गृहस्थस् स ददर्शाथ कल्पितं नगरं हरिः । मणिमुक्ताप्रवालादिकृतप्राकारमन्दिरम्
नगरान्तर्गतो ऽपश्यत् ततो जनपदं हरिः । नानाद्रिग्रामगोवाटपत्तनारण्यसंयुतम्
तादृग्रतिश् चेतितवान् स शक्रो भुवणं ततः । साद्रिद्यूर्वीनदीशांशं सक्रियाकालकल्पनम्
तादृग्रतिश् चेतितवान् स शक्रस् त्रिजगत् ततः । सपातालमहीव्योमविष्टपार्कादिपर्वतम्
तत्रातिष्ठत् सुरेशत्वे स भोगभरभूषितः । पुत्रो बभूव तस्याथ कुन्दो नामातिवीर्यवान्
ततो जीवितपर्यन्ते त्यक्त्वा देहम् अनिन्दितः । निर्वाणम् आययौ शक्रो निस्स्नेह इव दीपकः
कुन्दस् त्रैलोक्यराजो ऽभूज् जनयित्वा सुतं शुभम् । कालेन जीवितस्यान्ते प्राप्तवान् परमं पदम्
तत्पुत्रो ऽपि तथैवाथ कृत्वा राज्ये सुतं निजम् । जगाम जीवितस्यान्ते पावनं परमं पदम्
एवं पौत्रसहस्राणि समतीतानि सुन्दर । तत्राद्यापि सुरेशस्य येषां राज्ये स्थितो ऽंशकः
इत्य् अद्य यावद् अमरेश्वरवंश एष सङ्कल्पितो जगति वंशपदं विधत्ते । तस्मिन् क्षते ऽपि गलिते ऽपि हते ऽपि नष्टे क्वाप्य् अम्बरे दिनकरातपपावनाणौ
तस्य शक्रस्य कुलजẖ कश्चिद् आसीत् सुराधिपः । तत्रोत्तमगुणश् श्रीमान् पाश्चात्या यस्य सा तनुः
अथेन्द्रकुलपुत्रस्य तस्य तत्र बभूव ह । प्रतिभाज्ञानसम्प्राप्तिर् बृहस्पतिगिरोदिता
ततो विदितवेद्यो ऽसौ यथाप्राप्तानुवृत्तिमान् । चकार जगतां राज्यम् आज्यपानाम् अधीश्वरः
युयुधे दानवैस् सार्धम् अजयत् सर्वशात्रवान् । शतं चकार यज्ञानाम् अज्ञानोत्तीर्णमानसः
उवास कार्यवशतो बिसवालान्तरे चिरम् । अन्यान्य् अपि च वृत्तान्तशतान्य् अनुबभूव ह
कदाचिद् आसीत् तस्येच्छा प्रबोधबलशालिनः । ब्रह्मतत्त्वम् अवेक्षे ऽहं यथावद् ध्यानवान् इति
सो ऽपश्यत् प्रणिधानेन तत एकान्तसंस्थितः । स बाह्याभ्यन्तराशेषकरणत्यागशान्तधीः
सर्वशक्ति परं ब्रह्म सर्ववस्तुमयं ततम् । सर्वथा सर्वदा सर्वं सर्वैस् सर्वत्र सर्वगम्
सर्वतḫ पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् । सर्वतश् श्रुतिमल् लोके सर्वम् आवृत्य संस्थितम्
सर्वेन्द्रियगुणैर् मुक्तं सर्वेन्द्रियगुणान्वितम् । असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च
बहिर् अन्तश् च भूतानाम् अचरं चरम् एव च । सूक्ष्मत्वात् तद् अविज्ञेयं दूरस्थं चान्तिके च तत्
सर्वत्र चन्द्रार्कमयं सर्वत्रैव धरामयम् । सर्वत्र पर्वतमयं सर्वत्राब्धिमयं तथा
सर्वत्र सारगुरुकं सर्वत्रैव नभोमयम् । सर्वत्र संसृतिमयं सर्वत्रैव जगन्मयम्
सर्वत्रैव च मोक्षात्म सर्वत्रैवाद्यचिन्मयम् । सर्वत्र सर्वार्थमयं सर्वतस् सर्ववर्जितम्
घटे वटे पटे कुड्ये शकटे वानरे नरे । धाम्नि व्योम्नि तराव् अद्राव् अनिले सलिले ऽनले
नानाचारविकाराणि विविधावृत्तिमन्ति च । परमाण्वंशमात्रे ऽपि त्रिजगन्ति ददर्श सः
मरिचस्यान्तरे तैक्ष्ण्यं शून्यत्वम् इव वाङ्ग खे । त्रिजगत् सत्य् असति च विद्यते चिन्मयात्मनि
इत्य् एवं भावयन् मुक्तभावया शुद्धसंविदा । शक्रẖ क्रमेण तेनैव स निर्वाणम् अवाप्तवान्
तस्याभवद् यश् शक्रस्य पुत्रḫ परपुरञ्जयः । सो ऽपि क्रमेण तेनैव तथैव ध्यानवान् अभूत्
ध्यानेन सर्वम् एकत्र पश्यंश् चिरम् उदारधीः । ददर्शेमम् असौ सर्गम् अस्मदीयं महामतिः