यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । अमुञ्चतḫ पराणुत्वं जीवस्यैतत् स्मृतं वपुः
सर्वसंवेदनत्यागे शुद्धसत्तास्पदे पदे । न मनाग् अपि भेदो ऽस्ति निस्सङ्गोपलकोशयोः
यो यो नाम समुल्लेखो यत्र यत्र यथा यथा । यदा यदा येन येन पयसस् स यथा द्रवः
यो यो नाम विकल्पांशो यत्र यत्र यथा यथा । यदा यदा येन येन चीयते स तथेह चित्
अचित्त्वान् नास्ति मनसि सङ्कल्पẖ ख इवाङ्कुरः । चित्त्वात् तु चेतसो विद्धि चितेर् एवेह कल्पनम्
या योदेति विकल्पश्रीर् अप्रबुद्धाशयं प्रति । सर्वगत्वाद् अनन्तत्वाच् चिद्व्योम्नस् सा न सन्मयी
सर्वसङ्कल्पकलना सत्येत्य् आबालम् अक्षतम् । स्वप्नादाव् अनुभूतो ऽन्तर् अर्थẖ केनापलप्स्यते
सङ्कल्पो वास्त्व् असङ्कल्पो यो य आलिखितश् चिता । सो ऽनुभूतो ऽप्य् असत्यस् स्याद् असत्यस्यैव नो सतः
असत्यताभिधं सत्यं मुक्त एव भवेच् छिवः । सो ऽतिवाहिकदेहैकपरिक्षयविकासवान्
जगन्ति वातैर् उह्यन्ते व्योम्नि शल्मलितूलवत् । नोह्यन्ते चोपलानीव न च सन्त्य् एव कल्पनात्
इत्य् अस्मिन्न् अखिलपदार्थसार्थकोशे व्योमन्य् अप्य् अतिवितते जगन्ति सन्ति । क्षुब्धाम्बुप्रसृततरङ्गभङ्गभङ्ग्या सर्वत्राविरलतरं मिथो मिलन्ति
अन्योऽन्यं नियतम् अरोधकानि नित्यं प्रोत्कम्पान्य् अमलनभांसि वारिणीव । चित्रज्ञप्रविसृतचित्तचित्रजालानीवान्तर् बहिर् इव वृन्दजृम्भितानि
अन्योऽन्यं परिमिलितानि कानिचित् खे नान्योऽन्यं परिमिलितानि कानिचिच् च । सर्वत्वात् परमचितेर् अनन्तरूपाण्य् आरम्भप्रचुरदिगन्तसम्भृतानि
लोलाम्बूदरपुरबिम्बभङ्गुराणि स्वान्तस्थाविरलमहापुरोपमानि । सुस्थैर्याण्य् अपि सततं क्षणक्षयाणि चिद्रूपार्णवलहरीविवर्तनानि
पृथक्स्थितानि व्यतिमिश्रितानि जलानि वेवाम्बुनिधौ नदीनाम् । तारार्कचन्द्रग्रहमण्डलानां समोदितानां नभसीव भासः
मुने जीवस्य यद् रूपम् आकृतिग्रहणं तथा । यथा च परमार्थत्वं स्थानं यच् चास्य तद् वद
स्वसङ्कल्पाङ्कचेत्याङ्कं चिद् इत्य् अपरनामकम् । अनन्तं चेतनाकाशं जीवशब्देन कथ्यते
न पराणु न च स्थूलं न शून्यं न च किञ्चन । चिन्मात्रं स्वानुभूत्यात्म सर्वगं जीव उच्यते
अणीयसाम् अणीयांसं स्थविष्ठं च स्थवीयसाम् । नकिञ्चिन्मात्रकं चैव सर्वं जीवं विदुर् बुधाः
यस्य यस्य पदार्थस्य यो भावस् तेन तत्र तम् । स्थितं विद्धि तदाभासं तदात्मैकान्तवेदनात्
स चेतति यथा यत्र यद् यदाशु तद् एव हि । तथा तत्र तदा राम भवत्य् अनुभवात्मकम्
पवनस्य यथा स्पन्दश् चेत्यं जीवस्य वै तथा । स्वसंविन्मात्रनिर्णेयं नोपदेशामयक्षतम्
यथैवास्पन्दनाद् वातस् सन्न् एवैत्य् असदात्मताम् । तथैवाचेतनाज् जीवो जीवन्न् एति परां गतिम्
जीवश् चिद्घनरूपत्वाद् अहम् इत्य् एव चेतनात् । देशकालक्रियाद्रव्यशक्तीर् निर्माय तिष्ठति
देशकालक्रियाद्रव्यचर्चितां चर्चितां स्वयम् । असत्यां सत्यवत् स्फारां तावन्मात्रशरीरकाम्
चेतिताम् असदाकारां प्रालेयपरमाणुताम् । पश्यत्य् आत्मन्य् अथात्मत्वे स्वप्ने स्वमरणोपमाम्
स्वप्नस्वावयवान्यत्वसदृशीं तां विभावयन् । विस्मृत्य चेतनीं सत्तां तत्ताम् एवाशु गच्छति
एवंरूपो बुध्यमानḫ प्रोच्छूनत्वम् अथात्मनि । पश्यत्य् आशु स्वम् आत्मानं चन्द्रबिम्बम् इव द्रुतम्
आत्मन्य् अथेन्दुबिम्बात्मन्य् असौ संवित्तिपञ्चकम् । काकतालीयवद् भिन्नम् उदितं चेतति स्वयम्
पञ्चानां संविदां पञ्च भिन्नान्य् अङ्गान्य् असाव् अथ । बुध्यते तानि तद्रूपरन्ध्राण्य् अनुभवत्य् अपि