खे खात्मैवास्ति चिद्रूपं तत् स्वकं विद्यते वपुः । भासते यद् इदन्त्वेन नाहम् अस्मि न चानहम्
ततं चिद्रूपम् अस्तीदृग् यत्र स्थूलं खम् अप्य् अलम् । अणाव् इव महामेरुस् तत्संवित्तिर् हि खादिता
घनस् ततो विदाभासẖ खाद् अप्य् अतितराम् अणुः । जानाति यत् स्वभावं तद् एतत् सर्गतया स्थितम्
अहन्ताखादिताद्यात्म विदḫ प्रसरणं जगत् । अम्भोद्रवप्रसरणं यथावर्तादिवेष्टनम्
अवित्प्रसरणं शान्तम् अस्पन्दीव जलद्रवः । निस्स्पन्दपवनाकारम् आकाशहृदयोपमम्
न देशकालादि जगत्प्रसरेषूपयुज्यते । घनाच् छून्यान् निराभासाद् विन्मात्रप्रसराद् ऋते
विन्मात्रे प्रसृते काष्ठे व्योम्नि नावि जले स्थले । निद्रायां जाग्रति स्वप्ने भवेज् जगद् इवोदितम्
प्रसरणाप्रसरणे न च सम्भवतो मिथः । खाद् अप्य् अतितराच्छत्वाद् अक्षोभादेस् सदैव हि
ज्ञश् चेतति न भोगादि न चैवात्मन्य् असाव् अहम् । द्रवत्वम् अम्भसीवान्तर् अद्वितीयḫ परे स्थितः
धीर् ह्रीश् श्रीस् स्त्री स्मृतिẖ कीर्तिẖ कान्तिर् इत्यादिकं गणम् । न पश्यति विसङ्कल्पस् तमसीव पदान्य् अहेः
ब्रह्मेन्दुबिम्बस्फुरितश् चिज्ज्योत्स्नाच्छामृतद्रवः । दिक्कालासम्भवात् सर्गो नेश्वराद् व्यतिरिच्यते
अदिगाद्य् अस्फुरच् चैव परे स्फुरति भासुरम् । जगदाद्यात्मकं चित्त्वं चक्रौघत्वम् इवाम्भसि
मज्जनोन्मज्जनारावैर् विवर्तावर्तवेष्टनैः । अच्छिन्नानुपदं क्षीणा वाति सर्गसरिच् चिरम्
यथावर्तैḫ पयो याति धूमो याति यथा नभः । तथा जडात्मकतया तृतीयस् सर्ग एतयोः
दारुणि क्रकचच्छेदे यथावर्तादिकं तथा । अदिगादौ परे सर्गस् तद् एतद्रूपवान् अयम्
संसारकदलीस्तम्भाद् विना सङ्कल्पपल्लवात् । मृदुनो ऽपि दृषत्क्रूरान् न किञ्चिल् लभ्यते ऽन्तरात्
सहस्रखुरमूर्धाक्षिकरवक्त्रेहितेहितम् । नानाद्रितरुदिग्देशसरित्प्रादेशमात्रकम्
अन्तश्शून्यम् असारात्म बहुरागोपरञ्जितम् । स्फुरद्विरागविहितमार्जनामात्रतर्जनम्
ससुरासुरगन्धर्वविद्याधरमहोरगम् । जडात्मपवनस्पन्दि जडचेतनचेतितम्
पटे चित्रमहाराज्यम् इव भासुरसुन्दरम् । परामर्शासहं चारु विकल्पस्फूर्जितं जगत्
स्पन्दात्मनि विकल्पांशे प्रतिभासत्यरूपिणि । संवित् प्रसरति भ्रान्तौ तैलबिन्दुर् इवाम्भसि
हृल्लेखाजालविसरैस् सर्गावर्तविवर्तनैः । विसरत्स्नेहसम्मिश्रजडानुशयचर्वणैः
अहमित्यादिविद्रूपे विकल्पेनोन्मुखी सती । न पराद् व्यतिरिक्तैषा जलत्वाद् इव तोयता
विदा नित्यस् स्व आत्मैव सर्ग इत्य् अभिधीयते । भूत्वाहम् इति तेनान्यो न सर्गो ऽस्ति न सर्गकः
स्पन्दात्मतायां शान्तायां यथा स्पन्दं जलद्रवः । न वेत्ति जगदाभासं चितḫ प्रसरणं तथा
आवर्तत्वे तरङ्गत्वं न यथा वेत्त्य् अपां द्रवः । तथा चिद् आत्मव्योमत्वे न व्योमत्वादि वेत्ति हि
देशकालादिनिर्माणपूर्वकं वेदनं विदः । सर्गात्मकत्वात् तेनाम्बु द्रवसाम्यं न दूरगम्
मनोऽहम्भावबुद्ध्यादि यत् किञ्चिन् नाम वेदनम् । अविद्यां विद्धि यत्नेन पौरुषेणाशु नश्यति
अर्धं मिथस् सङ्कथया भागश् शास्त्रविचारणैः । आत्मप्रयत्नतश् शिष्टम् अविद्याया निवर्तते
चतुर्भागात्मनि कृते इत्य् अविद्याक्षये क्रमात् । समकालं च यच् छिष्टं तद् अनामार्थसदसत्