ब्रह्मण्य् अनन्यो ऽप्य् अन्याभो घुग्घुन्थकवद् उत्थितः । तत्स्थस् स एवास इवाप्य् अतत्स्थ इव सर्गकः
विषं विषत्वम् अजहद् यथा स्वान्तẖ क्रिमिẖ क्रमात् । न जायते न म्रियते जायते म्रियते ऽपि च
स्वेनैव संविदर्थेन पदार्थानाम् अरूपिणा । तीर्यते गोष्पदम् इव न तु दैवाद् भवार्णवः
सर्वभावान्तरावस्था सर्वभावातिशायिनी । अन्तश्शीतलता यस्मिंस् तस्मिन् किम् अवहेलनम्
जगत्पदार्थसत्तान्तस् सामान्येनाशु भाव्यताम् । मनोऽहङ्कारबुद्ध्यादिẖ कẖ कलङ्को ऽमलात्मनि
यथा घटपटाद्य् अर्थान् पश्यस्य् अर्थं शरीरकम् । तथाहन्त्वमनोबुद्धिवेदनाद्य् अपि पश्य हे
जगत्पदार्थसार्थौघं मनोबुद्ध्यादिसंयुतम् । ज्ञ एवासंविदंस् तिष्ठ परिनिष्ठितनिष्ठया
न केनचित् कस्यचिद् एव कश्चिद् दोषो न चैवेह गुणẖ कदाचित् । सुखेन दुẖखेन भवाभवेन न चास्ति भोक्ता न च कर्तृतेति
ख एव व्योम सम्पन्नम् इति सङ्कल्पनं यथा । भ्रान्तिमात्रम् असद्रूपं तथाहम्भावभावनम्
खं खे जातम् इति भ्रान्तेर् अहं कल्पयिता यथा । तथा निर्व्यपदेश्यात्म सद् अस्त्य् असद् इवाततम्
खे खात्मैवास्ति चिद्रूपं तत् स्वकं विद्यते वपुः । भासते यद् इदन्त्वेन नाहम् अस्मि न चानहम्
ततं चिद्रूपम् अस्तीदृग् यत्र स्थूलं खम् अप्य् अलम् । अणाव् इव महामेरुस् तत्संवित्तिर् हि खादिता
घनस् ततो विदाभासẖ खाद् अप्य् अतितराम् अणुः । जानाति यत् स्वभावं तद् एतत् सर्गतया स्थितम्
अहन्ताखादिताद्यात्म विदḫ प्रसरणं जगत् । अम्भोद्रवप्रसरणं यथावर्तादिवेष्टनम्
अवित्प्रसरणं शान्तम् अस्पन्दीव जलद्रवः । निस्स्पन्दपवनाकारम् आकाशहृदयोपमम्
न देशकालादि जगत्प्रसरेषूपयुज्यते । घनाच् छून्यान् निराभासाद् विन्मात्रप्रसराद् ऋते
विन्मात्रे प्रसृते काष्ठे व्योम्नि नावि जले स्थले । निद्रायां जाग्रति स्वप्ने भवेज् जगद् इवोदितम्
प्रसरणाप्रसरणे न च सम्भवतो मिथः । खाद् अप्य् अतितराच्छत्वाद् अक्षोभादेस् सदैव हि
ज्ञश् चेतति न भोगादि न चैवात्मन्य् असाव् अहम् । द्रवत्वम् अम्भसीवान्तर् अद्वितीयḫ परे स्थितः
धीर् ह्रीश् श्रीस् स्त्री स्मृतिẖ कीर्तिẖ कान्तिर् इत्यादिकं गणम् । न पश्यति विसङ्कल्पस् तमसीव पदान्य् अहेः
ब्रह्मेन्दुबिम्बस्फुरितश् चिज्ज्योत्स्नाच्छामृतद्रवः । दिक्कालासम्भवात् सर्गो नेश्वराद् व्यतिरिच्यते
अदिगाद्य् अस्फुरच् चैव परे स्फुरति भासुरम् । जगदाद्यात्मकं चित्त्वं चक्रौघत्वम् इवाम्भसि
मज्जनोन्मज्जनारावैर् विवर्तावर्तवेष्टनैः । अच्छिन्नानुपदं क्षीणा वाति सर्गसरिच् चिरम्
यथावर्तैḫ पयो याति धूमो याति यथा नभः । तथा जडात्मकतया तृतीयस् सर्ग एतयोः
दारुणि क्रकचच्छेदे यथावर्तादिकं तथा । अदिगादौ परे सर्गस् तद् एतद्रूपवान् अयम्
संसारकदलीस्तम्भाद् विना सङ्कल्पपल्लवात् । मृदुनो ऽपि दृषत्क्रूरान् न किञ्चिल् लभ्यते ऽन्तरात्
सहस्रखुरमूर्धाक्षिकरवक्त्रेहितेहितम् । नानाद्रितरुदिग्देशसरित्प्रादेशमात्रकम्
अन्तश्शून्यम् असारात्म बहुरागोपरञ्जितम् । स्फुरद्विरागविहितमार्जनामात्रतर्जनम्
ससुरासुरगन्धर्वविद्याधरमहोरगम् । जडात्मपवनस्पन्दि जडचेतनचेतितम्
पटे चित्रमहाराज्यम् इव भासुरसुन्दरम् । परामर्शासहं चारु विकल्पस्फूर्जितं जगत्