आत्मज्ञानम् अनासाद्य ज्ञानान्तरलवेन ये । सन्तुष्टाẖ कष्टचेष्टेन ते स्मृता ज्ञानबन्धवः
ज्ञानोदितज्ञेयविकासशान्त्या विना न सन्तुष्टधियेह भाव्यम् । त्वं ज्ञानबन्धुत्वम् उपेत्य राम रमस्व मा भोगभवामयेषु
आहारार्थं कर्म कुर्याद् अनिन्द्यं कुर्याद् आहारं प्राणसन्धारणार्थम् । प्राणास् सन्धार्यास् तत्त्वजिज्ञासनार्थं तत्त्वं जिज्ञास्यं येन भूयो न दुẖखम्
ज्ञानेन ज्ञेयनिष्ठत्वाद् यो ऽचितं चितम् एव वा । न भुञ्जते कर्मफलं स ज्ञानीत्य् अभिधीयते
ज्ञात्वा सम्यग् अनुष्ठानं दृश्यते यस्य कर्मसु । निर्वासनात्मकं ज्ञस्य स ज्ञानीत्य् अभिधीयते
अन्तश्शीतलतेहासु प्राज्ञैर् यस्यावलोक्यते । अकृत्रिमैव शान्तस्य स ज्ञानीत्य् अभिधीयते
अपुनर्जन्मने यस् स्याद् बोधस् स ज्ञानशब्दभाक् । वसनाशनदा शेषा व्यवस्था शिल्पजीविका
प्रवाहापतिते कार्ये कामसङ्कल्पवर्जितः । तिष्ठत्य् आकाशहृदयो यस् स पण्डित उच्यते
अकारणं प्रवर्तन्ते इव भावा अकारणात् । अविद्यमाना अप्य् एते विद्यमाना इव स्थिताः
आविर्भावतिरोभावैर् भावाभावभवाभवैः । पश्चात् कारणतां यान्ति मिथẖ कारणकर्मभिः
असतश् शशशृङ्गादेर् मृगतृष्णाम्भसो ऽथ वा । आलोकनाद् अलभ्यस्य कीदृक् स्याद् अथ कारणम्
असतश् शशशृङ्गादेẖ कारणं मार्गयन्ति ये । वन्ध्यापुत्रस्य पौत्रस्य स्कन्धम् आसादयन्ति ते
असत्यप्रतिभासानाम् एतद् एवाशु कारणम् । यद् अनालोकनं नाम समालोकाक्षयक्षयम्
परमात्मायते जीवो ऽबुध्यमानस् त्व् अचेतनम् । चेतनं बुध्यमानस् तु जीव एवावतिष्ठते
परमात्मैव जीवो ऽयं बुध्यमानस् त्व् अचेतनम् । आम्र एव रसापत्तेḫ प्रयाति सहकारताम्
चेतनं बुध्यमानस् तु जीव एवावतिष्ठते । जीवो जीवति जीर्णेषु जातिजन्मसु जर्जरः
ये परां दृष्टिम् आयाता दृश्यश्रीपारदर्शिनः । न विद्यमानम् अप्य् अस्ति तेषां वेदनम् आततम्
ये परां दृष्टिम् आयाता विद्धि तेषाम् अपाम् इव । अरूपालोकमननं स्पन्दम् अस्पन्दनं सदा
ये परां दृष्टिम् आयाता विद्धि तेषाम् अपाम् इव । स्पन्दम् अस्पन्दनं सर्वम् अवेदनवशाद् इह
अरूपालोकमननं वेष्टितोन्मुक्तदामवत् । बुद्धाẖ कर्मसु चेष्टन्ते वृक्षपत्त्रेष्व् इवानिलाः
ये परां दृष्टिम् आयातास् संसृतेḫ पारदर्शिनः । न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्न् इव
ये बद्धवासना मूढाẖ कर्म शंसन्ति ते ऽनघ । श्रुतिस्मृत्युदितं तेन विनाधोऽधḫ पतन्ति ते
इन्द्रियाणि पतन्त्य् अर्थं धृष्टगृध्रा इवामिषम् । तानि संयम्य मनसा युक्त आसीत तत्परः
नासन्निवेशं हेमास्ति नासर्गं ब्रह्म विद्यते । किं तु सर्गादिशब्दार्थमुक्तं युक्तम् अतश् शिवम्
एकान्धकारे सम्पन्ने व्यवहारो युगक्षये । निर्विभागो निराभासो यथा ब्रह्मघने तथा
अभ्रोदरे ऽभ्रभागानां स्पन्दास्पन्दमयी यथा । स्वसंविदात्मिका सत्ता भूतानाम् ईश्वरे तथा
जलस्यान्तर् जलांशानां द्वैताद्वैतमयो यथा । स्वसंविदात्मा स्वस्पन्दस् तथा ब्रह्मणि भूतदृक्
यथाम्बरे ऽम्बरांशानां द्वैताद्वैतैकतात्मनि । स्वसंविदात्मिका सत्ता भूतानाम् ईश्वरे तथा
अनन्यावयवव्याप्तिर् यथावयविनि स्थिता । अनन्या सृष्टिर् आभाति तथानवयवे शिवे
जगतो ऽन्तर् अहंरूपम् अहंरूपान्तरे जगत् । स्थितम् अन्योऽन्यवलितं कदलीदलपीठवत्