विस्तारẖ कर्मणां देहस् सो ऽहन्तात्मा स संसृतिः । अचेतनानहन्त्वेन शाम्यत्य् अस्पन्दवातवत्
अवेदनाद् अनन्तात्मा भूत्वा ज्ञो ऽप्य् उपलोपमः । संसारे मूलकषणं कुरु क्रोडमुखाग्रवत्
कर्मबीजकलाकोशत्याग एवं कृतो भवेत् । नान्यथा राघवातस् ते शान्तम् अस्तु सदा स्थितम्
कर्मबीजकलात्यागे त्व् एतस्माद् इतरात्मनि । अविद्यमाने जीवस्य तज्ज्ञैर् विदितवस्तुभिः
शान्तैर् न गृह्यते किञ्चिन् न च सन्त्यज्यते ऽपि च । त्यागादाने न जानन्ति ते ऽतस् तैश् शान्तम् आस्यते
आकाशशून्यहृदयैर् ज्ञैर् यथास्थितम् आस्यते । क्रियते च यथाप्राप्तं नास्यते क्रियते न च
प्रवाहापतितस्पन्दं स्पन्दन्ते शान्तचेतसाम् । तेषां कर्मेन्द्रियाण्य् एवम् अर्धसंसुप्तबालवत्
रसे निर्वासने लब्धरसा अप्य् अतिनीरसाः । नान्तस् तिष्ठन्ति न बहिर् ज्ञा अज्ञा निपुणा इव
कर्मणो ऽवेदनं त्यागस् स च सिद्धḫ प्रबोधतः । अवस्तुनेतरेणाथ किं कृतेनाकृतेन वा
अवेदनम् असंवेद्यं यद् अवासनम् आसितम् । शान्तं समम् अनुल्लेखं स कर्मत्याग उच्यते
अपुनस्स्मरणं सम्यक् चिरविस्मृतकर्म यत् । स्थितं स्तम्भोदरसमं स कर्मत्याग उच्यते
अत्यागं त्यागम् इति ये कुर्वते व्यर्थबोधिनः । तेषाम् अवटलग्नानां विधिस् त्राणं करिष्यति
कर्मत्यागम् अकृत्वैवम् अर्धं ये कर्म कुर्वते । सा भुङ्क्ते तान् पशून् अज्ञान् कर्मत्यागपिशाचिका
समूलकर्मसन्त्यागेनैव ये शान्तम् आस्थिताः । नैव तेषां कृतेनार्थो नाकृतेनेह कश्चन
समूलम् अलम् उद्धृत्य कर्मबीजकलाम् इति । नित्यम् एकसमाधानास् तज्ज्ञास् तिष्ठन्त्य् अलं सुखम्
प्रवाहापतिते कार्ये ईषत्स्पन्दा अतन्मयाः । घूर्णमाना इव क्षीवा यन्त्रसञ्चारिता इव
मोक्षलक्ष्म्या विलासिन्या व्यसनोपहता इव । अर्धसुप्तप्रबुद्धाभाẖ काम् अप्य् अवगतिं गताः
यत् समूलं परित्यक्तं तत् त्यक्तम् इति कथ्यते । अमूलकाषस् त्यागो यस् स शाखालवनोपमः
अकृष्टमूलश् शाखाग्रविलूनẖ कर्मपादपः । पुनश् शाखासहस्रेण दुẖखाय परिवर्धते
अवेदनात्मनानेन कर्मत्यागो ऽङ्ग सिध्यति । क्रमेण नेतरेणात एतद् एवाहरन् भव
ये त्व् एवं कर्मसन्त्यागम् अकृत्वान्यत्प्रवर्तिताः । अत्यागं त्यागरूपात्म गगनं मारयन्ति ते
बोधात्मकतया कर्मत्यागस् सम्पद्यते स्वयम् । दग्धबीजा निरिच्छोच्चैर् अक्रियैव भवेत् क्रिया
बुद्धीन्द्रियेहितं कर्म सफलं रसभावनात् । वेष्टितत्यक्तदाम्नीव स्पन्दो ऽन्यो निष्फलो ऽङ्गजः
कर्मत्यागे स्थिते बोधाज् जीवन्मुक्तो विवासनः । गेहे तिष्ठत्व् अरण्ये वा शाम्यत्व् अभ्येतु वोदयम्
गेहम् एवोपशान्तस्य विजनं दूरकाननम् । अशान्तस्याप्य् अरण्यानी विजना सजना पुरी
परिशान्तमतेर् ज्ञस्य स्वप्ने ऽप्य् अप्राप्तमानवा । निर्मला वितता हृद्या हृद् एव वनभूमिका
ज्ञस्य निर्वाणदृश्यस्य निष्पदार्था मनोमयी । शान्ताशेषविशेषार्था जगद् एव महाटवी
अनन्तसङ्कल्पवतो हृदयोद्यज्जगत्स्थितेः । हृद्य् एवावर्तते भूमिर् अज्ञस्याखिलसागरा
घनस्याज्ञस्य दीनस्य विविधद्वन्द्वसङ्कटा । सारम्भा विपुलाकारा हृद्य् एव ग्राममण्डली
विविधकार्यविकारदशामयी सपुरपत्तनपर्वतमण्डला । मकुरकोश इव प्रतिबिम्बिता हृदि भवत्य् अमला मलिने मही