नीहारसदृशं दूराद् दृश्यमानबृहद्वपुः । नकिञ्चिन् निपुणालोके ज्ञḫ पश्यति जगत्त्रयम्
शरदभ्रसमं स्फारम् आमृष्टं सन् नकिञ्चन । नकार्यकारि शून्यात्म ज्ञḫ पश्यति जगत्त्रयम्
परामर्शासहानेकरागनिर्मितमण्डलम् । बर्हिबर्हसमाकारं ज्ञḫ पश्यति जगत्त्रयम्
अविद्यमानं भ्रमदं प्रेक्षितं प्रशमं गतम् । त्रस्तबालकयक्षाभं ज्ञḫ पश्यति जगत्त्रयम्
विस्तीर्णम् अप्य् अनाक्रान्तदेशं पश्यति सर्गकम् । आख्यायिकारम्भम् इव चतुर्थीं भूमिकाम् इतः
अस्पृष्टदेशकालांशम् असत्यम् इव सत्यवत् । महारवं मौनमयं महारम्भम् अपक्रियम्
स्थूलं कर्मेन्द्रियालभ्यं जगत् पश्यत्य् असद्वपुः । सङ्कल्पसैन्यसङ्काशं चतुर्थीं भूमिकाम् इतः
चित्तभित्तिगतं भावि चित्रतन्त्रम् इव स्थितम् । पश्यत्य् असर्गकं सर्वं चतुर्थीं भूमिकाम् इतः
इन्द्रजालजलादर्शप्रतिबिम्बम् इवास्थितम् । सर्गं सदानुभवति चतुर्थीं भूमिकाम् इतः
द्रव्यभावक्रियेहानाम् अज्ञत्वान् मूकतां गतः । दुर्देशम् इव विक्रीतो ज्ञḫ पश्यति जगत्त्रयम्
अत्यन्तापूर्वसंस्थानं देशान्तरम् इवाल्पधीः । अशून्यं शून्यम् एवाति ज्ञḫ पश्यति जगत्त्रयम्
अनूढम् उह्यमानात्म स्थिरं चलम् असच् च सत् । सरिद्बिम्बस्थपुरवज् ज्ञḫ पश्यति जगत्त्रयम्
प्रतिबिम्बितम् अम्भोधाव् इव निर्मज्जद् एव वा । चलिते शफरस्पन्दाज् ज्ञḫ पश्यति जगत्त्रयम्
जात्यन्धरूपानुभवम् इव नासन् न सन्मयम् । अन्धप्राग्दृष्टरूपाभं ज्ञḫ पश्यति जगत्त्रयम्
मसृणैकमहाभित्तौ सङ्कल्पोल्लिखितात्मकम् । चित्रसैन्यम् इवाभाति जगज् ज्ञं प्रत्य् अरोधकम्
आकाशभित्तिलिखितम् अलब्धम् अपि वायुना । चित्तचित्रकृतश् चित्रं ज्ञḫ पश्यति जगत्त्रयम्
दृश्ये पतत्य् अदृश्ये ऽपि परयत्नावबोधितः । बहिर् द्रष्टैव नान्तर् ज्ञो हृदयेनापराजितः
विच्छिन्नशरदभ्रांशविलयं प्रविलीयते । सत्तावशेष एवास्ते पञ्चमीं भूमिकाम् इतः
समस्तशब्दशब्दार्थभावनाभावनात्मकम् । बीजाङ्कुरसमुत्सेधसत्तासुषमम् आस्यताम्
अनहन्तादिमननं समं सर्वगतं स्थिरम् । अवेद्यवेदनं पुष्पविकाससमम् आस्यताम्
अद्वैतैक्यं समं शान्तं विज्ञानैकघनं परम् । आकाशकोशविशदं ज्ञḫ पश्यन् न विनश्यति
भेदबुद्ध्या पुरात्तानां सम्प्रत्य् अद्वयभावनम् । स्थिरीकुर्वन् पदार्थानां समम् आस्ते सुषुप्तवत्
सुषुप्तघनविज्ञानभासुरावरणक्षयः । नास्तम् एति न चोदेति न तिष्ठति न गच्छति
गलितद्वैतनिर्भासम् उदितो ऽन्तḫ प्रबोधवान् । सुषुप्तघनम् एवास्ते पञ्चमीं भूमिकाम् इतः
अहन्त्वं चेतमानस्य न कदाचन शाम्यति । हृत्पद्मकोशभ्रमरी संसृत्याख्याविषूचिका
अमनोबुद्ध्यहङ्कारम् आवर्तादि यथा पयः । संवेत्ति देशकालादि तथा ब्रह्म जगत्त्रयम्
अहन्त्वं चेतमानस्य न कदाचन शाम्यति । अहन्त्वतिलतैलश्रीस् संसारोग्रविषूचिका
अहन्त्वमुकुलस्यान्तर् यत् स्वं संसारसौरभम् । तद् अस्य सविकासस्य बहिर् दृश्यतया स्थितम्
न यथा पद्मसौगन्ध्ये व्यतिरिक्ते कदाचन । अहन्त्वदृश्ये न तथा व्यतिरिक्ते कदाचन
अहन्त्वं स्वस्वरूपस्य द्रष्टृदृश्यमयात्मनी । अन्तर् बहिर् इति स्वैरं कृतवन् नाम नामनी