ततो ऽस्मिन् विचरन् सर्गे शक्रान्ते शक्रतां गतः । चकार जगतां राज्यं वृत्तान्तशतशोभितम्
विद्याधरकुलाधीश इहाद्यैव स देवराट् । तस्येन्द्रस्य कुलोत्पन्न इति विद्धि यथास्थितम्
ततो हृदयबीजस्थप्राङ्मुखाभ्यासयोगतः । बिसजालविलासादिवृत्तान्तम् अनुभूतवान्
यथैष शक्रẖ कथितस् त्रसरेणूदरास्पदः । बिसवालास्पदश् चैतत्कुलजẖ कान्तिमान् अथ
तथा शतसहस्राणि तत्रतश् चान्यतश् च खे । तादृशव्यवहाराणि समतीतानि सन्ति च
वहतीयम् अविच्छिन्ना चिरायैवं तरङ्गिणी । तात दृश्यसरित् प्रौढा मूढा रूढेव तत्पदे
इति मायेयम् आदीर्घा प्रसृतोपशमोन्मुखी । सत्यावलोकमात्रातिविलयैकविलासिनी
यतẖ कुतश्चिन् मायेयं यत्र क्वचन वानघ । यथा कथञ्चित् सम्पन्नमात्रैव परिदृश्यते
अहम्भावचमत्कारमात्राद् वृष्टिर् इवाम्बुदात् । जायते मिहिकेवाशु प्रेक्षामात्रविनाशिनी
मैनां पताभिमतदर्शन पश्य दृश्यमुक्तं स्वभावम् अवभासनमात्रतत्त्वम् । सर्वार्थशून्यम् अत एव च शून्यरूपम् एकं खमात्रम् इव मात्र विकल्पम् एहि
यत्राहन्त्वं जगत् तत्र पूर्वम् आगत्य तिष्ठति । पराण्वन्तर् अपीन्द्रस्य त्रसरेणूदरे यथा
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अहम्भावो ऽभिमन्त्रात्मा मूलम् आद्यम् उदाहृतम्
वासनारससंसिक्ताद् अहम्बीजकणाद् अयम् । ब्रह्माद्रौ व्योमविपिने जायते त्रिजगद्द्रुमः
तारकापुष्पनिकरो विनीलाचलपल्लवः । सरित्सारसिरापूरो वासनासारसत्फलः
अहन्त्वसलिलस्येदं जगत् स्पन्द उदाहृतः । चिच्चमत्करणे स्वादु वासनाविसरद्रसः
तारकाशीकरासारो नभोऽनन्तनिखातवान् । भावाभावमहावर्तो नानागिरितरङ्गकः
त्रिलोकीविलिखल्लेखो विलोलालोकफेनिलः । ब्रह्माण्डबुद्बुदोद्भेदẖ कवाटापीडपीवरः
भूपीठदृढदिण्डीरपिण्डश् चिद्घनमण्डवान् । चित्राजवञ्जवीभावमज्जनोन्मज्जनात्मकः
जरामरणमोहादिवीचीचयचमत्कृतिः । उत्पन्नध्वंसदेहादिबिन्दुवृन्दैकमन्दिरः
अहन्त्वपवनस्पन्दो जगद् इत्य् अवगम्यताम् । अहन्त्वचन्द्रसौगन्ध्यं जगद् इत्य् एव बुध्यताम्
नाहन्त्वजगती भिन्ने पवनस्पन्दवत् सदा । पयो द्रवत्वम् इव च वह्निर् औष्ण्यम् इवापि च
जगद् अस्त्य् अहमर्थे ऽन्तर् अहम् अस्ति जगद्धृदि । अन्योऽन्यभाविनी ह्य् एते आधाराधेयवत् स्थिते
जगद्बीजम् अहन्त्वं यो मार्ष्टि बोधाद् अवेदनात् । अलं चित्रं जलेनेव तेन धौतं जगन्मलम्
अहन्त्वं नाम तत् किञ्चिद् विद्याधर न विद्यते । अकारणम् अवस्तुत्वाच् छशशृङ्गम् इवोदितम्
ब्रह्मण्य् अतितते ऽनन्ते सकलोल्लेखवर्जिते । अहन्त्वं कारणाभावान् न कदाचन सन्मयम्
अवस्तुन्य् ओतुशृङ्गादौ न सम्भवति कारणम् । अतो ऽहन्त्वादि नास्त्य् एव वन्ध्यासुत इव क्वचित्
तदभावाज् जगन् नास्ति चित्त्वं जगदभावतः । शिष्टं निर्वाणम् एवातश् शान्तम् आस्स्व यथासुखम्
अभावाद् उपपत्तिस्थाद् एवं जगदहन्त्वयोः । रूपालोकमनस्काराश् शान्तास् तव भवेतरत्
यन् नास्ति तत् तु नास्त्य् एव शेषं शान्तम् असि ध्रुवम् । सम्प्रबुद्धो ऽसि मा भूयो निर्मूलां भ्रान्तिम् आहर
व्यपगतकलनाकलङ्कशुद्धश् शिवम् असि शान्तम् असीश्वरो ऽसि नित्यम् । खम् इव भवसि सर्वतोपमानं जगद् अपि वा परमाणुरूपम् एव