श्रुतं दृष्टं तथा स्पृष्टं भुक्तं घ्रातं पुनḫ पुनः । तत्रापि हि न तृप्तास् स्मो धिग् अज्ञानविजृम्भितं
एतावन्मात्रसारे ऽस्मिन् संसारे व्यस्तविग्रहे । संशुष्कविरसे भूयẖ किं भजामि वदाशु मे
भुक्त्वा वर्षसहस्राणि दुर्भोगपटलीम् इमाम् । आब्रह्मस्तम्बपर्यन्तं न तृप्तिर् उपजायते
साम्राज्यं सुचिरं कृत्वा तथा भुक्त्वा वधूगणम् । भङ्क्त्वाप्य् अरिगणान् उच्चैẖ किम् अपूर्वम् अवाप्यते
येषां दिनाशनं नासीद् यैर् भुक्तं भुवनत्रयम् । ते ऽपि ते ऽप्य् अचिरेणैव समं भस्मत्वम् आगताः
प्राप्तेन येन नो भूयḫ प्राप्तव्यम् अवशिष्यते । तत्प्राप्तौ यत्नम् आतिष्ठेत् कष्टयापि हि चेष्टया
येन कान्ताश् चिरं भुक्ता भोगास् तस्येह जन्तुभिः । दृष्टो न कस्यचिन् मूर्ध्नि तरुर् व्योमप्लवश् च वा
चिरम् एतासु दूरासु विषयारण्यराजिषु । इन्द्रियैर् विप्रलब्धो ऽस्मि धूर्तबालैर् इवार्भकः
अद्य त्व् एते परिज्ञाता मया स्वविषयारयः । कष्टा इन्द्रियनामानो वञ्चयन्ति न मां पुनः
संसारे जङ्गले शून्ये मुग्धं नरमृगं शठाः । आश्वास्याश्वास्य निघ्नन्ति विषयेन्द्रियलुब्धकाः
विषमाशाविषैर् एभिर् विषयेन्द्रियपन्नगैः । ये न दष्टा न दृष्टास् ते द्वित्रा एव जगत्य् अपि
भोगभीमेभवलितां तृष्णातरलवागुराम् । लोभोग्रकरवालाढ्यां कोपकुन्तकुलाङ्किताम्
द्वन्द्वजालरथव्याप्ताम् अहङ्कारानुपालिताम् । चेष्टातुरङ्गमाकीर्णां कामकोलाहलाकुलाम्
शरीरसीमान्तगतां दुरिन्द्रियपताकिनीम् । ये जेतुम् उद्यतास् तात त एवेह हि सद्भटाः
सुसाध्यẖ करटोद्भेदो मत्तैरावणदन्तिनः । नोत्पथप्रतिपन्नानां स्वेन्द्रियाणां विनिग्रहः
पौरुषस्य महत्त्वस्य सत्त्वस्य महतश् श्रियः । इन्द्रियाक्रमणं साधो सीमान्तो महताम् इह
तावद् उत्तमताम् एति पुमान् अपि दिवौकसाम् । कृपणैर् इन्द्रियैर् यावन् न स्वैर् एव निपीड्यते
यावज् जितेन्द्रियो जन्तुस् तावन् मेरुर् इवोन्नतः । जितश् चेद् इन्द्रियैर् याति तृणाद् अप्य् अपकृष्टताम्
जितेन्द्रिया महासत्त्वा ये त एव नरा भुवि । शेषान् अहम् इमान् मन्ये मांसयन्त्रगणांश् चलान्
मनस्सेनापतेस् सेनाम् इमम् इन्द्रियपञ्चकम् । जेतुं चेद् अस्ति मे यत्नो जयामि तद् अलं मुने
इन्द्रियोत्तमरोगाणां भोगाशावर्जनाद् ऋते । नौषधानि न तीर्थानि न च मन्त्राḫ प्रशान्तये
नीतो ऽस्मि परमं खेदम् अभिधावद्भिर् इन्द्रियैः । एक एव महारण्ये तस्करैḫ पथिको यथा
पङ्कवन्त्य् अप्रसन्नानि मद्गुदौर्भाग्यवन्ति च । गन्धिशेवालतुच्छानि पल्वलानीन्द्रियाणि च
दुरतिक्रमणीयानि नीहारगहनानि च । जीवितानन्तजालानि जङ्गलानीन्द्रियाणि च
पङ्कजानि सरन्ध्राणि सुदुर्लक्ष्यगुणानि च । ग्रन्थिमन्ति जडाङ्गानि मृणालानीन्द्रियाणि च
रूक्षाणि रत्नलुब्धानि कल्लोलवलितानि च । दुर्ग्रहग्राहघोराणि क्षाराम्बूनीन्द्रियाणि च
बान्धवोद्वेगदायीनि देहान्तरपराणि च । करुणाक्रन्दकारीणि मरणानीन्द्रियाणि च
अविवेकिष्व् अमित्राणि मित्राणि च विवेकिषु । गहनाततशून्यानि काननानीन्द्रियाणि च
घनास्फोटान्य् असाराणि मलिनानि जडानि च । विद्युत्प्रकाशान्य् एतानि महाभ्राणीन्द्रियाणि च
क्षुद्रप्राणिगृहीतानि वर्जितानि कृतात्मभिः । रजस्तमोऽभिभूतानि स्वेन्द्रियाण्य् अवटानि च