सर्वत्र सर्वदा सन्ति सुसूक्ष्माण्य् एव खाद् अपि । कल्पनामात्रसारत्वान् न दह्यन्ते मनाग् अपि
तान्य् एव दृढभावत्वात् स्वेषु लोकेषु तेष्व् अलम् । मतान्य् एव चिदंशस्य सर्वगत्वाद् भवान् इव
प्रतिबिम्बपुराणीव पुरḫ प्राणसरिद्रये । अनूढान्य् अपि चोह्यन्ते सूढान्य् अपि च नैव च
सौरभाणि समुह्यन्ते वाताङ्गस्थानि राघव । जगन्ति प्राणसंस्थानि व्योमात्मकतया तथा
कुम्भे देशान्तरं नीते यथान्तर् व्योम्नि नान्यता । स्पन्दनादिमये चित्ते तथैव त्रिजगद्भ्रमे
इत्थं जगद्भ्रान्तिर् इयम् असत्यैवोदितैव ते । न विनश्यति नोदेति केवलं ब्रह्मरूपिणी
यदि वाप्य् ऊह्यते वातैस् तत् तद् अस्या न लक्ष्यते । तदन्तस्संस्थितैस् स्पन्दो नावि कोशगतैर् इव
यथा स्पन्दो ऽङ्ग लग्नो ऽपि नाव्य् अन्तस् संस्थितैर् अपि । न लक्ष्यते तथा ब्रह्म तत्संस्थैस् तन्मयैर् अपि
यथा योजनविस्तीर्णं लघौ सद्मानुभूयते । यक्षस्य पादपस्तम्भे परमाणौ तथा जगत्
वस्त्व् अल्पम् अप्य् अतिबृहल् लघुसत्त्वो ऽभिमन्यते । मूषिका स्वाञ्जलिद्रव्यम् इव पङ्कम् इवार्भकः
असत्य् एव खरूपे ऽस्मिञ् जगदाख्ये विदो भ्रमे । लोकान्तराद्र्योघमयी सुदृढाज्ञस्य भावना
इदं हेयम् उपादेयम् इदम् इत्य् अन्तर् अज्ञता । यस्य तस्य भवायास्ति सर्वज्ञस्यापि मूढता
सचेतनो ह्य् अवयवी चेतत्य् अवयवान् यथा । स्वान्तर् एव ततं जीवस् त्रिजगद् बुध्यते तथा
संविदात्म पराकाशम् अनन्तम् अहम् अव्ययः । व्योम्नो ऽवयवरूपाणि तस्येमानि जगन्ति मे
सचेतनो ऽयḫपिण्डो ऽन्तẖ क्षुरसूच्यादिकं यथा । बुध्यते बुध्यते तद्वज् जीवो ऽन्तस् त्रिजगद्भ्रमम्
अचित् सचिद् वा मृत्पिण्डश् शरावोदञ्चनादिकम् । यथाङ्गं मनुते जीवस् तथाङ्गं मनुते जगत्
चिद् अचिद् वाङ्कुरो देहे वृक्षत्वं मन्यते यथा । वृक्षशब्दार्थरहितं ब्रह्मेदं त्रिजगत् तथा
चिद् वाचिद् वा यथादर्शो बिम्बितं वाप्य् अबिम्बितम् । नगरं वेत्ति नो वापि तथा ब्रह्म जगत्त्रयम्
देशकालक्रियाद्रव्यमात्रम् एव जगत्त्रयम् । अहन्त्वजगतोस् तेन भेदो नास्ति तदात्मनोः
कल्पितेनोपमानेन यद् एतद् उपदिश्यते । अत्रोपमैकदेशेन उपमेयसधर्मता
यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । अमुञ्चतḫ पराणुत्वं जीवस्यैतत् स्मृतं वपुः
सर्वसंवेदनत्यागे शुद्धसत्तास्पदे पदे । न मनाग् अपि भेदो ऽस्ति निस्सङ्गोपलकोशयोः
यो यो नाम समुल्लेखो यत्र यत्र यथा यथा । यदा यदा येन येन पयसस् स यथा द्रवः
यो यो नाम विकल्पांशो यत्र यत्र यथा यथा । यदा यदा येन येन चीयते स तथेह चित्
अचित्त्वान् नास्ति मनसि सङ्कल्पẖ ख इवाङ्कुरः । चित्त्वात् तु चेतसो विद्धि चितेर् एवेह कल्पनम्
या योदेति विकल्पश्रीर् अप्रबुद्धाशयं प्रति । सर्वगत्वाद् अनन्तत्वाच् चिद्व्योम्नस् सा न सन्मयी
सर्वसङ्कल्पकलना सत्येत्य् आबालम् अक्षतम् । स्वप्नादाव् अनुभूतो ऽन्तर् अर्थẖ केनापलप्स्यते
सङ्कल्पो वास्त्व् असङ्कल्पो यो य आलिखितश् चिता । सो ऽनुभूतो ऽप्य् असत्यस् स्याद् असत्यस्यैव नो सतः
असत्यताभिधं सत्यं मुक्त एव भवेच् छिवः । सो ऽतिवाहिकदेहैकपरिक्षयविकासवान्
जगन्ति वातैर् उह्यन्ते व्योम्नि शल्मलितूलवत् । नोह्यन्ते चोपलानीव न च सन्त्य् एव कल्पनात्