अन्तश्शुद्धमनस्का ये सुचिरायाभवप्रदम् । मनाग् अप्य् उपदिष्टास् ते प्राप्नुवन्ति परं पदम्
मेरुमूर्धनि माम् एवम् उक्त्वा स विहगाधिपः । तूष्णीं बभूव मुक्तात्मा वृष्टमूक इवाम्बुदः
अहम् आमन्त्र्य तं सिद्धं विद्याधरपथा पुनः । प्राप्त आत्मास्पदं राम मुनिमण्डलमण्डितम्
एतत् तवाद्य कथितं बलिभुक्कथोत्थं विद्याधरोपशमनं लघुबोधनोत्थम् । अस्मिन् भुसुण्डविहगेन्द्रसमागमे मे चैकादशेह हि गतानि महायुगानि
अनहंवेदनाद् एव शुभाशुभफलप्रदा । संसारफलिनी नूनम् इच्छान्तर् उपशाम्यति
अनहंवेदनाभ्यासात् समलोष्टाश्मकाञ्चनः । भूत्वा शान्तभवापीडो न नरḫ परिताम्यति
स्वसत्तापुटकोड्डीनḫ परबोधबलेरितः । अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति
अहन्तापुटकोड्डीनो ब्रह्मवीरबलेरितः । शरीरयन्त्रपाषाणो न जाने क्वाशु गच्छति
अहमर्थहिमं त्व् अन्तर् अनहन्ताविदर्चिषा । उड्डीयेव विलीनं सन् न जाने क्वाशु गच्छति
अहंरसो विलीनो ऽन्तर् अनहन्ताविदर्चिषा । शरीरपर्णाद् उद्वर्णान् न जाने क्वाशु गच्छति
शरीरपर्णान् निष्पीतो ह्य् अहम्भावरसासवः । अनहन्तार्कमार्गेण परताम् अधिगच्छति
शयने कर्दमे शैले गृहे व्योम्नि स्थले जले । स्थूला सूक्ष्मा निराकारा रूपान्तरगतापि च
यत्र तत्र स्थिता सुप्ता प्रबुद्धा भस्मतां गता । मृता पीता निमग्ना च दूरस्था निकटा सती
शरीरवटधानान्तस्स्थिताहन्त्वनवाङ्कुरा । शाखाजालं तनोत्य् उच्चैस् संसाराख्यम् इदं क्षणात्
अहन्त्ववटधानान्तस्स्थितो देहबृहद्द्रुमः । संसारशाखानिवहं यत्र तत्र तनोत्य् अलम्
शाखाशतेद्धदलपुष्पफलो द्रुमो ऽस्ति बीजोदरे न तु दृशा परिदृश्यते ऽसौ । देहो ऽप्य् अहन्त्वकणिकान्तर् अशेषदृश्यसंवित्परीत इति दृश्यदृशैव दृष्टम्
देहाद् अहन्त्वम् अनवाप्तवतो विचारैर् विद्व्योममात्रवपुषो वपुषो ऽथ वोच्चैः । नाहन्त्वबीजजठराद् असतो ऽभ्युदेति संसारवृक्ष इह बोधमहाग्निदग्धात्
मरणं सर्वनाशात्म न कदाचन विद्यते । स्वसङ्कल्पान्तर् अस्थैर्यं मृतिर् इत्य् अभिधीयते
पश्य मे पुर उह्यन्ते इव मन्दरमेरवः । अनूढा अपि दिग्वातैस् सरिद्बिम्बितशैलवत्
उपर्य् उपर्य् अन्तर् अन्तẖ कदलीदलपीठवत् । श्लिष्टाश्लिष्टाẖ खरूपाẖ खे मिथस् संसृतयस् स्थिताः
पश्य मे पुर उह्यन्ते इति वाक्यार्थम् अक्षतम् । न किञ्चिद् अवगच्छामि यथावन् मुनिनायक
प्राणस्याभ्यन्तरे चित्तं चित्तस्याभ्यन्तरे जगत् । विद्यते विविधाकारं बीजस्यान्तर् इव द्रुमः
मृते पुंसि नभोवातैर् मिलन्ति प्राणवायवः । सरिज्जलैर् इवाम्भोधिजलान्य् आत्मद्रुतानि हि
इतश् चेतश् च यान्त्य् एव तेषाम् अन्तर् जगन्त्य् अलम् । व्योमवातविनुन्नानां सङ्कल्पैकात्मकान्य् अपि
सप्राणवातैḫ पवनैस् स्फुरत्सङ्कल्पगर्भितैः । सर्वा एव दिशḫ पूर्णाḫ पश्यामीमास् समन्ततः
अत्रैते पश्य पश्यामि सङ्कल्पजगतां गणैः । बुद्धिदृष्ट्या समुह्यन्ते पुरो मन्दरमेरवः
खवाते ऽन्तर् मृतप्राणाḫ प्राणानाम् अन्तरे मनः । मनसो ऽन्तर् जगद् विद्धि तिले तैलम् इव स्थितम्
खवातैẖ खे मृतप्राणा यथोह्यन्ते मनोमयाः । उह्यन्ते वै तथैतानि तदङ्गानि जगन्त्य् अपि
सभूतान्य् अम्बरोर्व्यादिवृन्दानि त्रिजगन्त्य् अपि । उह्यन्ते वाप्य् अनूढानि पुरस् सर्वत्र गन्धवत्
तानि बुद्ध्यैव दृश्यन्ते न दृशा रघुनन्दन । पुरस् सङ्कल्परूपाणि स्वस्वप्नपुरपूरवत्