स्वभावम् अवजित्यादाव् इन्द्रियाणां सचेतसाम् । प्रवर्तते विवेके यस् सर्वं तस्याशु सिध्यति
स्वभावमात्रं येनान्तर् न जितं दग्धबुद्धिना । तस्योत्तमपदप्राप्तिस् सिकतातैलदुर्लभा
शुद्धे ऽल्पो ऽप्य् उपदेशो हि निर्मलादर्शतैलवत् । लगत्य् उत्तानचित्ते तु नादर्श इव मौक्तिकम्
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् । मम पूर्वं भुसुण्डेन कथितं मेरुमूर्धनि
पुरा भुसुण्डẖ कस्मिंश्चित् पृष्ट आसीत् कथान्तरे । मया कदाचिद् एकान्ते मेरोश् शिखरकोटरे
मुग्धबुद्धिम् अनात्मज्ञं कञ्चित् त्वं चिरजीवितम् । स्मरसीति मया पृष्टेनोक्तं तेनेदम् अङ्ग मे
आसीद् विद्याधरḫ पूर्वम् अनात्मज्ञस् सुखोचितः । लोकालोकोत्तरे शृङ्गे शुष्क आर्यो ऽविचारवान्
तपसा बहुरूपेण यमेन नियमेन च । अक्षीणायुर् व्यतिष्ठत् स पुरा कल्पचतुष्टयम्
ततश् चतुर्थे कल्पान्ते विवेकस् तस्य तूदभूत् । विडूरस्येव वैडूर्यम् औचित्याज् जलदोदयात्
पुनर्मृतिḫ पुनर्जन्म जरा चेति विचारयन् । लज्जे ऽहं तत् किम् एकं स्यात् स्थिरम् इत्य् अवमृश्य सः
समाजगाम सम्प्रष्टुम् अष्टापदमयीं पुरीम् । स्वाम् उपोज्झ्य विरक्तात्मा संसारारसतां गतः
स मत्समीपम् आगत्य कृतोदारनमस्कृतिः । मत्पूजितो ऽवसरत उवाचेदम् अनिन्दितम्
मृदूनि परितापेन दृषद्दृढमलानि च । छेदे भेदे च दक्षाणि शस्त्राङ्गानीन्द्रियाणि च
पर्याकुलानि मलिनानि विपत्प्रदानि दुẖखोर्मिमन्ति गुणकाननपावकत्वात् । हार्दान्धकारगहनानि तमोमयानि जित्वेन्द्रियाणि सुखम् एमि हि किं ममार्थैः
यद् उदारम् अनायासं क्षयातिशयवर्जितम् । पदं पावनम् आद्यन्तरहितं तद् वदाशु मे
एतावन्तम् अहं कालं सुप्त आसं जडात्मकः । इदानीं सम्प्रबुद्धो ऽस्मि प्रसादाद् आत्मनो मुने
मनोमहामयोत्तब्धं लुब्धम् अज्ञानवृत्तिषु । माम् उद्धर दुरन्तेहं मोहाद् अहम् इति स्थितात्
श्रीमत्य् अपि पतन्त्य् आशु शातनोत्का दुराधयः । गुणवत्य् अग्रपत्त्रे हि तुहिनानीव पङ्कजे
जायन्ते च म्रियन्ते च केवलं जीर्णजन्तवः । न धर्माय न मोक्षाय मषका इव पङ्कजे
भावैस् तैर् एव तैर् एव तुच्छलाभविडम्बनैः । चिरेण परिखिन्नास् स्मो विप्रलब्धाḫ पुनḫ पुनः
नाणुम् अप्य् अवगच्छामि विश्रान्तिं श्रान्तमानसः । प्रभ्रमन् भोगभङ्गेषु मरुभूमिष्व् इवाध्वगः
आपातमधुरारम्भा भङ्गुरा भवहेतवः । अचिरेण विकारिण्यो भीषणा भोगभूमयः
मानावमानपरया दुरहङ्कारकान्तया । न रमे वामया तात हतविद्याधरश्रिया
दृष्टाश् चैत्ररथोद्यानभुवẖ कुसुमकोमलाः । कल्पवृक्षलतादत्तसमस्तविभवश्रियः
विहृतं मेरुकुञ्जेषु विद्याधरपुरेषु च । विमानवरमालासु वातस्कन्धस्थलीषु च
विश्रान्तं सुरसेनासु कान्ताभुजलतासु च । हारिहारविलासासु लोकपालपुरीषु च
न किञ्चिद् उचितं साधु सर्वम् आधिविषोष्मणा । दग्धं भस्मायते तात विज्ञातम् अधुना मया
रूपालोकनलोलेन वनिताननगृध्नुना । सावभासेन दोषाय दुẖखं नीतो ऽस्मि चक्षुषा
इदं गुणावहं नेदम् इति मुक्त्वा विकल्पनम् । रूपमात्रानुसारित्वाद् अवस्तुन्य् अपि धावति
तावद् आयाति विरतिं न शठं यावद् आपदम् । नानीतवत् परां चेतḫ परानर्थेहितोन्मुखम्