जीवस् सङ्कल्पमात्रात्मा यत्सङ्कल्पो ऽवतिष्ठते । हृदि भूत्वा स एवाशु बहिḫ प्रसरति स्फुटम्
यथास्थितास्यां निश्चिन्तां वर्जयित्वाम्बरोपमाम् । न कयाचिद् अपि स्थित्या शाम्यत्य् अहम् इति भ्रमः
चिन्ता तु चिन्त्यमानापि भावनीयाम्बरोपमा । अहम्भावोपशमने शमनेन क्रमेण ते
तज्ज्ञा व्यवहरन्तीह भाव्यभावनवर्जितम् । अरूपालोकमननं मौनदारुनरा इव
अकिञ्चिद्भावनो यस् स्यात् स मुक्त इति कथ्यते । जीवन्न् आकाशविशदो बद्धस् त्व् अन्य इव स्फुटम्
अहम् इत्य् एव शुक्रस्था संविद् आपादमस्तकम् । विसरत्य् अखिले देहे ब्रह्माण्डे ऽर्कप्रभा यथा
दृङ् नेत्रं स्वदनं जिह्वा श्रुतिश् श्रोत्रं भवत्य् असौ । इत्याद्या वासनाḫ पञ्च बद्ध्वा तासु निमज्जति
विद्भावो ऽक्षतयोदेति मनो भूत्वैकदेशतः । सर्वगो ऽपि रसो भूमौ यथाङ्कुरतया मधौ
यो भावयति भावेषु नेह रूढेष्व् अभावताम् । तस्यायत्नवतो दुẖखम् अनन्तं नोपशाम्यति
येन केनचिद् आच्छन्नो येन केनचिद् आशितः । यत्र क्वचन शायी ज्ञस् सम्राड् इव विराजते
वासनाभिर् उपेतो ऽपि समग्राभिर् अवासनः । अन्तश्शून्यो ऽप्य् अशून्यात्मा खम् इव श्वसनान्वितः
आसने शयने याने स्थितो यत्नेन बोध्यते । निद्रालुर् इव निर्वाणमनोमनननिर्वृतः
संविन्मात्रं हि पुरुषस् सर्वगो ऽपि स तिष्ठति । स्फुटं सारे शरीरस्य यथा गन्धो ऽब्जकोटरे
संविन्मात्रं विदुर् जन्तुं तस्य प्रसरणं जगत् । आत्मनिष्ठत्वम् अजगत् परमेत्य् उपदेशभूः
नीरसो भव भावेषु सर्वेषु विभवादिषु । पाषाणं हृदयं कृत्वा तथा भवसि भूतये
साधो हृदयसौषिर्यम् असौषिर्यम् इवास्तु ते । अविद्वद्वपुषो ऽवित्त्वाद् उपलस्येव राघव
तज्ज्ञाज्ञयोर् अशेषेषु भावाभावेषु कर्मसु । ऋते निर्वासनत्वात् तु न विशेषो ऽस्ति कश्चन
सत्तैवैषा विदो यत् सा भवत्य् उन्मिषिता जगत् । परं तत्त्वं निमिषिता दृग् इवानामकं ततम्
दृश्यं विनश्यत्य् अखिलं विनष्टं जायते पुनः । यन् न नष्टं न चोत्पन्नं तत् सत् तद् भव तद् भवान्
भावना ज्ञप्तिनिर्मूला भावितापि न विद्यते । सलिलं मृगतृष्णेव न ददाति भवाङ्कुरम्
यथाभूतार्थसन्दर्शच्छिन्नाहम् इति भावना । दृष्टापि न करोत्य् अन्तर् दग्धं बीजम् इवाङ्कुरम्
कर्म कुर्वन्न् अकुर्वन् वा वीतरागो निरामयः । निर्मना नित्यनिर्वाणो मुनिर् आत्मनि तिष्ठति
चित्तोपशान्तौ संशान्ताश् शान्तये भोगबन्धवः । न त्व् अभावपरिक्षीणाश् चित्तम् एषां किलाकरः
अघनẖ केवलालोको बुद्धो जीवḫ परायते । स एवान्यो ऽप्य् अनन्यो ऽन्तरपराह्ण इवातपः
एकदेशस्थितात् पुंसो दूरं यातस्य चेतसः । यद् रूपम् अकलं मध्ये तद् रूपं परमात्मनः
चारु चिद् व्योमकर्पूरं यच् चमत्कुरुते स्वयम् । अनन्तम् अन्तर् अव्यक्तं जगद् इत्य् एव वेत्ति तत्
गतभवभ्रमभासुरम् अक्षयं शमम् उपेतम् उपेक्षितदीपवत् । स्थितम् अपीह जनं जगदीश्वरा ननु नमन्ति रमन्ति मुदा च खे
निराशवासनापास्तसमस्तभववासनः । उत्थाय गच्छ प्रकृतेर् अस्या मङ्किर् इवाङ्कतः
मङ्किनामाभवत् पूर्वं ब्राह्मणस् संशितव्रतः । स कथं शृणु निर्वाणम् आप्तवान् मद्विबोधतः
अहं कदाचिद् आकाशकोशाद् अवनिम् आगतः । भवत्पितामहार्थेन केनाप्य् उपनिमन्त्रितः