लोभो लज्जा मदो मोहो येनादाव् इति नो जिताः । निरर्थकम् अनर्थे ऽस्मिन् स किमर्थं प्रवर्तते
अहन्त्वं पवने स्पन्द इव यत् त्वयि संस्थितम् । परमात्मनि तन् नान्यद् एतत् स्पन्द इवानिले
असर्गसंविदा सर्गḫ परे ऽस्तीति विराजते । सन्निवेशविशेषेण दुरर्थो ऽपि हि शोभते
परमात्मा तु नोदेति नास्तं याति कदाचन । न चास्माद् अन्यद् अस्तीति को भावो ऽभाव एव वा
परं परे परापूर्णं शान्ते शान्तं शिवश् शिवे । इत्येवमात्रं विततं नाहं न च जगन् न धीः
अनिर्वाणं विनिर्वाणे शान्ते शान्तं शिवे शिवम् । निर्वाणम् अपि निर्वाणे सनञर्थं न वापि तत्
शस्त्राघाताḫ प्रसह्यन्ते सह्यन्ते व्याधिवेदनाः । नाहम् इत्येवमात्रस्य सहने का कदर्थना
जगत्पदार्थसार्थानाम् अहम् इत्य् अङ्कुरो ऽक्षयः । तस्मिन् निर्मूलतां नीते जगन् निर्मूलतां गतम्
बाष्पेणेवाहमर्थेन निस्सारेणापि सारवान् । श्यामलḫ परमादर्शस् तच्छान्तौ सम्प्रसीदति
अहमर्थḫ परे वायौ स्पन्दस् तत्प्रशमे तु तत् । अनिर्देश्यम् अनाभासम् अनन्तम् अजम् अव्ययम्
अहमर्थḫ पुरो द्रव्यप्रतिबिम्बकरḫ परे । रत्ने तद्विलयाद् आस्ते तदरागम् अबिम्बनम्
अहमर्थḫ पुरो द्रव्यप्रतिबिम्बप्रदश् चिति । तच्छान्तौ सा निराभासा परमा केवलायते
अहमर्थाम्बुदे क्षीणे परमार्थशरन्नभः । परयानन्तया लक्ष्म्या स्वच्छयाच्छं विराजते
अहमर्थमलोन्मुक्तम् अहन्ताताम्रम् अङ्ग चेत् । तद् परं परमाभासं सम्पन्नं हेमकान्तिमत्
यथा निरभिधार्थश्रीर् भजत्य् अव्यपदेश्यताम् । तथानहन्ताहन्तेयं ब्रह्मत्वम् अधिगच्छति
सत्य् अहन्त्वे स्थितं ब्रह्म सनामेव पदार्थवत् । शान्तवत् सद् इवासद्वत् तद्वत् सव्यपदेशवत्
अहमर्थो जगद्बीजं यदि दग्धम् अभावनात् । तद् अहं त्वं जगद् बन्ध इत्यादेẖ कलनैव का
सद् ब्रह्म शिवम् आत्मेति परे नामकलङ्किता । उदेत्य् अहन्ता कुम्भत्वाद् इव मृद्धातुविस्मृतिः
अहमर्थाद् इयं बीजात् सत्ता विषलतोत्थिता । यस्यां जगन्त्य् अनन्तानि फलान्य् आयान्ति यान्ति च
साद्रिद्यूर्वीनदीशेयं रूपालोकैषणादिका । अहमर्थस्य मरिचबीजस्यान्तश् चमत्कृतिः
द्यौẖ क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः । इत्य् आमोदो ऽहमर्थोग्रकुसुमस्य विकासिनः
अहमर्थḫ प्रविसृतḫ प्रकटीकुरुते जगत् । सद्रूपालोकमननं प्रवृत्त इव वासरः
प्रवृत्तेन दिनेनाभा प्रकटीक्रियते यथा । असज् जगद् अहन्त्वेन क्षणान् निर्मीयते तथा
अहम् इत्य् अर्थदुस्तैललवो ब्रह्मणि वारिणि । प्रसृतो यत् तद् आश्व् एतत् त्रिजगच्चक्रिकं स्थितम्
उन्मेषमात्रेणाहन्ता जगन्त्य् अनुभवत्य् अहो । न निमेषेण दृग् इव सत्यानीत्य् अप्य् असन्त्य् अलम्
अहमर्थे प्रविसृते संसारो ह्य् अनुभूयते । नान्तर्लयपरिक्षीणे लोचनस्येव तारके
अहमंशे निरंशत्वं नीते शाश्वतसंविदा । शाम्यतीयम् अशेषेण संसारमृगतृष्णिका
स्वसंविद्भावनामात्रसाध्ये ऽस्मिन् वरवस्तुनि । सिद्धमात्रात्मनि स्वैरं मा खेदं गच्छ मा भ्रमीः
स्वयत्नमात्रसंसाध्याद् असहायादिसाधनात् । अनहंवेदनान् नान्यच् छ्रेयḫ पश्यामि ते ऽनघ
विस्मृत्याहन्त्वम् आस्स्व प्रविसृतविभवो भूषिताशेषविश्वो विष्वक्शैलान्तरिक्षक्षितिजलधिमरुन्मार्गरूपो ऽमलात्मा । स्वस्थश् शान्तो विशोकẖ करणमलकलावर्जितो निष्प्रपञ्चो निस्सञ्चारश् चरात्मा सकलम् असकलं चेति सिद्धान्तसारः