अत्यन्तापूर्वसंस्थानं देशान्तरम् इवाल्पधीः । अशून्यं शून्यम् एवाति ज्ञḫ पश्यति जगत्त्रयम्
अनूढम् उह्यमानात्म स्थिरं चलम् असच् च सत् । सरिद्बिम्बस्थपुरवज् ज्ञḫ पश्यति जगत्त्रयम्
प्रतिबिम्बितम् अम्भोधाव् इव निर्मज्जद् एव वा । चलिते शफरस्पन्दाज् ज्ञḫ पश्यति जगत्त्रयम्
जात्यन्धरूपानुभवम् इव नासन् न सन्मयम् । अन्धप्राग्दृष्टरूपाभं ज्ञḫ पश्यति जगत्त्रयम्
मसृणैकमहाभित्तौ सङ्कल्पोल्लिखितात्मकम् । चित्रसैन्यम् इवाभाति जगज् ज्ञं प्रत्य् अरोधकम्
आकाशभित्तिलिखितम् अलब्धम् अपि वायुना । चित्तचित्रकृतश् चित्रं ज्ञḫ पश्यति जगत्त्रयम्
दृश्ये पतत्य् अदृश्ये ऽपि परयत्नावबोधितः । बहिर् द्रष्टैव नान्तर् ज्ञो हृदयेनापराजितः
विच्छिन्नशरदभ्रांशविलयं प्रविलीयते । सत्तावशेष एवास्ते पञ्चमीं भूमिकाम् इतः
समस्तशब्दशब्दार्थभावनाभावनात्मकम् । बीजाङ्कुरसमुत्सेधसत्तासुषमम् आस्यताम्
अनहन्तादिमननं समं सर्वगतं स्थिरम् । अवेद्यवेदनं पुष्पविकाससमम् आस्यताम्
अद्वैतैक्यं समं शान्तं विज्ञानैकघनं परम् । आकाशकोशविशदं ज्ञḫ पश्यन् न विनश्यति
भेदबुद्ध्या पुरात्तानां सम्प्रत्य् अद्वयभावनम् । स्थिरीकुर्वन् पदार्थानां समम् आस्ते सुषुप्तवत्
सुषुप्तघनविज्ञानभासुरावरणक्षयः । नास्तम् एति न चोदेति न तिष्ठति न गच्छति
गलितद्वैतनिर्भासम् उदितो ऽन्तḫ प्रबोधवान् । सुषुप्तघनम् एवास्ते पञ्चमीं भूमिकाम् इतः
अहन्त्वं चेतमानस्य न कदाचन शाम्यति । हृत्पद्मकोशभ्रमरी संसृत्याख्याविषूचिका
अमनोबुद्ध्यहङ्कारम् आवर्तादि यथा पयः । संवेत्ति देशकालादि तथा ब्रह्म जगत्त्रयम्
अहन्त्वं चेतमानस्य न कदाचन शाम्यति । अहन्त्वतिलतैलश्रीस् संसारोग्रविषूचिका
अहन्त्वमुकुलस्यान्तर् यत् स्वं संसारसौरभम् । तद् अस्य सविकासस्य बहिर् दृश्यतया स्थितम्
न यथा पद्मसौगन्ध्ये व्यतिरिक्ते कदाचन । अहन्त्वदृश्ये न तथा व्यतिरिक्ते कदाचन
अहन्त्वं स्वस्वरूपस्य द्रष्टृदृश्यमयात्मनी । अन्तर् बहिर् इति स्वैरं कृतवन् नाम नामनी
प्रेक्षितं सन् न चाहन्त्वं नान्तर् न बहिर् अस्ति च । मायैषा भात्य् असद्रूपा स्वालोचनपलायिनी
यद् असन् मृगतृष्णाम्बु भासते तत् परीक्षितम् । कथं विलाप्यते तद्वद् एवाहन्तादिविभ्रमः
द्रष्टा दृश्यं दर्शनं च मृगतृष्णाम्ब्व् इति त्रयम् । नास्ति कस्यचिद् एवातश् शान्तं शिवम् इदं ततम्
इति निश्चयवान् ऐक्यद्वैतातीतवपुश् शिवम् । समम् आस्ते महासत्त्वḫ पञ्चमीं भूमिकाम् इतः
अन्तर्मुखतया तिष्ठन् बहिर्वृत्तिपरो ऽपि सन् । परिशान्ततया नित्यं निद्रालुर् इव लक्ष्यते
लोकसंव्यवहारे ऽस्मिन् नान्तर् न व्योम्नि नो बहिः । रमते ऽथ भ्रमति वा व्योमरूपो गलन्मनाः
सुषुप्तवज् जाग्रति दृश्यविभ्रमं त्व् अभावयन् भावपरिक्षयोदयी । चितित्वम् अप्य् अन्तरसंविदन्न् इदं प्रतिष्ठते चित्रनरोपमो बुधः
कुर्वन्न् अभ्यासम् एतस्यां भूमिकायां विवासनः । षष्ठीं तुर्याभिधाम् अन्यां क्रमात् पतति भूमिकाम्
यत्र नासन् न सद्रूपो नाहं नाप्य् अनहङ्कृतिः । केवलं क्षीणमननं तद् आस्ते गतवासनः
निर्ग्रन्थिश् शान्तसद्रूपो जीवन्मुक्तो विभावनः । सकृद्विभाता विमलम् आस्ते द्वैतैक्यनिर्गतः