यद् इदं वच्मि तत् सर्वम् ॐ इत्य् आदातुम् अर्हसि । अस्माभिश् चिरम् अन्विष्टं नात्र कार्या विचारणा
यत् किञ्चित् स्वदते ऽन्तस् ते वस्तु वस्तुतयाश्रितम् । तद् अस्वाद्व् इति निर्विघ्नं त्यजंस् तिष्ठ यथासुखम्
निरहङ्कारितां सत्यां बुध्यस्वाबोधम् उत्सृजन् । नासि त्वं चिरम् अप्य् अन्तḫ प्रेक्षितो ऽसि न लक्ष्यसे
नाहन्त्वम् अस्ति न जगद् इति निश्चयिनस् तव । सर्वम् अस्ति शिवं तच् च न दुẖखाय सुखाय नो
किम् अज्ञत्वाज् जगज् जातं जगतो ऽथ किम् अज्ञता । विचार्यापीति नो विद्म एकत्वाद् अलम् एतयोः
मृगतृष्णाम्बुवद् विश्वं अवस्तुत्वात् सद् अप्य् असत् । यच् चेदं भाति तत्रैव किञ्चिद् इत्य् एव निश्चयः
मृगतृष्णाम्बुवद् विश्वं अवस्तुत्वात् सद् अप्य् असत् । यच् चेदं भाति तद् ब्रह्म नकिञ्चित् किञ्चिद् एव वा
मृगतृष्णाम्बुवद् विश्वं न सन् नासन् न किञ्चन । प्रतिभासवशात् सत्यम् अवस्तुत्वाद् असत् सदा
मृगतृष्णाम्बुवद् विश्वं नास्ति सत्यम् अथास्ति च । प्रतिभातापि नास्त्य् अत्र तदभावाद् अतश् शिवम्
विश्वबीजम् अहन्त्वं त्वं विद्धि तस्माद् धि जायते । साद्रिद्यूर्वीनदीशादिजगज्जरढपादपः
अहन्त्वबीजाद् अणुतो जायते ऽसौ जगद्द्रुमः । तस्येन्द्रियरसाढ्यानि मूलानि भुवनानि च
तारका बालकलिका ऋक्षौघẖ कोरकोत्करः । वासरा गुच्छविसराḫ पूर्णचन्द्राḫ फलालयः
स्वर्गादयो बृहद्वर्गा महाविटपकोटराः । मेरुमन्दरसह्याद्या गिरयḫ पत्त्रराजयः
सप्ताब्धयो ऽङ्ग स्रुतयḫ पातालं मूलकोटरम् । अगानि घुणवृन्दानि पर्वाणि पुरपङ्क्तयः
अज्ञानम् उत्पत्तिमही विहगा भूतकोटयः । उपलम्भो बृहत्स्तम्भो दावो निर्वाणनिर्वृतिः
रूपालोकमनस्कारा विविधामोदवृत्तयः । वनं विपुलम् आकाशं शुक्ला जलमुचस् त्वचः
विचित्रशाखा ऋतव उपशाखा दिशो दश । संविद् रसमहापूरो वातस्पन्दो विवर्तनः
चन्द्रार्करुचयो लोला मज्जनोन्मज्जनोन्मुखाः । रम्याẖ कुसुममञ्जर्यस् तिमिरभ्रमरभ्रमाः
पातालम् आशागणम् अन्तरिक्षम् आपूर्य तिष्ठत्य् असद् एव सद्वत् । तस्यानहन्ताग्निहते ऽहमर्थबीजे पुनर् नास्ति सतो ऽपि रोहः
विद्याधर धराधार गिरिकन्दरमन्दिर । दिगन्तराम्बराचार चारसञ्चारचञ्चुर
ईदृशो यो जगद्वृक्षो जायते ऽहन्त्वबीजतः । बीजे ज्ञानाग्निना दग्धे नैव किञ्चन जायते
प्रेक्ष्यमाणं च तन् नास्ति किलाहन्त्वं कदाचन । एतावद् एव तज्ज्ञानम् अनेनैव प्रदह्यते
अहन्त्वभावाच् चाहन्त्वम् अस्ति संसारबीजकम् । नाहन्त्वभावान् नाहन्त्वम् अस्तीति ज्ञानम् उत्तमम्
सर्गादाव् एव सर्गस्य किलास्याभावयोगतः । कुतो ऽहन्त्वं कुतस् त्वन्त्वं कुतो द्वैतैक्यविभ्रमः
समाकर्ण्य गुरोर् वाक्यं यतन्ते ये प्रयत्नतः । सङ्कल्पत्यागम् आमूलं पदप्राप्तौ जयन्ति ते
रन्धनाज् जयम् आप्नोति स्वशास्त्रे सूपकृच् छ्रुते । विवेकी स्वविवेके च यतनाद् एव नान्यथा
चिच्चमत्कारमात्रात्म जगद् विद्धीह नेतरत् । नाशासु न बहिर् नान्तर् एतत् क्वचन विद्यते
सङ्कल्पोन्मेषमात्रेण जगच्चित्रं विलोक्यते । तदनुन्मेषविलयि चित्रकृच्चित्तचित्रवत्
मण्डपो ऽस्ति महास्तम्भो मुक्तामणिविनिर्मितः । बहुयोजनलक्षाणि कान्तकाञ्चनचित्रितः
मणिस्तम्भसहस्रेण वृतो ऽङ्ग प्रोतमेरुणा । इन्द्रायुधसहस्राढ्यकल्पसन्ध्याभ्रसुन्दरः