तेनैव भूयते भूरि यच् चितौ कचितम् स्वतः । अचेतनं चेतनं वा यथेच्छसि तथा कुरु
चिच्चमत्कृतयो व्योम्नि स्फुरन्त्य् एता जगत्तया । अर्कांशुवद् अरोधिन्यस् स्वेच्छाविदितवेदिनाम्
तिमिरावृतदृष्टीनां यथा केशोण्डुकादि खे । स्फुरत्य् एवं जगद्रूपम् अनात्मन्य् एव तिष्ठताम्
एतज् जगत् त्वम् अहम् इत्य् अवबोधरूपम् आभासमात्रम् उदितं च न चोदितं च । अर्कांशुजालरचनानगराभम् अत्र कुड्यादि सत्यम् इदम् अस्ति न खे लतेव
विद्यते चेतनाद् एव चेतने ऽन्तर् अचेतनम् । जले ऽग्निर् इव चिज् जाड्ये नातो भिन्ने मनाग् अपि
तद् वेदनावेदनयोर् अभेदात् स्वस्थम् आसितम् । निर्यन्त्रम् एव चित्रस्थज्ञप्तिवद् व्योममध्यवत्
ब्रह्मण्य् अशेषशक्तित्वाद् अवित्त्वं विद्यते तथा । अक्षुब्धे विमले तोये भावी फेनलवो यथा
न कारणं विनोदेति जलात् फेनलवो यथा । न कारणं विनोदेति सर्गादि ब्रह्मणस् तथा
न च कारणम् अस्त्य् अत्र सर्गोत्पत्ताव् अकारणे । नातस् सञ्जायते किञ्चिज् जगदादि न नश्यति
अत्यन्तं कारणाभावान् न किञ्चिज् जायते जगत् । मराव् अम्ब्व् इव नास्त्य् एव दृष्टम् अप्य् अग्रतो जगत्
ब्रह्मानन्तम् अजं शान्तम् अतो ऽस्तीदं न सर्गधीः । कारणाभावतस् तेन ब्रह्मैवेदम् अखण्डितम्
अतश् शिलोदराभो ऽसि व्योमकोशोपमो ऽसि च । ब्रह्मैकघनरूपत्वाद् अजो ऽनवयवो ऽसि च
ज्ञो ऽसि किञ्चिन् न किञ्चिद् वा निश्शङ्कम् अलम् आस्यताम् । अचेतनचिदाभास शाम्यताम् आत्मनात्मनि
नित्यानन्ततयाजस्य कारणं नास्ति कार्यकृत् । सर्गाद्यसम्भवे तस्माद् यद् अस्ति तद् अजं शिवम्
अजो येषां तु चिद्रूपो नास्ति मौर्ख्यविलासिनाम् । सर्वनाशे समुत्पन्ने किं तेषां प्रविचार्यते
यत्र यत्र परं तत्र तत्र सन्ति जगन्ति हि । जगच्छब्दार्थरूपेण मुक्तान्य् एवंविधानि च
तृणे काष्ठे जले कुड्ये सर्वत्रैव परं स्थितम् । सर्वत्रैव च सर्गौघḫ परिप्रोतस् स्थितो मिथः
ब्रह्मणẖ किंस्वभावो ऽसाव् इति वक्तुं न युज्यते । अनन्ते परमे तत्त्वे स्वत्वास्वत्वात्यसम्भवात्
अभावसव्यपेक्ष्यस्य भावस्यासम्भवाद् अपि । पदं बध्नन्ति नानन्ते स्वभावाद् या दुरुक्तयः
अस्वत्वाभावयोर् नित्ये ऽनन्ते ऽत्यन्तम् असम्भवात् । स्वत्वभावेषु सिद्धेषु स्वभावोक्तिर् न तिष्ठति
नाहन्त्वं लभ्यते साधो बुद्ध्यालं किं निरीक्षितम् । असद् एव कुतो ऽप्य् एतद् बालयक्ष इवोत्थितम्
मुक्तं त्व् अहन्त्वशब्दार्थैर् लभ्यते यच् च तत् परम् । युक्तं त्व् अहन्त्वशब्दार्थैḫ प्रेक्ष्यमाणं विलीयते
भेदो जगद्ब्रह्मदृशोर् अभेदḫ पर्यायशब्दार्थविलासतुल्यः । सङ्कल्पमात्रप्रथितो न सत्यो यथानयोर् वै कटकत्वहेम्नोः
शस्त्राणि दयिताङ्गानि मग्नान्य् अङ्गे निरम्बरे । यो बुध्यमानस् सुसमस् स परस्मिन् पदे स्थितः
तावत् पुरुषयत्नेन धैर्येणाभ्यासम् आहरेत् । यावत् सुषुप्ततोदेति पदार्थोदयनं प्रति
यथाभूतार्थतत्त्वज्ञम् आधयो ऽङ्गगता अपि । न मनाग् अपि लिम्पन्ति पयांसीव सरोरुहम्
शस्त्राङ्गनानभांस्य् अङ्गलग्नान्य् अलम् असंविदन् । अलग्नानीव शान्तात्मा यḫ पश्यति स पश्यति
विषं यथा स्वान्तर् एव घुग्घुन्थीभवति स्वयम् । न च घुग्घुन्थता नाम विषाद् अन्यास्ति काचन
स्वरूपम् अजहन्न् एव जीवताम् अधितिष्ठति । तथात्मा तत्परिज्ञानमात्रैकप्रविलायिनीम्
जीवीभवति घुग्घुन्थो मृत्यात्मैव यथा तथा । अत्यजन्ती निजं रूपं चिज् जडं रूपम् ऋच्छति