्वेषविषूचिकाः
यथासम्भवया वृत्त्या लोकशास्त्राविरुद्धया । सन्तोषसन्तुष्टमना भोगगर्धं परित्यजन्
यथासम्भवम् उद्योगाद् अनुद्विग्नतया स्वया । साधुसङ्गमसच्छास्त्रपरतां प्रथमं श्रयेत्
यथाप्राप्तार्थसन्तुष्टो यो गर्हितम् उपेक्षते । साधुसङ्गमसच्छास्त्ररतश् शीघ्रं स मुच्यते
विचारणापरिज्ञातस्वभावस्य महामतेः । अनुकम्प्या भवन्त्य् एते ब्रह्मविष्ण्विन्द्रशङ्कराः