समाजगाम सम्प्रष्टुम् अष्टापदमयीं पुरीम् । स्वाम् उपोज्झ्य विरक्तात्मा संसारारसतां गतः
स मत्समीपम् आगत्य कृतोदारनमस्कृतिः । मत्पूजितो ऽवसरत उवाचेदम् अनिन्दितम्
मृदूनि परितापेन दृषद्दृढमलानि च । छेदे भेदे च दक्षाणि शस्त्राङ्गानीन्द्रियाणि च
पर्याकुलानि मलिनानि विपत्प्रदानि दुẖखोर्मिमन्ति गुणकाननपावकत्वात् । हार्दान्धकारगहनानि तमोमयानि जित्वेन्द्रियाणि सुखम् एमि हि किं ममार्थैः
यद् उदारम् अनायासं क्षयातिशयवर्जितम् । पदं पावनम् आद्यन्तरहितं तद् वदाशु मे
एतावन्तम् अहं कालं सुप्त आसं जडात्मकः । इदानीं सम्प्रबुद्धो ऽस्मि प्रसादाद् आत्मनो मुने
मनोमहामयोत्तब्धं लुब्धम् अज्ञानवृत्तिषु । माम् उद्धर दुरन्तेहं मोहाद् अहम् इति स्थितात्
श्रीमत्य् अपि पतन्त्य् आशु शातनोत्का दुराधयः । गुणवत्य् अग्रपत्त्रे हि तुहिनानीव पङ्कजे
जायन्ते च म्रियन्ते च केवलं जीर्णजन्तवः । न धर्माय न मोक्षाय मषका इव पङ्कजे
भावैस् तैर् एव तैर् एव तुच्छलाभविडम्बनैः । चिरेण परिखिन्नास् स्मो विप्रलब्धाḫ पुनḫ पुनः
नाणुम् अप्य् अवगच्छामि विश्रान्तिं श्रान्तमानसः । प्रभ्रमन् भोगभङ्गेषु मरुभूमिष्व् इवाध्वगः
आपातमधुरारम्भा भङ्गुरा भवहेतवः । अचिरेण विकारिण्यो भीषणा भोगभूमयः
मानावमानपरया दुरहङ्कारकान्तया । न रमे वामया तात हतविद्याधरश्रिया
दृष्टाश् चैत्ररथोद्यानभुवẖ कुसुमकोमलाः । कल्पवृक्षलतादत्तसमस्तविभवश्रियः
विहृतं मेरुकुञ्जेषु विद्याधरपुरेषु च । विमानवरमालासु वातस्कन्धस्थलीषु च
विश्रान्तं सुरसेनासु कान्ताभुजलतासु च । हारिहारविलासासु लोकपालपुरीषु च
न किञ्चिद् उचितं साधु सर्वम् आधिविषोष्मणा । दग्धं भस्मायते तात विज्ञातम् अधुना मया
रूपालोकनलोलेन वनिताननगृध्नुना । सावभासेन दोषाय दुẖखं नीतो ऽस्मि चक्षुषा
इदं गुणावहं नेदम् इति मुक्त्वा विकल्पनम् । रूपमात्रानुसारित्वाद् अवस्तुन्य् अपि धावति
तावद् आयाति विरतिं न शठं यावद् आपदम् । नानीतवत् परां चेतḫ परानर्थेहितोन्मुखम्
घ्राणम् एतद् अनर्थाय धावच् चैवाभितस् स्फुटम् । न निवारयितुं तात शक्नोमीह हयं यथा
गन्धोदकप्रणालेन सुखदुẖखानुपातिना । वैरिणेवातिदोषेषु घ्राणेनास्मि नियोजितः
चिरं रसनया चाहम् अनया नयहीनया । गर्धगोमायुगुप्तेषु दुẖखाद्रिष्व् अलम् आहतः
निषेद्धुं न च शक्नोमि स्पर्शलम्पटतां त्वचः । ग्रीष्मकालसमिद्धस्य तापम् अंशुमतो यथा
शुभशब्दरसार्थिन्यो मुने श्रवणशक्तयः । मां योजयन्ति विषमे तृणेच्छा हरिणं यथा
प्रणताḫ प्रियकारिण्यḫ प्रह्वभृत्यसमीरिताः । वाद्यगेयरवोन्मिश्राश् शुभशब्दश्रियश् श्रुताः
श्रियस् स्त्रियो दिशश् चैव तट्यश् चाम्भोधिभूभृताम् । दृष्टा विभ्रमहारिण्यḫ प्रक्वणन्मणिभूषणाः
चिरम् आस्वादितास् स्वादु चमत्कारमनोरमाः । प्रह्वकान्ताजनानीताष् षड्रसा गुणशालिनः
कौशेयकामिनीहारकुसुमास्तरणानिलाः । निर्विघ्नम् अभितस् स्पृष्टा भृशम् आभोगभूमिषु
वधूमुखौषधीपुष्पसमालम्भनभूमयः । अनुभूता मुने गन्धा मन्दानिलसमीरिताः