कल्पावसानजरढं कालकोकिलरूपया । पातितं शान्तम् आयातं क्वाप्य् अन्तर्धानम् आगतम्
तत्राभूद् अमराधीशश् शक्रस् त्रिभुवनेश्वरः । क्षौद्रकुम्भनिषण्णानां क्षुद्राणाम् इव नायकः
गुरूपदेशस्वाभ्यासात् स क्षीणावरणो ऽभवत् । महात्मा भावितात्मान्तḫ पूर्वापरविदां वरः
नारायणादिषु ततẖ कदाचिद् वीर्यशालिषु । क्वचिद् एव निलीनेषु सत्स्व् एकस् स सुराधिपः
शस्त्रज्वालानलोद्गारैर् अयुध्यत महासुरैः । विजितस् तैर् महावीरैर् अतो व्यद्रवद् आद्रुतम्
दिशो दश स वेगेन दुद्रावाभिद्रुतो ऽरिभिः । न विश्रमास्पदं प्राप परलोक इवाधमः
उद्भ्रान्तवृत्तिष्व् अरिषु मनाक् छिद्रम् अवाप्य सः । प्रशमं कार्यसङ्कल्पं नीत्वा स्वं स्वान्तर् एव हि
कम् अप्य् अर्कांशुकोटिस्थं त्रसरेणुं विवेश सः । संविद्रूपतया पद्मकोशं स मधुपो यथा
स तत्राशु विशश्राम चिराद् आश्वासम् आययौ । अथ विस्मृतसङ्ग्रामो निर्वृतिं समुपागमत्
कल्पितं सद्म तत्राथ स क्षणाद् अनुभूतवान् । तस्मिन् सद्मनि पद्माभे रेमे स्व इव विष्टपे
गृहस्थस् स ददर्शाथ कल्पितं नगरं हरिः । मणिमुक्ताप्रवालादिकृतप्राकारमन्दिरम्
नगरान्तर्गतो ऽपश्यत् ततो जनपदं हरिः । नानाद्रिग्रामगोवाटपत्तनारण्यसंयुतम्
तादृग्रतिश् चेतितवान् स शक्रो भुवणं ततः । साद्रिद्यूर्वीनदीशांशं सक्रियाकालकल्पनम्
तादृग्रतिश् चेतितवान् स शक्रस् त्रिजगत् ततः । सपातालमहीव्योमविष्टपार्कादिपर्वतम्
तत्रातिष्ठत् सुरेशत्वे स भोगभरभूषितः । पुत्रो बभूव तस्याथ कुन्दो नामातिवीर्यवान्
ततो जीवितपर्यन्ते त्यक्त्वा देहम् अनिन्दितः । निर्वाणम् आययौ शक्रो निस्स्नेह इव दीपकः
कुन्दस् त्रैलोक्यराजो ऽभूज् जनयित्वा सुतं शुभम् । कालेन जीवितस्यान्ते प्राप्तवान् परमं पदम्
तत्पुत्रो ऽपि तथैवाथ कृत्वा राज्ये सुतं निजम् । जगाम जीवितस्यान्ते पावनं परमं पदम्
एवं पौत्रसहस्राणि समतीतानि सुन्दर । तत्राद्यापि सुरेशस्य येषां राज्ये स्थितो ऽंशकः
इत्य् अद्य यावद् अमरेश्वरवंश एष सङ्कल्पितो जगति वंशपदं विधत्ते । तस्मिन् क्षते ऽपि गलिते ऽपि हते ऽपि नष्टे क्वाप्य् अम्बरे दिनकरातपपावनाणौ
तस्य शक्रस्य कुलजẖ कश्चिद् आसीत् सुराधिपः । तत्रोत्तमगुणश् श्रीमान् पाश्चात्या यस्य सा तनुः
अथेन्द्रकुलपुत्रस्य तस्य तत्र बभूव ह । प्रतिभाज्ञानसम्प्राप्तिर् बृहस्पतिगिरोदिता
ततो विदितवेद्यो ऽसौ यथाप्राप्तानुवृत्तिमान् । चकार जगतां राज्यम् आज्यपानाम् अधीश्वरः
युयुधे दानवैस् सार्धम् अजयत् सर्वशात्रवान् । शतं चकार यज्ञानाम् अज्ञानोत्तीर्णमानसः
उवास कार्यवशतो बिसवालान्तरे चिरम् । अन्यान्य् अपि च वृत्तान्तशतान्य् अनुबभूव ह
कदाचिद् आसीत् तस्येच्छा प्रबोधबलशालिनः । ब्रह्मतत्त्वम् अवेक्षे ऽहं यथावद् ध्यानवान् इति
सो ऽपश्यत् प्रणिधानेन तत एकान्तसंस्थितः । स बाह्याभ्यन्तराशेषकरणत्यागशान्तधीः
सर्वशक्ति परं ब्रह्म सर्ववस्तुमयं ततम् । सर्वथा सर्वदा सर्वं सर्वैस् सर्वत्र सर्वगम्
सर्वतḫ पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् । सर्वतश् श्रुतिमल् लोके सर्वम् आवृत्य संस्थितम्
सर्वेन्द्रियगुणैर् मुक्तं सर्वेन्द्रियगुणान्वितम् । असक्तं सर्वभृच् चैव निर्गुणं गुणभोक्तृ च