किञ्चिद् एवैष सम्पन्नẖ को ऽपि वा वा न किञ्चन । शुद्धं वेदनमात्रं वा किञ्चिद् वा ज्ञप्तिर् एव वा
सबाह्याभ्यन्तरं नान्यद् एकम् एव पदार्थवत् । स्थितो दूरे ऽप्य् अदूरे च प्रसृतानन्ततन्तुवत्
स बह्वीष्व् अप्य् अवस्थासु नित्यैकात्मा समो ऽमलः । संशान्तगुणभेदश्रीर् महाकाल इवाकलः
अजम् अमरम् अनाद्यं बुद्धम् आद्यन्तशुद्धं शिवम् अमलम् अजल्पं सर्वगं शान्तम् एकम् । बहिर् अबहिर् अपीशं ज्ञं विनिर्माणम् अग्र्यं कम् अपि तम् उपगम्यं सारम् आभासम् आहुः
अहन्तादेहताद्यर्थश् चिरम् एव लयं गतः । जीवन्मुक्तस्य तेनासौ ज्ञो ऽपि व्योम्नैकतां गतः
अगम्या वचसां सा तु सा सीमा भवभूमिषु । संसारसरसḫ पारम् अपारस्येह सा परम्
कैश्चित् सा शिव इत्य् उक्ता कैश्चिद् ब्रह्मेत्य् उदाहृता । कैश्चिज् ज्ञप्तिर् इति प्रोक्ता कैश्चिच् छून्यम् इति स्मृता
अर्थ इत्य् ऊहिता कैश्चित् कैश्चित् काल इति श्रिता । कैश्चित् प्रकृतिपुंभावविभाग इति भाविता
अन्यैर् अप्य् अन्यथा नानाभेदैर् आत्मविकल्पितैः । नित्यम् अव्यपदेश्यापि किलान्यैवोपदिश्यते
विदेहमुक्तैर् एवैषा विदेहैकान्तमुक्तता । बुध्यते तादृशैर् एव समनस्कैस् तु नेतरैः
न सत्त्वस्थैर् न चित्तस्थैẖ कैश्चिद् एवावगम्यते । विदेहमुक्तत्वम् ऋते विदेहा मुक्ततेति हि
असंसक्तधियो ये हि ज्ञत्वात् प्रक्षीणवासनाः । तृतीयां भूमिकां प्राप्तास् तेषां चित्तं न विद्यते
अज्ञत्वे घनभावत्वं चित्तम् आहुर् मनीषिणः । पुनर्जन्मान्तरकरं कारणं भवभूरुहाम्
ज्ञत्वात् क्षीणरसं चित्तम् अजन्ममयवासनम् । सत्त्वम् इत्य् उच्यते तज्ज्ञैस् तत्स्थास् सत्त्वपदे स्थिताः
सत्त्वस्था ज्ञानदहनैर् दग्धवासनतां गताः । जीवाẖ क्षीणाḫ प्रयच्छन्ति न संसाराङ्कुरं पुनः
चित्तस्थैर् अथ सत्त्वस्थैर् एतैर् या नावबुध्यते । सप्तमीभूमिका सैषा विदेहा मुक्ततोच्यते
एतास् ता भूमिकाḫ प्रोक्ता मया तव रघूद्वह । आसाम् अभ्यासयोगेन न दुẖखम् अनुभूयते
एतासु भूमिषु पदं कुरु कारणज्ञ कार्यान्तराण्य् अविकलानि निजानि कुर्वन् । जीवन् विमुक्त इह तिष्ठ चिरं ततो ऽन्ते भूत्वा विदेह उदितं पदम् एकम् आस्स्व
अस्त्य् अनन्ता सदा मत्ता मृदुमन्थरचारिणी । करिणी विग्रहव्यग्रा महादशनशालिनी
सा चेन् निहन्यते नूनम् अनर्थानर्थकारिणी । तद् एतासु समग्रासु भूमिकासु नरो जयी
करिणी मदसम्मत्ता यावत् सा न विजीयते । को नाम सुभटस् तावज् जयेत् स मरभूमिषु
कासौ प्रमत्ता करिणी काश् च ता रणभूमयः । कथं विहन्यते चैषा क्व चैषा रचितस्थितिः
रामेच्छा नाम करिणी सेदम् अस्त्व् इतिरूपिणी । शरीरकानने मत्ता विविधोल्लासकारिणी
मत्तेन्द्रियोग्रकलभा रसनाकलभाषिणी । मनोगहनसंलीना स्वेहावंशविहारिणी
एतया कर्मबृंहाभिर् बृंह्यते प्रतिकाननम् । देहाख्यमदनद्यो यास् तासां प्रविसृता इव
सुखदुẖखे सुरभयḫ पृषतस् स्पन्दसम्पदः । कल्लोला एव कल्लोलास् तटौ सुकृतदुष्कृते
स्वकर्माण्य् उरुकूलानि शुभान्य् अप्य् अशुभानि च । भावाभावा भवावर्ता वृत्तयḫ परिवर्तुलाः
ऊर्ध्वाधोगतयो मत्ता मूलाग्राणि महान्त्य् अपि । विलासगतयो ऽनन्ता भवभूमिगमागमाः
मरणं बिससञ्चारो जीवितं फेनसन्ततिः । महोर्मयẖ क्रियाकारास् तृष्णा उपसरिद्रयाः
स्वर्गẖ कलमसस्यादि नरकं पङ्कपीठिकाः । पुत्रदाराश् शफरिका मकरा भोगभूमयः