जीवन्मुक्तो गतरसो निर्भेदो ऽम्बरसुन्दरः । अनिर्वाणो ऽपि निर्वाणश् चित्रदीप इव स्थिरः
अवासनत्वाद् वैरस्यान् न किञ्चन करोत्य् असौ । करोत्य् एवंस्थितिर् यच् च तत्राकर्तैव काष्ठवत्
सम्यग्दर्शनसम्पन्नो जीवन्मुक्तपदं गतः । यथास्थितम् इदं पश्यन् कर्मभिर् न निबध्यते
कुर्वन् न किञ्चित् कुरुते गन्तापि च न गच्छति । भुञ्जानो ऽपि च नो भुङ्क्ते वक्तापि च न वक्त्य् असौ
जाग्रति स्वप्नदृष्टस्य पुंसẖ कर्तृत्वभोक्तृते । यादृश्यौ तत्स्थिती विद्धि जीवन्मुक्तस्य राघव
समश् शान्तमतिर् मौनी जीवन्मुक्तो विवासनः । द्रष्टारं दर्शनं दृश्यम् आकाशम् इव पश्यति
निर्वाणमतिर् आत्मानं परं चाद्रिम् अणुं तनुम् । श्वानं ब्राह्मणम् आदित्यं सर्वं खम् इव पश्यति
सम्पन्नश् शान्तम् आभासं परम् एकम् अकृत्रिमम् । क्वास्तम् एतु क्व वोदेतु कीदृग्वपुर् असाव् इह
प्रज्ञाप्रासादम् आरूढस् त्व् अशोच्यश् शोचते जनान् । भूमिष्ठान् इव शैलस्थस् सर्वान् प्राज्ञो ऽनुपश्यति
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिद् अर्थव्यपाश्रयः
जले जलम् इव क्षिप्तं ब्रह्मण्य् एवैकतां गतः । गलितद्वैतनिर्भासो जाग्रत्य् एव सुषुप्तकम्
चराचरम् इदं विष्वक् चेतमानो न चेतति । भेदम् अस्तङ्गताहन्त्वḫ पश्यन्न् अपि न पश्यति
भग्नस्थालीघटाकाशम् इव खे मिलितḫ परे । समाम् एकाम् असद्रूपां शान्ताम् उपगतो दशाम्
अनिर्वाणो ऽपि निर्वाणो बालवत् प्रविचेष्टते । हेयोपादेयतामुक्तो जीवन्मुक्तḫ प्रतिष्ठते
समग्रगतम् अप्य् अन्ता रागद्वेषभवामयाः । नाकाशम् इव चेतन्ते समस्ता मृगपक्षिणः
संशान्ताहन्त्वनीहारḫ प्रसन्नवितताकृतिः । अशून्यम् इव शून्यात्म शरत्खम् इव राजते
क्षीवतायां प्रशान्तायाम् इव सोम्यत्वम् आगतः । भूतले गाढनिद्रस् सन् स्वर्गं नीत इवोदितः
आनन्दैकनिमग्नत्वाद् अनानन्दपदं गतः । केवलं ज्ञप्तिरूपत्वाद् अज्ञप्तिर् इव संस्थितः
निर्मन्दर इवाम्भोधिर् दग्धदाह्य इवानलः । शान्तभ्रमं चक्रम् इव स्वात्मन्य् एव शमं गतः
त्वष्ट्रेव यन्त्रोल्लिखितस् सो ऽपूर्वाकारतां गतः । ऋत्वन्तरे द्रुम इव स एवान्यतयोदितः
उपशान्तश् च कान्तश् च दीप्तो ऽप्य् आलोकसुन्दरः । चन्द्रबिम्बाद् इवोत्कीर्णस् सोम्य आह्लादकारकः
अन्तश्शून्यो बहिश्शून्यश् शून्यकुम्भ इवाम्बरे । अन्तḫपूर्णो बहिḫपूर्णḫ पूर्णकुम्भ इवार्णवे
विक्रियादिविनिर्मुक्तस् सन्त्यक्तो मरणाद् इव । महाव्याधेर् इवोत्तीर्णस् तीर्णापूर्णभवार्णवः
दीर्घाध्वश्रमखिन्नात्मा सुखसुप्त इवाक्षयम् । प्रबुद्ध इति निद्रालुर् इव दृश्ये प्रसुप्तधीः
सबाह्याभ्यन्तरं शीतस् तुषाराद् इव निर्मितः । सबाह्याभ्यन्तरं पूर्ण आलोकेनामलाम्ब्व् इव
सबाह्याभ्यन्तरं स्वच्छẖ कचन् मणिर् इवात्मनि । सबाह्याभ्यन्तरं शून्यो नभसेव विनिर्मितः
निर्मनस्कतया जित्वा संस्थितस् सालभञ्जिकाम् । यन्त्राकृतिर् इव स्वैरं स्पन्दिकर्मेन्द्रियव्रजः
स्याम् इत्य् अन्तर् अहन्तात्मसत्तास्नेहपरिक्षयात् । जीवदीपो विनिर्वाण आत्मन्य् एव स लीयते
नित्यतृप्तो निरानन्दो निर्दुẖखो निरुपाश्रयः । निस्सङ्गो निरभिप्रायो ज्ञो ऽनीहो नावबध्यते
नास्य देहो न कर्मादि न दृश्यद्रष्टृदर्शनम् । न जीवितं न मरणं नासन् न सदसन् न सत्