मनाग् अप्य् उदितैवेच्छा च्छेत्तव्यानर्थकारिणी । स्वसंविद्यत्नशस्त्रेण विषस्येवाङ्कुरावली
इच्छाविच्छुरितो जीवो विजहाति न दीनताम् । उपलेपकरीं वारि मृच्चूर्ण इव पङ्कताम्
इच्छाच्छोटनचातुर्यं तुर्यम् आहुर् मनीषिणः । तत् कार्यम् आर्यवर्येण यत्नेनौदार्यसंविदा
पदम् उत्तमम् अज्ञानाम् इच्छाच्छेदेन सिध्यति । पत्त्रिणां पाशभेदेन सर्वोर्ध्वस्था यथा गतिः
असंवेदनमात्रेण नोदेतीच्छाभवाङ्कुरः । स्वयत्नसाध्येनासेकाद् बीजकोशाद् इवाङ्कुरः
विद्ध्य् असंवेदनं नाम तूष्णीम् एवान्तरासनम् । एतावन्मात्रके वस्तुन्य् अहो निरवधानता
निष्कर्मास्तु सकर्मा वा पुरुषḫ पूर्णमानसः । असंविदन् सुखाद्य् अन्तḫ पाषाणम् इव तिष्ठतु
सावधानो भृशं भूत्वा भुक्तं शवशतं यया । तां प्रत्य् आहारबडिशेनेच्छामत्सीं नय च्छिदाम्
सङ्कल्पालानम् उन्मूल्य मत्तैरावणलीलया । हेलया पदम् आलम्ब्य त्रैलोक्यविजयी भव
नञर्थयुक्तोत्तममन्त्रयुक्त्या चिता चिरं चेतितया हृदन्तः । सङ्कल्परूपं विषम् आशु नीत्वा जरां जयाशेषभवामयांस् त्वम्
नैष्कर्म्यात् कल्पनात्यागात् तनुḫ पतति देहिनः । कथम् एतद् अतो ब्रह्मन् सम्भवत्य् आशु जीवतः
जीवतẖ कल्पनात्यागो युज्यते न त्व् अजीवतः । रूपम् अस्य यथावत् त्वं शृणु श्रवणभूषणम्
अहम्भावनम् एवाहुẖ कल्पनं कल्पकोविदाः । नञर्थभावनं तस्य सङ्कल्पत्याग उच्यते
पदार्थरसम् एवाहुẖ कल्पनं कल्पनाविदः । नञर्थभावनं तस्य सङ्कल्पत्याग उच्यते
इदम् अस्त्व् इति संवेगम् आहुस् सङ्कल्पम् उत्तमाः । नञर्थभावनं तस्य सङ्कल्पत्याग उच्यते
स्मरणं विद्धि सङ्कल्पं शिवम् अस्मरणं विदुः । तच् च प्रागनुभूतं च नानुभूतं च भाव्यते
अनुभूतां नानुभूतां स्मृतिं विस्मृत्य कारणम् । सर्वम् एवाशु विस्मृत्य गूढस् तिष्ठ महामुनिः
सर्वास्मरणमात्रेण तिष्ठायातेषु कर्मसु । अर्धसुप्तशिशुस्पन्द इवाभ्यस्तोपपत्तिषु
निस्सङ्कल्पं प्रवाहेण चक्रं प्रस्पन्दते यथा । स्पन्दस्व कर्मस्व् अनघ प्राक्संस्कारवशात् तथा
अविद्यमानचित्तस् त्वं सत्त्वसंस्कारम् आगतः । प्रवाहापतितेष्व् एव स्पन्दस्व स्वेषु कर्मसु
ऊर्ध्वबाहुर् विरौम्य् एष न च कश्चिच् छृणोति मे । असङ्कल्पḫ परं श्रेयस् स किम् अन्तर् न भाव्यते
अहो मोहस्य माहात्म्यं यद् अयं सर्वदुẖखहा । चिन्तामणिर् विचाराख्यो हृत्स्थो ऽपि त्यज्यते जनैः
अवेदनम् असङ्कल्पस् तन्मयेनैव भूयताम् । एतावत् परमं श्रेयस् स्वयम् एवानुभूयताम्
किल तूष्णींस्थितेनैव तत् पदं प्राप्यते परम् । परमं यत्र साम्राज्यम् अपि राम तृणायते
गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः । स्पन्दो ऽविदितसङ्कल्पस् तथा स्पन्दस्व कर्मसु
सर्वकर्मफलाभोगम् अलं विस्मृत्य सुप्तवत् । प्रवाहापतिते कार्ये स्पन्दस्व गतवेदनम्
स्पन्दस्व गतसङ्कल्पं सुखदुẖखान्य् अभावयन् । प्रवाहापतिते कार्ये वेष्टितोन्मुक्तशष्पवत्
रसभावनम् अन्तस् ते मालं भवतु कर्मसु । दारुयन्त्रमयस्येव परार्थम् इव कुर्वतः
नीरसा एव ते सन्तु समस्तेन्द्रियसंविदः । आकारमात्रसंलक्ष्या हेमन्तर्तौ लता इव
बोधार्कापीतरसया स्पन्दिषड्वर्गसत्तया । यन्त्रस्पन्दाभया तिष्ठ वल्ल्येव शिशिरे द्रुमः