सभां पुनर् उपाजग्मुर् नभश्चरमहीचराः । ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः
सा पूर्वसन्निवेशेन विवेश विपुला सभा । बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी
अथ प्रसङ्गम् आसाद्य रामो मधुरया गिरा । उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम्
भगवन् मनसो रूपं कीदृशं वद मे स्फुटम् । यस्मात् तेनेयम् अखिला तन्यते दोषमञ्जरी
रामास्य मनसो रूपं न किञ्चिद् अपि दृश्यते । नाममात्राद् ऋते व्योम्नो यथा शून्यजडाकृतेः
न बाह्ये नापि हृदये सद्रूपं विद्यते मनः । सर्वत्रैव स्थितं चैतद् विद्धि राम यथा नभः
इदम् अस्यासद् उत्पन्नं मृगतृष्णाम्बुसन्निभम् । रूपं तु शृणु सङ्क्षेपाद् द्वितीयेन्दुभ्रमोपमम्
साधो यद् एतद् अर्थस्य प्रतिभानं प्रथां गतम् । सतो वाप्य् असतो वापि तन् मनो विद्धि नेतरत्
यद् अर्थप्रतिभानं तन् मन इत्य् अभिधीयते । अन्यन् न किञ्चिद् अप्य् अस्ति मनो नाम कदाचन
सङ्कल्पनं मनो विद्धि सङ्कल्पात् तन् न भिद्यते । यथा द्रवत्वात् सलिलं तथा स्पन्दो यथानिलात्
यत्र सङ्कल्पनं तत्र तन् मनो ऽङ्ग तथा स्थितम् । सङ्कल्पमनसी भिन्ने न कदाचन केचन
सत्यम् अस्त्व् अथ वासत्यं यद् अर्थप्रतिभासनम् । तावन्मात्रं मनो विद्धि तद् ब्रह्मैष पितामहः
आतिवाहिकदेहात्मा मन इत्य् अभिधीयते । आधिभौतिकबुद्धिस् तु सदाधीस् तु चिरस्थितिः
अविद्या संसृतिश् चित्तं मनो बन्धो मलं तमः । इति पर्यायनामानि दृश्यस्य विदुर् उत्तमाः
न हि दृश्याद् ऋते किञ्चिन् मनसो रूपम् अस्ति हि । दृश्यं चोत्पन्नम् एवैतन् नेति वक्ष्याम्य् अहं पुनः
यथा कमलबीजे ऽन्तस् स्थिता कमलमञ्जरी । महाचित्परमाण्वन्तस् तथा दृश्यं जगत् स्थितम्
प्रकाशस्य यथालोको यथा वातस्य चोपनम् । यथा द्रवत्वं पयसो दृश्यत्वं द्रष्टुर् ईदृशम्
अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् । भित्तिर् यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः
एवं द्रष्टरि दृश्यत्वम् अनन्यद् इव यत् स्थितम् । तद् अप्य् उन्मार्जयाम्य् आशु त्वच्चित्तादर्शतो मलम्
यद् द्रष्टुर् अस्याद्रष्टृत्वं दृश्याभावे भवेद् बलात् । तद् विद्धि केवलीभावम् अत एवासतस् सतः
तत्ताम् उपगते भावे रागद्वेषादिवासना । शाम्यत्य् अस्पन्दिते वाते स्पन्दसङ्क्षुब्धता यथा
असम्भवति सर्वस्मिन् दिग्भूम्याकाशरूपिणि । प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत्
त्रिजगत् त्वम् अहं चेति दृश्ये ऽसत्ताम् उपागते । द्रष्टुस् स्यात् केवलीभावस् तादृशो विमलात्मनः
अनन्ताखिलशैलादिप्रतिबिम्बे हि यादृशी । स्याद् दर्पणे दर्पणता केवलात्मस्वरूपिणी
अहं त्वं जगद् इत्यादौ प्रशान्ते दृश्यसम्भ्रमे । स्यात् तादृशी केवलता स्थिते द्रष्टर्य् अवीक्षके
सच् चेन् न शाम्यतीदं वा नाभावो विद्यते सतः । असत्तां च न विद्मो ऽस्मिन् दृश्ये दोषप्रदायिनि
तस्मात् कथम् इयं शाम्येद् ब्रह्मन् दृश्यविषूचिका । नानोद्भवभ्रमकरी दुःखसन्ततिदायिनी
अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रम् इमं शृणु । रामात्यन्तम् अयं येन मृतिम् एष्यति नङ्क्ष्यति
यद् अस्ति तस्य नाशो ऽस्ति न कदाचन राघव । तस्मात् तन् नष्टम् अप्य् अन्तर् बीजभूतं भवेद् धृदि
स्मृतिबीजा चिदाकाशे पुनर् उद्भूय दृश्यधीः । लोकशैलाम्बराकारं दोषं वितनुते ऽतनुम्