साहन्तादिजगच्छान्तौ बोधे संवित्कलात्मनि । दीपसंशान्तिसङ्काशस् त्यागस् सिध्यति नान्यथा
न त्यागẖ कर्मसन्त्यागो बोधस् त्याग इति स्मृतः । अजगत्प्रतिभैकात्मा यो ऽनहन्तादिर् अव्ययः
अयं सो ऽहम् इदं तन् मे इति निस्स्नेहदीपवत् । शान्ते परमनिर्वाणं प्रबोधात्मैव शिष्यते
अयं सो ऽहम् इदं तन् मे शान्तम् इत्य् एव यस्य नो । न ज्ञानं तस्य नो शान्तिर् न त्यागो न च निर्वृतिः
ममेदम् अयम् एवाहम् इत्य् एतावति यẖ क्षयः । बोधात्मा शिवं शान्तं तु तस्माद् अन्यन् न विद्यते
अहमंशे चिता क्षीणे सर्वम् एव क्षयं गतम् । न किञ्चिच् च क्वचित् क्षीणं निर्वाणैकघनं स्थितम्
अहंविद् अनहंवित्त्वाद् एव शाम्यत्य् अविघ्नतः । एतावन्मात्रसाध्येयं किम् एवेयं कदर्थना
अहं नाहम् इति भ्रान्तिर् न च वित्त्वाद् ऋते ऽस्ति सा । वित्त्वं चाकाशविशदम् अतẖ क्वैषा भ्रमस्थितिः
न भ्रमो भ्रमणं नैव न भ्रान्तिर् भ्रमको ऽस्ति वा । अनालोकनम् एवेदम् आलोकान् नेदम् अस्ति ते
विद्धि विन्मात्रम् एवेदम् असद्रूपोपमं ततम् । ॐ अलं मौनम् आस्स्वैवं सर्वं निर्वाणमात्रकम्
येनैवाशु निमेषेण त्व् अहम् इत्य् एव चेतति । तेनैव नाहम् इत्य् एव चेतित्वाशु न शोच्यते
अहम्भावं नञर्थेन निर्वाप्यारूढबाणवत् । अजस्रम् आसवक्षीवस् तिष्ठावष्टब्धतत्पदः
सनञर्थाम् अहन्तां त्वं चेतन्न् एवम् अनारतम् । सर्वभावैर् अनारूढो भव तीर्णभवार्णवः
स्वभावमात्रावजये स्वयं यस्य न वीरता । तस्योत्तमपदप्राप्तौ पशोर् ब्रूहि कथैव का
षड्वर्गो निर्जितḫ पूर्वं येनोत्तमविदा स्वतः । भाजनं स प्रकर्षाणां नेतरो नरगर्दभः
यस्य स्वान्तर् मनोवृत्तिर् जीयमाना जिताथ वा । विषयस् स विवेकानां स पुमान् इति कथ्यते
अर्थो दृषद् इवाम्भोधौ यो य आपतति त्वयि । तस्माद् एव पलाय्यास्स्व नाहम् इत्य् एव भावनात्
नाहम् अस्मीति बुद्ध्वापि सोपपत्तिकम् अप्य् अलम् । ज्ञानाज् ज्ञो ज्ञप्तिमात्रं च किम् अज्ञ इव मुह्यसि
न ज्ञे ऽहमर्थतास्तीह हेम्नीव कटकादिता । भ्रान्तिमात्राद् ऋते सा च शाम्यत्य् अस्मरणेन ते
यो यो भाव उदेत्य् अन्तस् त्वयि स्पन्द इवानिले । नाहम् अस्मीति चिद्वृत्त्या तम् अनाधारतां नय
लोभो लज्जा मदो मोहो येनादाव् इति नो जिताः । निरर्थकम् अनर्थे ऽस्मिन् स किमर्थं प्रवर्तते
अहन्त्वं पवने स्पन्द इव यत् त्वयि संस्थितम् । परमात्मनि तन् नान्यद् एतत् स्पन्द इवानिले
असर्गसंविदा सर्गḫ परे ऽस्तीति विराजते । सन्निवेशविशेषेण दुरर्थो ऽपि हि शोभते
परमात्मा तु नोदेति नास्तं याति कदाचन । न चास्माद् अन्यद् अस्तीति को भावो ऽभाव एव वा
परं परे परापूर्णं शान्ते शान्तं शिवश् शिवे । इत्येवमात्रं विततं नाहं न च जगन् न धीः
अनिर्वाणं विनिर्वाणे शान्ते शान्तं शिवे शिवम् । निर्वाणम् अपि निर्वाणे सनञर्थं न वापि तत्
शस्त्राघाताḫ प्रसह्यन्ते सह्यन्ते व्याधिवेदनाः । नाहम् इत्येवमात्रस्य सहने का कदर्थना
जगत्पदार्थसार्थानाम् अहम् इत्य् अङ्कुरो ऽक्षयः । तस्मिन् निर्मूलतां नीते जगन् निर्मूलतां गतम्
बाष्पेणेवाहमर्थेन निस्सारेणापि सारवान् । श्यामलḫ परमादर्शस् तच्छान्तौ सम्प्रसीदति
अहमर्थḫ परे वायौ स्पन्दस् तत्प्रशमे तु तत् । अनिर्देश्यम् अनाभासम् अनन्तम् अजम् अव्ययम्