न सत्त्वस्थैर् न चित्तस्थैẖ कैश्चिद् एवावगम्यते । विदेहमुक्तत्वम् ऋते विदेहा मुक्ततेति हि
असंसक्तधियो ये हि ज्ञत्वात् प्रक्षीणवासनाः । तृतीयां भूमिकां प्राप्तास् तेषां चित्तं न विद्यते
अज्ञत्वे घनभावत्वं चित्तम् आहुर् मनीषिणः । पुनर्जन्मान्तरकरं कारणं भवभूरुहाम्
ज्ञत्वात् क्षीणरसं चित्तम् अजन्ममयवासनम् । सत्त्वम् इत्य् उच्यते तज्ज्ञैस् तत्स्थास् सत्त्वपदे स्थिताः
सत्त्वस्था ज्ञानदहनैर् दग्धवासनतां गताः । जीवाẖ क्षीणाḫ प्रयच्छन्ति न संसाराङ्कुरं पुनः
चित्तस्थैर् अथ सत्त्वस्थैर् एतैर् या नावबुध्यते । सप्तमीभूमिका सैषा विदेहा मुक्ततोच्यते
एतास् ता भूमिकाḫ प्रोक्ता मया तव रघूद्वह । आसाम् अभ्यासयोगेन न दुẖखम् अनुभूयते
एतासु भूमिषु पदं कुरु कारणज्ञ कार्यान्तराण्य् अविकलानि निजानि कुर्वन् । जीवन् विमुक्त इह तिष्ठ चिरं ततो ऽन्ते भूत्वा विदेह उदितं पदम् एकम् आस्स्व
अस्त्य् अनन्ता सदा मत्ता मृदुमन्थरचारिणी । करिणी विग्रहव्यग्रा महादशनशालिनी
सा चेन् निहन्यते नूनम् अनर्थानर्थकारिणी । तद् एतासु समग्रासु भूमिकासु नरो जयी
करिणी मदसम्मत्ता यावत् सा न विजीयते । को नाम सुभटस् तावज् जयेत् स मरभूमिषु
कासौ प्रमत्ता करिणी काश् च ता रणभूमयः । कथं विहन्यते चैषा क्व चैषा रचितस्थितिः
रामेच्छा नाम करिणी सेदम् अस्त्व् इतिरूपिणी । शरीरकानने मत्ता विविधोल्लासकारिणी
मत्तेन्द्रियोग्रकलभा रसनाकलभाषिणी । मनोगहनसंलीना स्वेहावंशविहारिणी
एतया कर्मबृंहाभिर् बृंह्यते प्रतिकाननम् । देहाख्यमदनद्यो यास् तासां प्रविसृता इव
सुखदुẖखे सुरभयḫ पृषतस् स्पन्दसम्पदः । कल्लोला एव कल्लोलास् तटौ सुकृतदुष्कृते
स्वकर्माण्य् उरुकूलानि शुभान्य् अप्य् अशुभानि च । भावाभावा भवावर्ता वृत्तयḫ परिवर्तुलाः
ऊर्ध्वाधोगतयो मत्ता मूलाग्राणि महान्त्य् अपि । विलासगतयो ऽनन्ता भवभूमिगमागमाः
मरणं बिससञ्चारो जीवितं फेनसन्ततिः । महोर्मयẖ क्रियाकारास् तृष्णा उपसरिद्रयाः
स्वर्गẖ कलमसस्यादि नरकं पङ्कपीठिकाः । पुत्रदाराश् शफरिका मकरा भोगभूमयः
दुर्ग्रहा विषमग्राहा धनान्य् उपलपङ्क्तयः । परलोको महाम्भोधिर् आधयो वीचिमण्डलम्
ताभिर् मदनदीभिस् सा हृदयान्तरचारिणी । इच्छानागी निहन्त्य् एतान् कृपणाञ् जीवजीवकान्
वासनेहा मनश् चित्तं सङ्कल्पो भावनं स्पृहा । इत्यादिर् निवहो नाम्नाम् अस्यास् स्वाशयकोशगः
धैर्यपद्माकरोन्माथे प्रसृताम् अर्थहेलया । नागीं सर्वात्मिकाम् एनाम् इच्छां सर्वात्मना जयेत्
यावद् अस्त्व् इदम् इत्य् एव विषम् अन्तर् विजृम्भते । तावद् उग्राẖ कुसंसारमहाविषविषूचिकाः
तावत् कार्पण्यमिहिका यावद् इच्छाभ्रमण्डली । अस्यां व्यपगतायां तु भाति जीवश् शरन्नभः
एतावान् एव संसार इदम् अस्त्व् इति यन् मतिः । अस्यास् तूपशमो मोक्ष इत्य् एव ज्ञानसङ्ग्रहः
इदम् अस्त्व् इति मूढस्य दुर्ग्रहग्रहगर्धिनः । कल्लोलाḫ परिवर्तन्ते नद्य इव घनागमे
इच्छोत्तानमतेर् नान्तर् उपदेशो मनाग् अपि । विश्रान्तिम् एति मकुरे मुक्ताफलम् इवातलम्
प्रसादकारिणी स्वच्छा निरिच्छे विमलाकृतौ । तैलबिन्दुर् इवादर्शे विश्राम्यत्य् उपदेशवाक्