निर्विभागम् अनाद्यन्तं योगिनो युक्तचेतसः । समं सर्वं प्रपश्यन्ति चतुर्थीं भूमिकाम् इताः
अद्वैते स्थैर्यम् आयाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल् लोकं चतुर्थीं भूमिकाम् इताः
भेदे त्व् अप्रसृतप्रज्ञा अभेदे शान्तबुद्धयः । ईषच्छेषविदो भान्ति चतुर्थीं भूमिकाम् इताः
ईषच्छेषातिविलया अर्धसुप्ताभसंविदः । बालका इव चेष्टन्ते चतुर्थीं भूमिकाम् इताः
भूभृताम् इव काठिन्यम् अर्करश्मिघनोपमम् । पश्यन्ति कल्पनांशात्म चतुर्थीं भूमिकाम् इताः
ईप्सितानीप्सितानर्थैर् जगद् दुẖखे निमज्जति । तन् मनाग् अपि नोपैति चतुर्थीं भूमिकाम् इतः
भूमिकात्रितयं यावत् तावज् जाग्रद् इति स्थितम् । चतुर्थीं भूमिकां प्राप्य स्वप्नाभं दृश्यते जगत्
उत्तमप्रतिबिम्बाभम् अव्यवस्थिति भङ्गुरम् । दृश्यं द्रष्टा न जानाति चतुर्थीं भूमिकाम् इतः
जाग्रत्स्वप्नसुषुप्तानां यथावद् ब्रूहि लक्षणम् । तुर्यस्य तुर्यातीतस्य मुने यदि न खिद्यसे
अपरामृष्टतत्त्वस्य यत् पदार्थैकभावनम् । अम्लानं तद् भवेज् जाग्रद् असद् अस्तु सद् अस्तु वा
भाविन्या क्षणविध्वंसधियानुत्फुल्लरूपया । असत्यप्रत्ययतया युक्तं गर्भनिषण्णया
जाग्रद् एवानुभूतं यद् असत्यं सत्यम् एव वा । म्लानम् आबिलबुद्धित्वात् स्वप्नम् आहुस् तम् उत्तमाः
जाग्रत्स्वप्नानुभवयोर् अवश्यम्भाविनोḫ पुनः । कम् अप्य् अस्तमयẖ कालं यस् तम् आहुः सुषुप्तकम्
बुद्धत्वाच् छान्तभेदं यद् अजाग्रत्स्वप्नम् अक्षयम् । असुषुप्तं स्थितं स्वच्छं तत् तुर्यम् इति कथ्यते
यत् परामृष्टतत्त्वानाम् अपदार्थविभावनम् । अवस्थात्रयनिर्मुक्तं तत् तुरीयम् इति स्थितम्
एतद्दशात्रयं पूर्वं सर्वेणैवानुभूयते । जीवन्मुक्ताद् ऋते त्व् एषा तुर्यावस्था न लभ्यते
सम्यग्ज्ञानवतैवान्तर् अवस्थात्रितयक्षये । चिदाकाशात्मनाच्छेन तुर्यावस्थानुभूयते
विदेहमुक्तैर् यावस्था तुर्यातीतानुभूयते । तुर्यस्थितिचिराभ्यासैर् न वाग्गोचरम् एति सा
न जीवन्मुक्तविषया तुर्यातीतदशा यतः । ततो ऽस्याẖ कथनं नास्ति ब्रह्मत्वाद् इतरत् क्वचित्
न स्वप्नसुप्तताजाग्रत्कारणं कार्यकोविद । जाग्रत्स्वप्नसुषुप्तानां परम् एव हि तिष्ठति
जाग्रत् स्वप्नत्वम् आयाति बुद्धिश्यामलतावशात् । स्वप्नश् च जाग्रद् भवति बुद्धिनिर्मलतोदयात्
घनमोहतया जाग्रद् अपि याति सुषुप्तताम् । स्वप्नश् चापि तथैवैष स्वभावो राम संसृतेः
निद्रालोर् अप्य् अनिद्रालो राघवैतद् दशात्रयम् । भवत्य् आ तुर्यसम्प्राप्तेẖ क्रमान् नो तुल्यकालतः
तुर्यावस्थस्य चाभ्यासाद् अवस्थात्रितयं शनैः । शाम्यति प्रौढरूपायां शरदीव घनभ्रमः
तुर्यावस्थास्थितो भूयो नावस्थात्रयम् एति हि । जीवन्न् अपि चिरं भृष्टं बीजम् अङ्कुरताम् इव
भासुराकारम् अस्कन्धस्तम्भशाखादलादिकम् । छायावृक्षं जगद् वेत्ति चतुर्थीं भूमिकाम् इतः
अर्थशून्यसमारम्भं दृश्यमानम् असन्मयम् । बालेनेव कृतं पङ्काज् ज्ञḫ पश्यति जगत्त्रयम्
नानेवैताम् अनानात्तां तरङ्गरचनाम् इव । निर्वासनां स्पन्दमयीं ज्ञḫ पश्यति जगत्स्थितिम्
अदृष्टम् इतराचारं श्रुतं दूरे क्षणक्षयम् । अज्ञो देशम् इवापूर्वं तज्ज्ञस् सर्वं प्रपश्यति
अजिह्वस्वप्नकथनं भावनानुभवोपमम् । भ्रमाभ्रमात्रं विभ्रान्तं ज्ञḫ पश्यति जगत्त्रयम्