विराड्जीवाच् चन्द्रमसो जीवभूतानि देहिनाम् । प्रसरन्त्य् अन्नजातानि प्रालेयविसरात्मना
तान्य् एव देहिदेहेषु जीवा जीवन्ति जीविषु । मनोभूता विचेष्टन्ते कर्म जन्मसु कारणम्
एवं विराट् सहस्राणि महाकल्पशतानि च । गतान्य् अथ भविष्यन्ति नानाचाराणि सन्ति च
सर्वतो ऽनुभवरूपयानया सत्तयोत्तमपदाद् अभिन्नया । अन्तवर्जितमहाङ्गसङ्गया तिष्ठतीति पुरुषḫ परं विराट्
सङ्कल्पपुरुषस् त्व् एष यद् यत् कल्पयति स्वयम् । तत् तथा तादृशं पञ्चभूतात्म भवतीव खम्
सर्वं नाम जगज्जातं तत्सङ्कल्पं विदुर् बुधाः । तादृग्रूपं पञ्चकात्मविषयोन्मुखम् आगतम्
जगत्पदार्थसार्थस्य विराट् सर्वस्य कारणम् । कारणस्य समान्य् एव कार्याणि च भवन्त्य् अतः
यथैष स विराड् एवं विराट् प्रत्येकम् आत्मनि । स्वसंविदि प्रसरति बोधवान् न त्व् अबोधवान्
आसरीसृपम् आरुद्रम् एवम् अभ्युत्थितो भ्रमः । अणाव् अप्य् अद्रिविस्तारो बीजकोश इव द्रुमः
आसरीसृपम् आरुद्रं विराट् प्रत्येकम् आत्मनि । पराणाव् अप्य् अनन्तात्मा बोधतो न त्व् अबोधतः
यादृग् एव विराडात्मन्य् एष विस्तार आगतः । तादृग् एवेह सर्वस्मिन्न् अणुमात्रे ऽपि भूतके
परमार्थेन न स्थूलं न सूक्ष्मं किञ्चन क्वचित् । यद् यथा भावितं यत्र तत् तथाश्व् अनुभूयते
मनश् चन्द्रमसो जातं मनसश् चन्द्र उत्थितः । जीवाज् जीवो ऽथ वैकैषा सत्ता द्रवजलाङ्गवत्
शुक्रसारं विदुर् जीवं प्रालेयकणसन्निभम् । आनन्दो बलसन्दोहस् तत एव प्रवर्तते
तं चेतति चिदाभासं पूर्वम् आत्मा स्वम् आत्मना । तत्र तन्मयतां धत्ते तेन तन्मयरूपिणीम्
जीवसंविद् अथैषान्तर् यद् उपायाति पञ्चताम् । न तत्र कारणं किञ्चिद् विद्यते न च कार्यता
प्रतियोगिव्यवच्छित्तेर् अभावात् स्वत्वभावयोः । स्वभावोक्तिर् न चैवात्र भवत्य् अर्थानुसारिणी
जीवो जीवत्वम् एव स्वं जीवत्वाद् एव च स्वतः । अन्तस्त्वेन बहिष्ट्वेन दृश्यत्वेन च भावयन्
नीहारेणेव संवीतश् चेत्यवस्तुपरायणः । जात्यन्ध इव पन्थानम् आवृतात्मा न पश्यति
जगज्जृम्भिकया जीवस् त्व् अनैक्यद्वित्वया स्थितः । स्पन्दशक्त्येव पवनस् स्वात्मनो ऽभिन्नयानया
शुद्धं बुद्धम् अनाद्यन्तं जीवो जनितवासनः । आद्यं क्षीव इवात्मानम् आवृतात्मा न पश्यति
अज्ञानस्य महाग्रन्थेर् मिथ्यावेद्यात्मनो ऽसतः । अहमित्यर्थरूपस्य भेदो मोक्ष इति स्मृतः
व्यपगतघनचेतनस् समन्ताद् अहम् इति नूनम् अबुध्यमान आस्स्व । अनभिधपरचेतनैकरूपस् सदसदसन् न सदा सदोदितश् च
ज्ञानिनैव सदा भाव्यं राम न ज्ञानबन्धुना । अज्ञतैव वरं मन्ये न पुनर् ज्ञानबन्धुता
किम् उच्यते ज्ञानबन्धुर् ज्ञानी चैव किम् उच्यते । किं फलं ज्ञानबन्धुत्वे ज्ञानित्वे ऽपि च किं फलं
व्याचष्टे यḫ पठति च शास्त्रं भोगाय शिल्पिवत् । यतते न त्व् अनुष्ठाने ज्ञानबन्धुस् स उच्यते
कर्मस्पन्देषु नो बोधḫ फलितो यस्य दृश्यते । बोधशिल्पोपजीवित्वाज् ज्ञानबन्धुस् स उच्यते
वसनाशनमात्रेण तुष्टाश् शास्त्रफलेन ये । अज्ञाञ् ज्ञानांशबन्धूंस् तान् विद्याच् छास्त्रार्थशिल्पिनः
प्रवृत्तिलक्षणे धर्मे वर्तते यश् श्रुतोचितम् । अदूरवर्तिज्ञानत्वाज् ज्ञानबन्धुस् स उच्यते
आत्मज्ञानं विदुर् ज्ञानं ज्ञानान्य् अन्यानि यानि तु । तानि ज्ञानावभासानि सारस्यानवबोधनात्