स्पन्दात्मनि विकल्पांशे प्रतिभासत्यरूपिणि । संवित् प्रसरति भ्रान्तौ तैलबिन्दुर् इवाम्भसि
हृल्लेखाजालविसरैस् सर्गावर्तविवर्तनैः । विसरत्स्नेहसम्मिश्रजडानुशयचर्वणैः
अहमित्यादिविद्रूपे विकल्पेनोन्मुखी सती । न पराद् व्यतिरिक्तैषा जलत्वाद् इव तोयता
विदा नित्यस् स्व आत्मैव सर्ग इत्य् अभिधीयते । भूत्वाहम् इति तेनान्यो न सर्गो ऽस्ति न सर्गकः
स्पन्दात्मतायां शान्तायां यथा स्पन्दं जलद्रवः । न वेत्ति जगदाभासं चितḫ प्रसरणं तथा
आवर्तत्वे तरङ्गत्वं न यथा वेत्त्य् अपां द्रवः । तथा चिद् आत्मव्योमत्वे न व्योमत्वादि वेत्ति हि
देशकालादिनिर्माणपूर्वकं वेदनं विदः । सर्गात्मकत्वात् तेनाम्बु द्रवसाम्यं न दूरगम्
मनोऽहम्भावबुद्ध्यादि यत् किञ्चिन् नाम वेदनम् । अविद्यां विद्धि यत्नेन पौरुषेणाशु नश्यति
अर्धं मिथस् सङ्कथया भागश् शास्त्रविचारणैः । आत्मप्रयत्नतश् शिष्टम् अविद्याया निवर्तते
चतुर्भागात्मनि कृते इत्य् अविद्याक्षये क्रमात् । समकालं च यच् छिष्टं तद् अनामार्थसदसत्
अर्धं मिथस्सङ्कथया भागश् शास्त्रविचारणैः । आत्मप्रयत्नतो भागẖ कथं तस्या निवर्तते
समकालं क्रमाच् चेति मुनिनाथ किम् उच्यते । तद् अनामार्थसच् चेति तच् चासच् चेति किं वद
सुजनेन विरक्तेन संसारोत्तरणार्थिना । सह वाध्यात्मविदुषा संसृतिं प्रविचारयेत्
यतẖ कुतश्चिद् अन्विष्य सविरागम् अमत्सरम् । जनं सुजनम् आत्मज्ञं यत्नेनाराधयेद् बुधम्
सम्पन्ने सङ्गमे साधोर् अविद्यार्धं क्षयं गतम् । विद्धि वेद्यविदां श्रेष्ठ ज्येष्ठश्रेष्ठदशोदयात्
अर्धं सज्जनसम्पर्काद् अविद्याया विनश्यति । चतुर्भागस् तु शास्त्रोक्तैश् चतुर्भागस् स्वयत्नतः
एको ऽभिलाष उत्पन्नो भोगेभ्यश् च निवार्यते । तत् क्षयं यात्य् अविद्यायाश् चतुर्थो ऽंशस् स्वयत्नतः
साधुसङ्गमशास्त्रार्थस्वयत्नैẖ क्षीयते मलम् । एकैकेनाथ सर्वैश् च समकालं क्रमाद् अपि
यद् अविद्याक्षयैकात्म नकिञ्चित् किञ्चिद् एव वा । शिष्यते तत् परं प्राहुर् अनामार्थम् असच् च सत्
ब्रह्मेदं घनम् अजराद्य् अनन्तम् एकं सङ्कल्पस्फुरणम् अनाद्य् अनन्तम् एव । बुद्ध्वैवं व्यपगतमानमेयमोहो निर्वाणḫ परिविहरन् विशोकम् आस्स्व
जगत्प्रसरपूरस्य न देश उपयुज्यते । न कालो धारणे स्तम्भ आलोकस्याम्बरे यथा
मनोमनननिर्माणमात्रम् एतज् जगत्त्रयम् । शान्तं तनु लघु स्वच्छं वातान्तस् सौरभाद् अपि
चिच्चमत्कृतिमात्रस्य साधो जगदणोẖ किल । वातान्तस् सौरभं मेरुर् अन्यानुभवयोगतः
यं प्रत्य् उदेति सर्गो ऽयं स एवेह हि चेतति । पदार्थस् सन्निवेशं स्वम् इह स्वप्नं पुमान् इव
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् । यद् वृत्तं देवराजस्य त्रसरेणूदरे पुरा
क्वचित् कदाचित् कस्मिंश्चित् किञ्चित् कल्पद्रुमे ऽभवत् । कस्याञ्चिद् युगशाखायां फलं जगदुडुम्बरम्
ससुरासुरभूतौघमषकाहितघुङ्घुमम् । शैलमांसलपातालद्युभूम्युग्रकवाटकम्
चिच्चमत्कृतिचारूच्चैर् वासनारसपीवरम् । विविधानुभवामोदं चित्तास्वादमनोहरं
बृहद्ब्रह्मतरुप्रौढसत्ताव्रततिकोटिगम् । अहङ्कारमहावृन्तं समालोकसमुज्ज्वलम्
मोक्षद्वारविकासास्यं सरिदब्धिसिरावृतम् । मात्रापञ्चककोशस्थं तरत्तारकशीकरम्