विषमाशाविषैर् एभिर् विषयेन्द्रियपन्नगैः । ये न दष्टा न दृष्टास् ते द्वित्रा एव जगत्य् अपि
भोगभीमेभवलितां तृष्णातरलवागुराम् । लोभोग्रकरवालाढ्यां कोपकुन्तकुलाङ्किताम्
द्वन्द्वजालरथव्याप्ताम् अहङ्कारानुपालिताम् । चेष्टातुरङ्गमाकीर्णां कामकोलाहलाकुलाम्
शरीरसीमान्तगतां दुरिन्द्रियपताकिनीम् । ये जेतुम् उद्यतास् तात त एवेह हि सद्भटाः
सुसाध्यẖ करटोद्भेदो मत्तैरावणदन्तिनः । नोत्पथप्रतिपन्नानां स्वेन्द्रियाणां विनिग्रहः
पौरुषस्य महत्त्वस्य सत्त्वस्य महतश् श्रियः । इन्द्रियाक्रमणं साधो सीमान्तो महताम् इह
तावद् उत्तमताम् एति पुमान् अपि दिवौकसाम् । कृपणैर् इन्द्रियैर् यावन् न स्वैर् एव निपीड्यते
यावज् जितेन्द्रियो जन्तुस् तावन् मेरुर् इवोन्नतः । जितश् चेद् इन्द्रियैर् याति तृणाद् अप्य् अपकृष्टताम्
जितेन्द्रिया महासत्त्वा ये त एव नरा भुवि । शेषान् अहम् इमान् मन्ये मांसयन्त्रगणांश् चलान्
मनस्सेनापतेस् सेनाम् इमम् इन्द्रियपञ्चकम् । जेतुं चेद् अस्ति मे यत्नो जयामि तद् अलं मुने
इन्द्रियोत्तमरोगाणां भोगाशावर्जनाद् ऋते । नौषधानि न तीर्थानि न च मन्त्राḫ प्रशान्तये
नीतो ऽस्मि परमं खेदम् अभिधावद्भिर् इन्द्रियैः । एक एव महारण्ये तस्करैḫ पथिको यथा
पङ्कवन्त्य् अप्रसन्नानि मद्गुदौर्भाग्यवन्ति च । गन्धिशेवालतुच्छानि पल्वलानीन्द्रियाणि च
दुरतिक्रमणीयानि नीहारगहनानि च । जीवितानन्तजालानि जङ्गलानीन्द्रियाणि च
पङ्कजानि सरन्ध्राणि सुदुर्लक्ष्यगुणानि च । ग्रन्थिमन्ति जडाङ्गानि मृणालानीन्द्रियाणि च
रूक्षाणि रत्नलुब्धानि कल्लोलवलितानि च । दुर्ग्रहग्राहघोराणि क्षाराम्बूनीन्द्रियाणि च
बान्धवोद्वेगदायीनि देहान्तरपराणि च । करुणाक्रन्दकारीणि मरणानीन्द्रियाणि च
अविवेकिष्व् अमित्राणि मित्राणि च विवेकिषु । गहनाततशून्यानि काननानीन्द्रियाणि च
घनास्फोटान्य् असाराणि मलिनानि जडानि च । विद्युत्प्रकाशान्य् एतानि महाभ्राणीन्द्रियाणि च
क्षुद्रप्राणिगृहीतानि वर्जितानि कृतात्मभिः । रजस्तमोऽभिभूतानि स्वेन्द्रियाण्य् अवटानि च
पातनैकान्तदक्षाणि दोषाशीविषवन्ति च । रूक्षकण्टकलग्नानि श्वभ्राग्राणीन्द्रियाणि च
आत्मम्भरीण्य् अनार्याणि साहसैकरतानि च । अन्धकारविकारीणि रक्षांसि स्वेन्द्रियाणि च
अन्तश्शून्यान्य् असाराणि वक्राणि ग्रन्थिमन्ति च । दहनैकान्तयोग्यानि दुर्दारूणीन्द्रियाणि च
घनमोहप्रतर्दानि दुष्कूपगहनानि च । महावकरतुच्छानि कुपुराणीन्द्रियाणि च
अनन्तेषु पदार्थेषु करणानि घटादिषु । सभ्रमाणि सपङ्कानि चक्राङ्गानीन्द्रियाणि च
आपन्निमग्नम् इमम् एवम् अकिञ्चनं त्वं माम् उद्धरोद्धरणशील दयोदयेन । ये नाम केचन जगत्सु जयन्ति सन्तस् तत्सङ्गमं परमशोकहरं वदन्ति
ततस् तस्य मया ब्रह्मंस् तच् छ्रुत्वा पावनं वचः । इदम् उक्तं यथापृष्टं सुस्पष्टपदया गिरा
साधु विद्याधराधीश दिष्ट्या बुद्धो ऽसि भूतये । भवान्धकूपकुहराच् चिरेणोत्थातुम् इच्छसि
पावनीयं तव मती राजते शुद्धरूपिणी । विवेकेनानलेनेव कनकद्रवसन्ततिः
उपदेशगिराम् अर्थम् आदत्ते हारिहेलया । मकुरे निर्मले द्रव्यम् अयत्नेनैव बिम्बते