नैष्कर्म्यात् कल्पनात्यागात् तनुḫ पतति देहिनः । कथम् एतद् अतो ब्रह्मन् सम्भवत्य् आशु जीवतः
जीवतẖ कल्पनात्यागो युज्यते न त्व् अजीवतः । रूपम् अस्य यथावत् त्वं शृणु श्रवणभूषणम्
अहम्भावनम् एवाहुẖ कल्पनं कल्पकोविदाः । नञर्थभावनं तस्य सङ्कल्पत्याग उच्यते
पदार्थरसम् एवाहुẖ कल्पनं कल्पनाविदः । नञर्थभावनं तस्य सङ्कल्पत्याग उच्यते
इदम् अस्त्व् इति संवेगम् आहुस् सङ्कल्पम् उत्तमाः । नञर्थभावनं तस्य सङ्कल्पत्याग उच्यते
स्मरणं विद्धि सङ्कल्पं शिवम् अस्मरणं विदुः । तच् च प्रागनुभूतं च नानुभूतं च भाव्यते
अनुभूतां नानुभूतां स्मृतिं विस्मृत्य कारणम् । सर्वम् एवाशु विस्मृत्य गूढस् तिष्ठ महामुनिः
सर्वास्मरणमात्रेण तिष्ठायातेषु कर्मसु । अर्धसुप्तशिशुस्पन्द इवाभ्यस्तोपपत्तिषु
निस्सङ्कल्पं प्रवाहेण चक्रं प्रस्पन्दते यथा । स्पन्दस्व कर्मस्व् अनघ प्राक्संस्कारवशात् तथा
अविद्यमानचित्तस् त्वं सत्त्वसंस्कारम् आगतः । प्रवाहापतितेष्व् एव स्पन्दस्व स्वेषु कर्मसु
ऊर्ध्वबाहुर् विरौम्य् एष न च कश्चिच् छृणोति मे । असङ्कल्पḫ परं श्रेयस् स किम् अन्तर् न भाव्यते
अहो मोहस्य माहात्म्यं यद् अयं सर्वदुẖखहा । चिन्तामणिर् विचाराख्यो हृत्स्थो ऽपि त्यज्यते जनैः
अवेदनम् असङ्कल्पस् तन्मयेनैव भूयताम् । एतावत् परमं श्रेयस् स्वयम् एवानुभूयताम्
किल तूष्णींस्थितेनैव तत् पदं प्राप्यते परम् । परमं यत्र साम्राज्यम् अपि राम तृणायते
गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः । स्पन्दो ऽविदितसङ्कल्पस् तथा स्पन्दस्व कर्मसु
सर्वकर्मफलाभोगम् अलं विस्मृत्य सुप्तवत् । प्रवाहापतिते कार्ये स्पन्दस्व गतवेदनम्
स्पन्दस्व गतसङ्कल्पं सुखदुẖखान्य् अभावयन् । प्रवाहापतिते कार्ये वेष्टितोन्मुक्तशष्पवत्
रसभावनम् अन्तस् ते मालं भवतु कर्मसु । दारुयन्त्रमयस्येव परार्थम् इव कुर्वतः
नीरसा एव ते सन्तु समस्तेन्द्रियसंविदः । आकारमात्रसंलक्ष्या हेमन्तर्तौ लता इव
बोधार्कापीतरसया स्पन्दिषड्वर्गसत्तया । यन्त्रस्पन्दाभया तिष्ठ वल्ल्येव शिशिरे द्रुमः
विदान्तररसान्य् एव प्रवृत्तान्य् अपि धारय । स्वयत्नेनेन्द्रियाण्य् आशु हेमन्तर्तुस् तरून् इव
सरसेन्द्रियवृत्तैस् तैẖ कुर्वतो ऽकुर्वतस् तथा । संसारानर्थसार्थो ऽयं न कदाचन शाम्यति
निस्सङ्कल्पं मरुज्ज्वालायन्त्राम्बुस्पन्दवद् यदि । स्पन्दसे तद् अनन्ताय श्रेयसे परिकल्पसे
एतद् एव परं धैर्यं जन्मज्वरनिवारणम् । यद् अवासनम् अभ्यस्तनिजकर्मसु कर्तृता
अवासनम् असङ्कल्पं यथाप्राप्तानुवृत्तिमान् । शनैश् चक्रं भ्रमाभोग इव स्पन्दस्व कर्मसु
मा कर्मफलबुद्धिर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि । उभयं वा त्यजैतत् त्वम् उभयं वा समाश्रय
बहुनात्र किम् उक्तेन सङ्क्षेपाद् इदम् उच्यते । सङ्कल्पनं परो बन्धस् तदभावो विमुक्तता
नेह कार्यं न चाकार्यम् अस्ति किञ्चन कुत्रचित् । सर्वं शिवम् अनाद्यन्तम् अनन्तं प्राग्वद् आस्यताम्
पश्यन् कर्मण्य् अकर्मत्वम् अकर्मणि च कर्मताम् । यथाभूतार्थविद्रूपश् शान्तम् आस्स्व यथासुखम्
अवेदनं विदुर् योगं शान्तम् आसितम् अक्षयम् । योगस्थẖ कुरु कर्माणि नीरसो माथ वा कुरु