आस्ते ऽनस्तमितो भास्वान् अजो देवो निरामयः । सर्वदा सर्वकृत् सर्वः परमात्मा महेश्वरः
यतो वाचो निवर्तन्ते यो मुक्तैर् अवगम्यते । यस्य चात्मादिकास् सञ्ज्ञाः कल्पिता न स्वभावजाः
यः पुमान् साङ्ख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् । विज्ञानमात्रं विज्ञानविदाम् एकान्तनिर्मलम्
यश् शून्यवादिनां शून्यं भासको यो ऽर्कतेजसाम् । वक्ता स्मर्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव यः
सद् अप्य् असद् यो जगति यो देहस्थो ऽपि दूरगः । चित्प्रकाशो ह्य् अयं यस्माद् आलोक इव भास्वतः
यस्माद् विष्ण्वादयो देवास् सूर्याद् इव मरीचयः । यस्माज् जगन्त्य् अनन्तानि बुद्बुदा जलधेर् इव
यं यान्ति दृश्यवृन्दानि पयांसीव महाम्बुधिम् । य आत्मानं पदार्थं च प्रकाशयति दीपवत्
आकाशे यश् शरीरे च दृषत्स्व् अप्सु लतासु च । पांसुष्व् अद्रिषु वातेषु पातालेषु च संस्थितः
यः प्लावयति संरब्धं पुर्यष्टकम् इतस् ततः । येन मूकीकृता मूढाश् शिला ध्यानम् इवास्थिताः
व्योम येन कृतं शून्यं शैला येन घनीकृताः । आपो द्रुताः कृता येन दीप्तो यस्य वशाद् रविः
प्रसरन्ति यतश् चित्रास् संसारासारदृष्टयः । अक्षयामृतसम्पूर्णाद् अम्भोदाद् इव वृष्टयः
आविर्भावतिरोभावमय्यस् त्रिभुवनोर्मयः । स्फुरन्त्य् अविरतं यस्मिन् घृणाव् इव मरीचयः
नाशरूपो ऽविनाशात्मा यो ऽन्तस्स्थस् सर्ववस्तुषु । गुप्तो यो व्यतिरिक्तो ऽपि सर्वभावेषु संस्थितः
प्रकृतिव्रततिर् व्योम्नि जाता ब्रह्माण्डसत्फला । चित्तमूलेन्द्रियदला येन नृत्यति वायुना
यश् चिन्मणिः प्रकचति प्रतिदेहसमुद्गकम् । यस्मिन्न् इन्दौ स्फुरन्त्य् एता जगज्जालमरीचयः
प्रशान्तचिद्घने यस्मिन् स्फुरन्त्य् अमृतवर्षिणि । धाराजलानि भूतानि दृष्टयस् तडितस् स्फुटाः
चमत्कुर्वन्ति वस्तूनि यदालोकनया मिथः । असज् जातम् असद् येन येन सत् सत्त्वम् आगतम्
चलतीदम् अनिच्छस्य कायायो यस्य सन्निधौ । जडं परमरत्नस्य शान्तम् आत्मनि तिष्ठतः
नियतिर् देशकालौ च चलनं स्पन्दनं क्रियाः । इति येन गतं सत्तां सर्वसत्त्वाभिगामिना
शुद्धसंविन्मयत्वाद् यः खं भवेद् व्योमवित्तया । पदार्थवित्तयार्थत्वम् अवतिष्ठत्य् अनिष्ठितः
कुर्वन्न् अपीव जगतां महताम् अनन्तस्पन्दं न किञ्चन करोति कदाचनापि । स्वात्मन्य् अनस्तमयसंविदि निर्विकारे त्यक्तोदयस्थितिमतिस् स्थित एक एव
अस्य देवातिदेवस्य परस्य परमात्मनः । ज्ञानाद् एव परा सिद्धिर् न त्व् अनुष्ठानखेददा
अत्र ज्ञानम् अनुष्ठानं न त्व् अन्यद् उपयुज्यते । मृगतृष्णाजलभ्रान्तिशान्तिवेदनरूपि तत्
न चैष दूरे नाकाशे नालभ्यो विषमो न च । स्वानन्दभासरूपो ऽसौ स्वदेहाद् एव लभ्यते
किञ्चिन् नोपकरोत्य् अत्र तपोदानव्रतादिकम् । स्वभावमात्रविश्रान्तिम् ऋते नात्रास्ति साधनम्
शास्त्रसत्सङ्गसद्योगिपरतैवात्र केवलम् । साधनं बोधनं मोहजालस्य यद् अकृत्रिमम्
अयं स देव इत्य् एव सम्परिज्ञानमात्रतः । जन्तोर् न जायते दुःखं जीवन्मुक्तत्वम् एति च
सम्परिज्ञातमात्रेण किलानेनात्मनात्मनि । पुनर् दोषा न बाधन्ते मरणाद्याः कदाचन
देवदेवो महान् एष कुतो दूराद् अवाप्यते । तपसा केन तीव्रेण क्लेशेन कियताथवा
स्वपौरुषप्रयत्नेन विवेकेन विकासिना । स देवो ज्ञायते राम न तपस्स्नानकर्मभिः