अवेदनं विदुर् योगं चित्तक्षयम् अकृत्रिमम् । अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भोः
समे शान्ते शिवे सूक्ष्मे द्वैतैक्यपरिवर्जिते । तते ऽनन्ते पदे शुद्धे किं केन किल विद्यते
मोदेतु त्वयि सङ्कल्पो मरुभूमाव् इवाङ्कुरः । इच्छा मोदेतु भवतो लतिकेवोपलोदरे
अवेदनस्य शान्तस्य जीवतो वाप्य् अजीवतः । नेह कश्चित् कृतेनार्थो नाकृतेनापि कश्चन
न कर्माकर्म शान्ते ऽन्तश् शाश्वताभेदरूपिणि । न कर्मण्य् अपि कर्माणि न कर्तर्य् अपि कर्तृता
अहं ममेति संविदन् न दुẖखतो विमुच्यसे । असंविदन् विमुच्यसे यद् ईप्सितं तद् आहर
अहं ममेति नास्त्य् अलं यद् अस्ति तच् छिवं परम् । परात् परं त्व् इदं शिवम् अशब्दम् अर्थवर्जितम्
यद् दृश्यते जगद् इदं खलु किञ्चिद् एतद् धेम्नो ऽङ्गदत्वम् इव भाति न विद्यमानम् । अर्थक्षयं विदुर् अवेदनम् एव पश्चात् सत्यं तद् एव परमार्थम् अथावशिष्टम्
अद्वैतैक्यं विमननं शान्तम् आत्मन्य् अवस्थितम् । यथा पुस्तमयं सैन्यं तथा शिवमयं जगत्
मनोऽहङ्कारबुद्ध्यादि चैवम् एव च तन्मयम् । कालाकारक्रियाशब्दशक्तिसन्दर्भसंयुतम्
शिवपङ्कमया एव रूपालोकमनẖक्रमाः । तन्मयत्वाद् अनन्तत्वाद् अतẖ किं केन चेत्यते
मानमेयप्रमाणादि देशकालौ दिगादि च । भावाभावविवर्तादि शिवपङ्कमयात्मकम्
अहं ममेत्य् अतस् सारान् नेतरत् परमाम्बरात् । असंसक्तमतिस् तिष्ठ ज्ञश् शिलोदरमौनवत्
अहं ममेत्य् असद्रूपं ज्ञस्याभावयतḫ प्रभो । असङ्गं कर्मणां त्यागाद् अनुष्ठानाच् च किं शुभम्
पृच्छामि यद् अहं त्वं तत् कथयाशु ममानघ । यदि जानासि तत्त्वेन कर्म तावत् किम् उच्यते
विस्तारẖ कर्मणां कीदृङ् मूलं तस्य च किं भवेत् । नाशनीयं च निपुणं कथं कथय नाश्यते
यन् नाशनीयं निपुणं तन् नूनं प्रविनाश्यते । मूलकाषेण भगवन् न शाखादिविकर्तनैः
शुभाशुभं नाशनीयं स्वकर्म खलु धीमता । मूलकाषविनाशेन तच् च नष्टं भवत्य् अलम्
कर्मवृक्षस्य वक्ष्यामि ब्रह्मन् मूलानि मे शृणु । यन् निकाषेण निर्मूलो न स भूयḫ प्ररोहति
देहस् तावद् अयं ब्रह्मन् कर्मवृक्षस् समुत्थितः । रूढस् संसारविपिने विचित्राङ्गलतान्वितः
कर्मबीजतरोर् अस्य सुखदुẖखफलावलेः । जाग्रद्वसन्तकालस्य सुषुप्तशिशिरस्थितेः
पावनाचारकलिकागुच्छकोत्करकारिणः । क्षणतारुण्यकान्तस्य जराकुसुमहासिनः
मुहूर्तं प्रति कल्लोलमर्कटध्वंसिताकृतेः । निद्राहेमन्तजठरलीनस्वप्नदलोद्गतेः
स्ववार्द्धकशरच्छान्तिशीर्णेहापर्णसन्ततेः । जगज्जङ्गलजातस्य कलत्रोपतृणावलेः
पेलवावयवा हस्तपादगुल्फादयो ऽरुणाः । पत्त्राणि तनुवृन्तानि सुरेखानि चलानि च
अरुणाḫ पवनालोला मृद्व्यो मसृणमूर्तयः । स्नाय्वस्थिदिग्धास् सरसा अङ्गुल्यो बालपल्लवाः
मृद्व्यो मसृणतीक्ष्णाग्रा वृन्तरूढाḫ पुनḫ पुनः । द्वितीयेन्दुकराकाराẖ कलिका नखशुक्तयः
कर्मणḫ परिफुल्लस्य देहरूपतयेति हि । कर्मेन्द्रियाणि मूलानि दृढानि ग्रन्थिमन्ति च
सिरास्थिग्रन्थिनद्धानि पङ्कमग्नात्मकानि च । वासनारसपीनानि निजरक्तरसानि च
गुल्फवन्ति दृढाङ्गानि सुत्वञ्चि मसृणानि च । तेषाम् अपि च मूलानि विद्धि बुद्धीन्द्रियाणि हि