रूपालोकमनस्कारै रन्ध्रैर् बहिर् इव स्थिताम् । सृष्टिं पश्यति जीवो ऽन्तस् सरसीम् इव पर्वतः
जीवो जगत्तयात्मानं पश्यत्य् अयम् अकारणम् । हेमेव कटकादित्वं तद् अपश्यन् न पश्यति
जीवन्तो ऽपि न जीवन्ति म्रियन्ते न मृता अपि । सन्तो ऽपि न च सन्तीव परावरविदश् शुभाः
प्रबुद्धस् सर्वकर्माणि कुर्वन्न् अपि न पश्यति । गृहकर्माणि गेहस्थो गोष्ठभाण्डमना इव
विराड् हृदि यथा चन्द्रḫ प्रतिदेहं तथा स्थितः । जीवो हिमकणाकारस् स्थूले स्थूलो लघौ लघुः
अहमात्मा त्रिकोणत्वम् उपगच्छति कल्पनात् । असद् एव सदाभासं मन्यते चेतनाद् वपुः
कर्मकोशे त्रिकोणे तु शुक्रसारो ऽवतिष्ठते । देहे जीवो ऽहम् इत्य् आत्मा स्वामोदẖ कुसुमे यथा
अहम् इत्य् एव शुक्रस्था संविद् आपादमस्तकम् । विसरत्य् अखिले ज्योत्स्ना यथा ब्रह्माण्डमण्डपे
अक्षरन्ध्रप्रणालेन विवृतं वेदनोदकम् । व्याप्नोति त्रिजगद् धूमो वियन् मेघतया यथा
देहे यद्य् अप्य् अशेषे ऽस्मिन् बहिर् अन्तश् च वेदनम् । विद्यते तत् तथाप्य् अत्र शुक्रे ऽस्ति घनवासनम्
जीवस् सङ्कल्पमात्रात्मा यत्सङ्कल्पो ऽवतिष्ठते । हृदि भूत्वा स एवाशु बहिḫ प्रसरति स्फुटम्
यथास्थितास्यां निश्चिन्तां वर्जयित्वाम्बरोपमाम् । न कयाचिद् अपि स्थित्या शाम्यत्य् अहम् इति भ्रमः
चिन्ता तु चिन्त्यमानापि भावनीयाम्बरोपमा । अहम्भावोपशमने शमनेन क्रमेण ते
तज्ज्ञा व्यवहरन्तीह भाव्यभावनवर्जितम् । अरूपालोकमननं मौनदारुनरा इव
अकिञ्चिद्भावनो यस् स्यात् स मुक्त इति कथ्यते । जीवन्न् आकाशविशदो बद्धस् त्व् अन्य इव स्फुटम्
अहम् इत्य् एव शुक्रस्था संविद् आपादमस्तकम् । विसरत्य् अखिले देहे ब्रह्माण्डे ऽर्कप्रभा यथा
दृङ् नेत्रं स्वदनं जिह्वा श्रुतिश् श्रोत्रं भवत्य् असौ । इत्याद्या वासनाḫ पञ्च बद्ध्वा तासु निमज्जति
विद्भावो ऽक्षतयोदेति मनो भूत्वैकदेशतः । सर्वगो ऽपि रसो भूमौ यथाङ्कुरतया मधौ
यो भावयति भावेषु नेह रूढेष्व् अभावताम् । तस्यायत्नवतो दुẖखम् अनन्तं नोपशाम्यति
येन केनचिद् आच्छन्नो येन केनचिद् आशितः । यत्र क्वचन शायी ज्ञस् सम्राड् इव विराजते
वासनाभिर् उपेतो ऽपि समग्राभिर् अवासनः । अन्तश्शून्यो ऽप्य् अशून्यात्मा खम् इव श्वसनान्वितः
आसने शयने याने स्थितो यत्नेन बोध्यते । निद्रालुर् इव निर्वाणमनोमनननिर्वृतः
संविन्मात्रं हि पुरुषस् सर्वगो ऽपि स तिष्ठति । स्फुटं सारे शरीरस्य यथा गन्धो ऽब्जकोटरे
संविन्मात्रं विदुर् जन्तुं तस्य प्रसरणं जगत् । आत्मनिष्ठत्वम् अजगत् परमेत्य् उपदेशभूः
नीरसो भव भावेषु सर्वेषु विभवादिषु । पाषाणं हृदयं कृत्वा तथा भवसि भूतये
साधो हृदयसौषिर्यम् असौषिर्यम् इवास्तु ते । अविद्वद्वपुषो ऽवित्त्वाद् उपलस्येव राघव
तज्ज्ञाज्ञयोर् अशेषेषु भावाभावेषु कर्मसु । ऋते निर्वासनत्वात् तु न विशेषो ऽस्ति कश्चन
सत्तैवैषा विदो यत् सा भवत्य् उन्मिषिता जगत् । परं तत्त्वं निमिषिता दृग् इवानामकं ततम्
दृश्यं विनश्यत्य् अखिलं विनष्टं जायते पुनः । यन् न नष्टं न चोत्पन्नं तत् सत् तद् भव तद् भवान्
भावना ज्ञप्तिनिर्मूला भावितापि न विद्यते । सलिलं मृगतृष्णेव न ददाति भवाङ्कुरम्