त्यागो हि कर्मणां तस्माद् आदेहं नोपपद्यते । यैस् तु सन्त्यज्यते कर्म तन्मूलं तैर् न मुच्यते
मूलं स्वकर्मणस् संविन् मनसो वासनात्मनः । सा चादेहं समुच्छेत्तुम् ऋते बोधान् न शक्यते
राम केवलम् एषान्तẖ कर्ममूलकला परा । सूक्ष्मा संविद् असंवित्त्या स्वयत्नेन निकृन्त्यते
येन संविद् असंवित्त्या स्वयत्नेन निवार्यते । तेन संसृतिवृक्षस्य मूलकाषो वितन्यते
अचेतनाकाशम् अजं यद् एकं तत्रैवम् अस्ति त्व् इदम् अर्थहीनम् । तद् व्योमरूपं यत एतद् एवं निरामयं चेतनसारम् आहुः
अवेदनं वेदनस्य मुनीन्द्र क्रियते कथम् । नासतो विद्यते भावो नाभावो विद्यते सतः
नासतो विद्यते भावो नाभावो विद्यते सतः । यदा तदैव सुकरं वेदनावेदनं स्वयम्
एतौ वेदनशब्दार्थौ रज्जुसर्पभ्रमोपमौ । असत्याव् उदितौ विद्धि मृगतृष्णाम्भसस् समौ
अबोधस् त्व् अनयोश् श्रेयान् बोधो दुẖखाय चैतयोः । तस्मात् सद् एव बुध्यस्व मासद् बुध्यस्व राघव
जन्तोर् वेदनशब्दार्थबोधो दुẖखकरḫ परः । न्यक्कृत्य ज्ञप्तिशब्दार्थबोधं तिष्ठ यथास्थितम्
सर्वावबोधावसरे ज्ञप्तिशब्दार्थयोर् इह । निर्वाणोदय इत्य् एव परम् ॐ इति शाम्यताम्
शुभाशुभात्म कर्म स्वं नाशनीयं विवेकिना । तन् नास्तीत्य् अवबोधेन तत्त्वज्ञानेन सिध्यति
कर्ममूलनिकाषेण संसारḫ परिशाम्यति । सुविचारितम् अन्विष्टं यावत् कर्म न विद्यते
चिद्रूपो बिल्वमज्जो ऽन्तश् चित्रास् सञ्ज्ञा यद् आत्मनि । करोति तद् यथा बिल्वान् न स्वल्पम् अपि भिद्यते
तथा ब्रह्मघनस्यान्तर् अनानैवावभासते । नानेव ननु तस्मात् तन् न मनाग् अपि भिद्यते
न यथा सन्निवेशो ऽन्तस् सन्निवेशवतḫ पृथक् । तथा नञर्थादि पृथङ् न परस्मान् मनाग् अपि
यद् एवान्तस् तद् एवान्तर् द्रवत्वम् अपृथग् यथा । वित्त्वम् एव तथावित्त्वं तद्रूपत्वान् नञर्थयोः
यथा द्रवत्वं पयसि यथालोकश् च तेजसि । तथा ब्रह्मण्य् अतद्भावश् चित्य् अचित्त्वं न विद्यते
चेतनं कर्म तच् चान्तर् निर्मूलं भ्रमयक्षवत् । उदेत्य् अहेतुकं तच् चेन् नोदितं तन् न विद्यते
चेतनं कर्म तच् चैतद् भाति स्पन्द इवानिले । अहेतुकं यदात्मैतद् बहिर् अन्तश् च सार्थधीः
विस्तारẖ कर्मणां देहस् सो ऽहन्तात्मा स संसृतिः । अचेतनानहन्त्वेन शाम्यत्य् अस्पन्दवातवत्
अवेदनाद् अनन्तात्मा भूत्वा ज्ञो ऽप्य् उपलोपमः । संसारे मूलकषणं कुरु क्रोडमुखाग्रवत्
कर्मबीजकलाकोशत्याग एवं कृतो भवेत् । नान्यथा राघवातस् ते शान्तम् अस्तु सदा स्थितम्
कर्मबीजकलात्यागे त्व् एतस्माद् इतरात्मनि । अविद्यमाने जीवस्य तज्ज्ञैर् विदितवस्तुभिः
शान्तैर् न गृह्यते किञ्चिन् न च सन्त्यज्यते ऽपि च । त्यागादाने न जानन्ति ते ऽतस् तैश् शान्तम् आस्यते
आकाशशून्यहृदयैर् ज्ञैर् यथास्थितम् आस्यते । क्रियते च यथाप्राप्तं नास्यते क्रियते न च
प्रवाहापतितस्पन्दं स्पन्दन्ते शान्तचेतसाम् । तेषां कर्मेन्द्रियाण्य् एवम् अर्धसंसुप्तबालवत्
रसे निर्वासने लब्धरसा अप्य् अतिनीरसाः । नान्तस् तिष्ठन्ति न बहिर् ज्ञा अज्ञा निपुणा इव
कर्मणो ऽवेदनं त्यागस् स च सिद्धḫ प्रबोधतः । अवस्तुनेतरेणाथ किं कृतेनाकृतेन वा
अवेदनम् असंवेद्यं यद् अवासनम् आसितम् । शान्तं समम् अनुल्लेखं स कर्मत्याग उच्यते