ईदृशो यो जगद्वृक्षो जायते ऽहन्त्वबीजतः । बीजे ज्ञानाग्निना दग्धे नैव किञ्चन जायते
प्रेक्ष्यमाणं च तन् नास्ति किलाहन्त्वं कदाचन । एतावद् एव तज्ज्ञानम् अनेनैव प्रदह्यते
अहन्त्वभावाच् चाहन्त्वम् अस्ति संसारबीजकम् । नाहन्त्वभावान् नाहन्त्वम् अस्तीति ज्ञानम् उत्तमम्
सर्गादाव् एव सर्गस्य किलास्याभावयोगतः । कुतो ऽहन्त्वं कुतस् त्वन्त्वं कुतो द्वैतैक्यविभ्रमः
समाकर्ण्य गुरोर् वाक्यं यतन्ते ये प्रयत्नतः । सङ्कल्पत्यागम् आमूलं पदप्राप्तौ जयन्ति ते
रन्धनाज् जयम् आप्नोति स्वशास्त्रे सूपकृच् छ्रुते । विवेकी स्वविवेके च यतनाद् एव नान्यथा
चिच्चमत्कारमात्रात्म जगद् विद्धीह नेतरत् । नाशासु न बहिर् नान्तर् एतत् क्वचन विद्यते
सङ्कल्पोन्मेषमात्रेण जगच्चित्रं विलोक्यते । तदनुन्मेषविलयि चित्रकृच्चित्तचित्रवत्
मण्डपो ऽस्ति महास्तम्भो मुक्तामणिविनिर्मितः । बहुयोजनलक्षाणि कान्तकाञ्चनचित्रितः
मणिस्तम्भसहस्रेण वृतो ऽङ्ग प्रोतमेरुणा । इन्द्रायुधसहस्राढ्यकल्पसन्ध्याभ्रसुन्दरः
स्त्रीबालपुरुषादीनां वास्तव्यानाम् इतस् ततः । क्रीडार्थं स्थापिता यत्र नानारचनयान्तरे
भूतबीजपरापूर्णतमोऽरिषु सघुङ्घुमाः । तमḫप्रकाशचित्राढ्या लोकान्तरसमुद्गकाः
आमोदसुभगा लोलजलदावलिपल्लवाः । लीलापद्माẖ करे स्त्रीणां विलोलाẖ कल्पपादपाः
बालनिश्श्वासचलिताẖ कन्दुकानि कुलाचलाः । सन्ध्याम्बुदाẖ कर्णपूराश् चामराश् शरदम्बुदाः
कल्पान्तकालजलदास् तालवृन्तपदं गताः । भूतलं द्यूतफलकं वितानं तारकाम्बरम्
भूतसारपरावर्ते द्यूते ऽक्षाश् शशिभानवः । व्योमाजिरे जगद्ग्रामपणे गृहनिवासिनाम्
तथैवायं जगद्रूपस् सङ्कल्पस् सन् समुत्थितः । चिच्चमत्कारमात्रात्मा चित्रकृच्चित्तचित्रवत्
असत्यम् एव स्फुरति तथा सत्यं विलीयते । विलीयते न स्फुरति सर्वम् अस्ति न चास्ति च
असमुत्थित एवायं कुतो ऽपीव समुत्थितः । हेम्नीव कटकादित्वं संसारोदारकोटरः
चिच्चमत्कार एवायम् अचित्कचनसङ्क्षयः । अत्यन्तम् एव स्वायत्तो यथेच्छसि तथा कुरु
यदान्नपानदानादाव् अनादरम् उपेयिवान् । तस्येदं पश्चिमं जन्म न स कर्मसु मज्जति
प्राप्तो विवेकपदवीम् असि पावनात्मन् पुण्यां पवित्रितजगत्त्रितयां द्वितीयाम् । नाधḫ पतिष्यसि पुनर् मनसामुनेति जानामि मैतद् अमलं पदम् उत्सृज त्वम्
अबुध्यमानश् चेत्यादि चिद्रूपम् अपि चानघ । शान्तचिद्घन एवास्स्व निर्मलाम्ब्वन्तर् अंशुवत्
अचेतनं चेतनान्तश् चेतनाद् एव विद्यते । वैसादृश्ये ऽपि सदृशं पयोराशाव् इवानलः
सा चेतनाचेतनयोर् हेतुश् चित्त्वात्मनैव चित् । विनाशोत्पादयोर् वह्निज्वालयोḫ पवनो यथा
नाहम् अस्तीति चिद्रूपम् इति विश्रान्तिर् अस्तु ते । ततो यथा यादृशेन भूयते तादृशो भव
चिद्रूपस् सर्वभावानाम् अन्तर् बहिर् असि स्थितः । प्रसन्नाम्बुभरस्यान्तर् बहिश् चैव यथातपः
नायम् अस्मीति चिद्रूपं चितौ चेल् लग्नम् अङ्ग ते । न चान्यश् चेति तद् ब्रह्मरूपः केनासि मीयसे
ससुरासुरपातालभूविष्टपम् इवोत्थितम् । नानाजवञ्जवीभावक्रियाकालम् इवाकुलम्
यथा रङ्गमयं कुड्ये जगन् मौनम् इव स्थितम् । तथा चिच्चित्रकचितं खकुड्ये चात्मसंस्थितम्