स चेतति यथा यत्र यद् यदाशु तद् एव हि । तथा तत्र तदा राम भवत्य् अनुभवात्मकम्
पवनस्य यथा स्पन्दश् चेत्यं जीवस्य वै तथा । स्वसंविन्मात्रनिर्णेयं नोपदेशामयक्षतम्
यथैवास्पन्दनाद् वातस् सन्न् एवैत्य् असदात्मताम् । तथैवाचेतनाज् जीवो जीवन्न् एति परां गतिम्
जीवश् चिद्घनरूपत्वाद् अहम् इत्य् एव चेतनात् । देशकालक्रियाद्रव्यशक्तीर् निर्माय तिष्ठति
देशकालक्रियाद्रव्यचर्चितां चर्चितां स्वयम् । असत्यां सत्यवत् स्फारां तावन्मात्रशरीरकाम्
चेतिताम् असदाकारां प्रालेयपरमाणुताम् । पश्यत्य् आत्मन्य् अथात्मत्वे स्वप्ने स्वमरणोपमाम्
स्वप्नस्वावयवान्यत्वसदृशीं तां विभावयन् । विस्मृत्य चेतनीं सत्तां तत्ताम् एवाशु गच्छति
एवंरूपो बुध्यमानḫ प्रोच्छूनत्वम् अथात्मनि । पश्यत्य् आशु स्वम् आत्मानं चन्द्रबिम्बम् इव द्रुतम्
आत्मन्य् अथेन्दुबिम्बात्मन्य् असौ संवित्तिपञ्चकम् । काकतालीयवद् भिन्नम् उदितं चेतति स्वयम्
पञ्चानां संविदां पञ्च भिन्नान्य् अङ्गान्य् असाव् अथ । बुध्यते तानि तद्रूपरन्ध्राण्य् अनुभवत्य् अपि
स पञ्चावयवḫ पश्चाद् राजते पुरुषो विराट् । अनन्ताकारसंवित्तिर् अव्यक्तात्मा निरामयः
मनोमयो ऽसाव् उदितḫ परस्मात् प्रथमोत्थितः । आकाशविशदश् शान्तो नित्यानन्तविभामयः
स चाप्य् अपञ्चभूतात्मा पञ्चभूतात्मकोपमः । विराडात्मैकपुरुषḫ परमḫ परमेश्वरः
स्वयम् एवाशु भवति स्वयम् एव विलीयते । स्वयम् एव प्रसरति स्वयं सङ्कोचम् एति च
स्वसङ्कल्पकृतेनासौ कल्पौघेन क्षणेन वा । यदृच्छयोदेति पुनḫ पुनर् भूत्वोपशाम्यति
मनोमात्रैकरूपात्मा प्रकृतेर् देह एष सः । एष पुर्यष्टकं प्रोक्तस् सर्वस्यैवातिवाहिकः
स्थूलस् सूक्ष्मो ऽम्बरात्मैष व्यक्तो ऽव्यक्तो ऽन्तवर्जितः । सर्वस्य बहिर् अन्तश् च नकिञ्चित् किञ्चिद् एव च
अङ्गानि राम तस्याष्टौ मनष्षष्ठानि पञ्च च । साहम्भावानीन्द्रियाणि भावाभावमयानि च
तेन गीता इमे वेदास् सह शब्दार्थकल्पनैः । नियतिस् स्थापिता तेन तथाद्यापि यथा स्थिता
अनन्तम् ऊर्ध्वं मूर्धास्य तथाधḫ पादयोस् तलम् । अपराकाशम् उदरम् इदं ब्रह्माण्डमण्डलम्
लोकान्तराण्य् अनन्तानि पार्शुकाẖ क्षतजं पयः । मांसपेश्यẖ क्षितिधरास् सरितस् सन्ततास् सिराः
रक्तधारा जलधयो द्विपान्य् एवान्त्रवेष्टनम् । बाहवẖ ककुभस् स्फारास् तारका रोमसन्ततिः
पञ्चाशद् अनिलस्कन्धा एकोनाḫ प्राणवायवः । मार्ताण्डमण्डलं चण्डं पित्तं जठरपावकः
शशाङ्कमण्डलं जीवश् श्लेष्मा शुक्रं सितं बलम् । मनस् सङ्कल्पकोशात्म सारात्म परमामृतम्
मूलं शरीरकोशस्य बीजं कर्मद्रुमस्य च । प्रसवस् सर्वभावानाम् इन्दुर् आनन्दकारणम्
यद् इन्दुमण्डलं नाम स सम्राड् जीव उच्यते । शरीरकर्ममनसां बीजं मूलं च कारणम्
अस्माद् इन्दुनिभाज् जीवात् प्रसरन्ति जगत्त्रये । जीवा मनांसि कर्माणि सुखान्य् अन्नामृतानि च
विराज एते सङ्कल्पा ब्रह्मविष्णुजिनादयः । तस्य चित्तचमत्कारास् सुरासुरनभश्चराः
चित्स्वभावो बुध्यमानḫ प्रालेयपरमाणुताम् । यदादौ भावयत्य् आशु तदा तत्रैव तिष्ठति
तेनैतद् एव जीवस्य स्थानं विद्धि रघूद्वह । पञ्चावयवम् एतत् तच् छरीरम् अनुभूयते