अपुनस्स्मरणं सम्यक् चिरविस्मृतकर्म यत् । स्थितं स्तम्भोदरसमं स कर्मत्याग उच्यते
अत्यागं त्यागम् इति ये कुर्वते व्यर्थबोधिनः । तेषाम् अवटलग्नानां विधिस् त्राणं करिष्यति
कर्मत्यागम् अकृत्वैवम् अर्धं ये कर्म कुर्वते । सा भुङ्क्ते तान् पशून् अज्ञान् कर्मत्यागपिशाचिका
समूलकर्मसन्त्यागेनैव ये शान्तम् आस्थिताः । नैव तेषां कृतेनार्थो नाकृतेनेह कश्चन
समूलम् अलम् उद्धृत्य कर्मबीजकलाम् इति । नित्यम् एकसमाधानास् तज्ज्ञास् तिष्ठन्त्य् अलं सुखम्
प्रवाहापतिते कार्ये ईषत्स्पन्दा अतन्मयाः । घूर्णमाना इव क्षीवा यन्त्रसञ्चारिता इव
मोक्षलक्ष्म्या विलासिन्या व्यसनोपहता इव । अर्धसुप्तप्रबुद्धाभाẖ काम् अप्य् अवगतिं गताः
यत् समूलं परित्यक्तं तत् त्यक्तम् इति कथ्यते । अमूलकाषस् त्यागो यस् स शाखालवनोपमः
अकृष्टमूलश् शाखाग्रविलूनẖ कर्मपादपः । पुनश् शाखासहस्रेण दुẖखाय परिवर्धते
अवेदनात्मनानेन कर्मत्यागो ऽङ्ग सिध्यति । क्रमेण नेतरेणात एतद् एवाहरन् भव
ये त्व् एवं कर्मसन्त्यागम् अकृत्वान्यत्प्रवर्तिताः । अत्यागं त्यागरूपात्म गगनं मारयन्ति ते
बोधात्मकतया कर्मत्यागस् सम्पद्यते स्वयम् । दग्धबीजा निरिच्छोच्चैर् अक्रियैव भवेत् क्रिया
बुद्धीन्द्रियेहितं कर्म सफलं रसभावनात् । वेष्टितत्यक्तदाम्नीव स्पन्दो ऽन्यो निष्फलो ऽङ्गजः
कर्मत्यागे स्थिते बोधाज् जीवन्मुक्तो विवासनः । गेहे तिष्ठत्व् अरण्ये वा शाम्यत्व् अभ्येतु वोदयम्
गेहम् एवोपशान्तस्य विजनं दूरकाननम् । अशान्तस्याप्य् अरण्यानी विजना सजना पुरी
परिशान्तमतेर् ज्ञस्य स्वप्ने ऽप्य् अप्राप्तमानवा । निर्मला वितता हृद्या हृद् एव वनभूमिका
ज्ञस्य निर्वाणदृश्यस्य निष्पदार्था मनोमयी । शान्ताशेषविशेषार्था जगद् एव महाटवी
अनन्तसङ्कल्पवतो हृदयोद्यज्जगत्स्थितेः । हृद्य् एवावर्तते भूमिर् अज्ञस्याखिलसागरा
घनस्याज्ञस्य दीनस्य विविधद्वन्द्वसङ्कटा । सारम्भा विपुलाकारा हृद्य् एव ग्राममण्डली
विविधकार्यविकारदशामयी सपुरपत्तनपर्वतमण्डला । मकुरकोश इव प्रतिबिम्बिता हृदि भवत्य् अमला मलिने मही
साहन्तादिजगच्छान्तौ बोधे संवित्कलात्मनि । दीपसंशान्तिसङ्काशस् त्यागस् सिध्यति नान्यथा
न त्यागẖ कर्मसन्त्यागो बोधस् त्याग इति स्मृतः । अजगत्प्रतिभैकात्मा यो ऽनहन्तादिर् अव्ययः
अयं सो ऽहम् इदं तन् मे इति निस्स्नेहदीपवत् । शान्ते परमनिर्वाणं प्रबोधात्मैव शिष्यते
अयं सो ऽहम् इदं तन् मे शान्तम् इत्य् एव यस्य नो । न ज्ञानं तस्य नो शान्तिर् न त्यागो न च निर्वृतिः
ममेदम् अयम् एवाहम् इत्य् एतावति यẖ क्षयः । बोधात्मा शिवं शान्तं तु तस्माद् अन्यन् न विद्यते
अहमंशे चिता क्षीणे सर्वम् एव क्षयं गतम् । न किञ्चिच् च क्वचित् क्षीणं निर्वाणैकघनं स्थितम्
अहंविद् अनहंवित्त्वाद् एव शाम्यत्य् अविघ्नतः । एतावन्मात्रसाध्येयं किम् एवेयं कदर्थना
अहं नाहम् इति भ्रान्तिर् न च वित्त्वाद् ऋते ऽस्ति सा । वित्त्वं चाकाशविशदम् अतẖ क्वैषा भ्रमस्थितिः
न भ्रमो भ्रमणं नैव न भ्रान्तिर् भ्रमको ऽस्ति वा । अनालोकनम् एवेदम् आलोकान् नेदम् अस्ति ते
विद्धि विन्मात्रम् एवेदम् असद्रूपोपमं ततम् । ॐ अलं मौनम् आस्स्वैवं सर्वं निर्वाणमात्रकम्