कर्मबीजतरोर् अस्य सुखदुẖखफलावलेः । जाग्रद्वसन्तकालस्य सुषुप्तशिशिरस्थितेः
पावनाचारकलिकागुच्छकोत्करकारिणः । क्षणतारुण्यकान्तस्य जराकुसुमहासिनः
मुहूर्तं प्रति कल्लोलमर्कटध्वंसिताकृतेः । निद्राहेमन्तजठरलीनस्वप्नदलोद्गतेः
स्ववार्द्धकशरच्छान्तिशीर्णेहापर्णसन्ततेः । जगज्जङ्गलजातस्य कलत्रोपतृणावलेः
पेलवावयवा हस्तपादगुल्फादयो ऽरुणाः । पत्त्राणि तनुवृन्तानि सुरेखानि चलानि च
अरुणाḫ पवनालोला मृद्व्यो मसृणमूर्तयः । स्नाय्वस्थिदिग्धास् सरसा अङ्गुल्यो बालपल्लवाः
मृद्व्यो मसृणतीक्ष्णाग्रा वृन्तरूढाḫ पुनḫ पुनः । द्वितीयेन्दुकराकाराẖ कलिका नखशुक्तयः
कर्मणḫ परिफुल्लस्य देहरूपतयेति हि । कर्मेन्द्रियाणि मूलानि दृढानि ग्रन्थिमन्ति च
सिरास्थिग्रन्थिनद्धानि पङ्कमग्नात्मकानि च । वासनारसपीनानि निजरक्तरसानि च
गुल्फवन्ति दृढाङ्गानि सुत्वञ्चि मसृणानि च । तेषाम् अपि च मूलानि विद्धि बुद्धीन्द्रियाणि हि
सुदूरम् अपि यातानि पञ्चस्तम्भानि तानि तु । वासनापङ्कमग्नानि रसवन्ति महान्ति च
तेषां मूलं बृहत् स्तम्भं मनो व्याप्तजगत्त्रयम् । पञ्चस्रोतस्सिराकृष्टमुक्तानन्तरसद्रवम्
तस्य मूलं विदुर् जीवं चेत्योन्मुखचिदात्मकम् । जीवस्य चेतनं मूलं सर्वमूलैककारणम्
चितेस् तु ब्रह्म मूलं यत् तस्य मूलं न विद्यते । अनाख्यत्वाद् अनन्तत्वाच् छुद्धत्वात् सत्यरूपिणः
सर्वेषां कर्मणाम् एवं वेदनं बीजम् उत्तमम् । स्वरूपं चेतयित्वान्तस् ततस् स्पन्दḫ प्रवर्तते
मुने चेतनम् एवाद्यं कर्मणां बीजम् उच्यते । तस्मिन् सति महाशाखो जायते देहशल्मलिः
एतच् चेतनशब्दार्थं भावनावलितं यदि । तत् कर्मबीजताम् एति नो चेत् साध्यं परं पदम्
चितिश् चेतनशब्दार्थभावनावलिता यदि । तत् कर्मबीजताम् एति नो चेत् साध्यं परं पदम्
तस्माद् वेदनम् एवेह कर्म कारणम् आकृतेः । एतत् तत् कर्मणां बीजं त्वयैवोक्तं मुनीश्वर
अस्य राघव सूक्ष्मस्य कर्मणो वेदनात्मनः । कस् त्यागẖ किम् अनुष्ठानं यावद्देहम् इदं स्थितम्
यच् चेत्यते तु तेनाशु बहिर् अन्तश् च भूयते । सत्याकारम् असत्यं वा भवत्व् आहितविभ्रमम्
न चेत्यते चेत् तद् अलं भ्रमाद् अस्माद् विमुच्यते । भ्रमस् सत्यो ऽस्त्व् असत्यो वा किं विचारणयानया
एतच् चेतनम् एवान्तर् विकसत्य् उद्भवभ्रमैः । वासनेच्छामनẖकर्मसङ्कल्पाद्यभिधात्मभिः
प्रबुद्धस्याप्रबुद्धस्य देहिनो देहगेहके । आदेहं विद्यते वित्त्वं त्यागस् त्व् अस्य न विद्यते । जीवतां तस्य सन्त्यागẖ कथं नामोपपद्यते
केवलं कर्मशब्दार्थभावनाभावने सति । कर्म कर्मत्वम् उत्सृज्य स्वयम् एव भवत्य् अजम्
असम्भवति सन्त्यागे कर्मणो यẖ करोति हि । इदंकर्तव्यतात्यागं न किञ्चित् तेन तत् कृतम्
बोधाद् इदन्तासंवित्तेस् स्वयं विलयनं तु यत् । जगतस् तं विदुस् त्यागम् असङ्गं मोक्षम् एव च
वेदनं सति संवेद्ये सर्गादाव् एव वेद्यदृक् । नोत्पन्ना विद्यते नैव तस्मात् किं क्वेव वेदनम्
वेद्योन्मुखत्वं सन्त्यज्य रूपं यद् वेदनस्य वै । न वेदनं तन् नो कर्म तच् छान्तं ब्रह्म कथ्यते
चेतनं प्रोच्यते कर्म संसृत्या प्रविकासितम् । अचेतनं विदुर् मोक्षं ज्ञं चेत्य् एवोपदेशधीः