नाहन्त्वजगती भिन्ने पवनस्पन्दवत् सदा । पयो द्रवत्वम् इव च वह्निर् औष्ण्यम् इवापि च
जगद् अस्त्य् अहमर्थे ऽन्तर् अहम् अस्ति जगद्धृदि । अन्योऽन्यभाविनी ह्य् एते आधाराधेयवत् स्थिते
जगद्बीजम् अहन्त्वं यो मार्ष्टि बोधाद् अवेदनात् । अलं चित्रं जलेनेव तेन धौतं जगन्मलम्
अहन्त्वं नाम तत् किञ्चिद् विद्याधर न विद्यते । अकारणम् अवस्तुत्वाच् छशशृङ्गम् इवोदितम्
ब्रह्मण्य् अतितते ऽनन्ते सकलोल्लेखवर्जिते । अहन्त्वं कारणाभावान् न कदाचन सन्मयम्
अवस्तुन्य् ओतुशृङ्गादौ न सम्भवति कारणम् । अतो ऽहन्त्वादि नास्त्य् एव वन्ध्यासुत इव क्वचित्
तदभावाज् जगन् नास्ति चित्त्वं जगदभावतः । शिष्टं निर्वाणम् एवातश् शान्तम् आस्स्व यथासुखम्
अभावाद् उपपत्तिस्थाद् एवं जगदहन्त्वयोः । रूपालोकमनस्काराश् शान्तास् तव भवेतरत्
यन् नास्ति तत् तु नास्त्य् एव शेषं शान्तम् असि ध्रुवम् । सम्प्रबुद्धो ऽसि मा भूयो निर्मूलां भ्रान्तिम् आहर
व्यपगतकलनाकलङ्कशुद्धश् शिवम् असि शान्तम् असीश्वरो ऽसि नित्यम् । खम् इव भवसि सर्वतोपमानं जगद् अपि वा परमाणुरूपम् एव
कथयत्य् अथ मय्य् एवं स विद्याधरनायकः । आसीत् संशान्तसंवित्तिस् समाधिपरिणामवान्
प्रबोध्यमानो ऽपि मया भूयो भूयस् ततस् ततः । न पपात पुरोदृश्ये परं निर्वाणम् आगतः
स प्राप परमं स्थानं तावन्मात्रप्रबोधनात् । केनचिन् नाधिकेनाङ्ग यत्नेनातिशयैषिणा
अत उक्तं मया नाम यदि शुद्धे हि चेतसि । उपदेशḫ प्रसरति तैलबिन्दुर् इवाम्भसि
नाहम् इत्य् अस्ति तेनान्तर् मैवं भावय शान्तये । एतावत्य् उपदेशोक्तिḫ परमा नेतरास्ति हि
एषैवाभव्यमनसि पतिता प्रपलायते । उत्ताने मसृणादर्शे मुक्ताफलम् इवातलम्
भव्ये तु शान्ते मनसि लगत्य् अभ्येति च द्युतिम् । प्रविश्यान्तर् विचाराख्याम् अर्चिर् अर्कमणाव् इव
अहम्भावनम् एवोच्चैर् बीजं दुẖखाख्यशल्मलेः । ममेदं तद्वशाद् एति शाखाप्रसरकारणम्
अहमादौ ममेत्य् अन्तस् तत इच्छा प्रवर्तते । इदमर्थशतानर्थकारिणी भवभाविनी
एवंविधा मुनिश्रेष्ठ मूढा अपि चिरायुषः । भवन्ति नियमो ह्य् अङ्ग दीर्घायुष्ट्वस्य कारणम्
अन्तश्शुद्धमनस्का ये सुचिरायाभवप्रदम् । मनाग् अप्य् उपदिष्टास् ते प्राप्नुवन्ति परं पदम्
मेरुमूर्धनि माम् एवम् उक्त्वा स विहगाधिपः । तूष्णीं बभूव मुक्तात्मा वृष्टमूक इवाम्बुदः
अहम् आमन्त्र्य तं सिद्धं विद्याधरपथा पुनः । प्राप्त आत्मास्पदं राम मुनिमण्डलमण्डितम्
एतत् तवाद्य कथितं बलिभुक्कथोत्थं विद्याधरोपशमनं लघुबोधनोत्थम् । अस्मिन् भुसुण्डविहगेन्द्रसमागमे मे चैकादशेह हि गतानि महायुगानि
अनहंवेदनाद् एव शुभाशुभफलप्रदा । संसारफलिनी नूनम् इच्छान्तर् उपशाम्यति
अनहंवेदनाभ्यासात् समलोष्टाश्मकाञ्चनः । भूत्वा शान्तभवापीडो न नरḫ परिताम्यति
स्वसत्तापुटकोड्डीनḫ परबोधबलेरितः । अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति
अहन्तापुटकोड्डीनो ब्रह्मवीरबलेरितः । शरीरयन्त्रपाषाणो न जाने क्वाशु गच्छति
अहमर्थहिमं त्व् अन्तर् अनहन्ताविदर्चिषा । उड्डीयेव विलीनं सन् न जाने क्वाशु गच्छति
अहंरसो विलीनो ऽन्तर् अनहन्ताविदर्चिषा । शरीरपर्णाद् उद्वर्णान् न जाने क्वाशु गच्छति