अयं मृतो ऽहम् अस्मीति जीवो भावितभावनः । अजातो म्रियते ऽन्यत्र जातो ऽस्मीत्य् अवगच्छति
देशकालक्रियाद्रव्यराशीन् स्वमननात्मकान् । जीवको ऽनुभवत्य् अन्तर् जलं द्रवरयान् इव
प्रमाणातीतचिद्रूपरूपत्वाज् जीवको ऽप्य् असन् । तेनानुभाव्यानुभवौ न सन्तौ नानुभावकः
असत्यम् एव सत्याभं जीवस् स्वप्रतिभात्मकम् । सभूम्यम्बरशैलार्कं वपुḫ पश्यति वा न वा
जीवḫ पश्यति चेद् एतत् तद् अनर्थविजृम्भणा । न चेत् पश्यति चात्मैव तत् परोपशमश् शिवः
निरस्तशास्त्रार्थविचारचापलं विलीननानाकुलकार्यगौरवम् । असम्भवत्सानुभवोद्भवभ्रमं प्रशान्तनिर्वाणम् अशेषम् ईश्वरः
सतासता वा जीवेन केनाप्य् अन्येन वा गुरो । तथा न केनचिद् वापि देहेनैवाथ वापि च
भावितं पिण्डदानादेḫ फलं यद्य् अनुभूयते । तदाकर्तुर् न दोषेण सम्बन्ध इति मे मतिः
अकर्तुḫ पिण्डदानादेẖ क्रियापीठस्य सन्मते । विरोधभावनं चित्तात् क्व गच्छति वदाशु मे
परस्परानपेक्षित्वात् क्रियात्यागात् प्रजाहितम् । भवेत् तेनेह संयोगो जायते महतैनसा
अहम् इत्य् एव यस्यास्ति संवित् तस्यास्ति चित्तभूः । यत्र यत् पतितं बीजं तद् अवश्यं प्ररोहति
ज्ञानाद् ऋते विमूढस्य बालस्य च सचेतसः । सत्यं समस्तम् एवेदम् आ सर्गनियतिक्रमात्
मृतेन जीवता वापि सर्वẖ कर्तव्यताक्रमः । भावितस् तेन सर्वत्र स हि सर्वफलप्रदः
एवं चेत् तत् सुरगुरो न किञ्चिद् येन भावितम् । पाषाणेनेव मनसा स मुक्त इति वेद्म्य् अहम्
न किञ्चिद् भावितं येन दृषज्जाड्ये तु तिष्ठता । स मुक्तो नात्र सन्देहो मुक्तिẖ केवलतैव हि
नकिञ्चिद्भावनं जन्तोर् जीवतो नोपपद्यते । ज्ञानाद् ऋते जीवतैव किल किञ्चिन्मयी यतः
यया कयाचिद् वा युक्त्या नकिञ्चिद्भावनं यदि । नूनं रूढम् अरूढस्य तत् प्राप्यं नावशिष्यते
इत्थं पुरा सुरपुरे ऽसुरनायकस्य रामैवमुत्तमविदा गुरुणा सुराणाम् । तत् ते मयाद्य कथितं कथयानयेह पिण्डादिदानकृतचारु विचारयेति
सत्यं भवत्व् असत्यं वाप्य् असतापि सतापि वा । चेतसेषद् अपि स्पृष्टम् अवश्यम् अनुभूयते
सद्यẖ कालान्तरे वापि सकृद् दृष्टं हि चेतसा । द्रवत्वम् अम्भसेवान्तर् अवश्यम् अनुभूयते
कालान्तरविसार्य् अन्तस् सकृद् दृष्टं दधन् मनः । विस्मृत्य तिष्ठति जडं बर्ह्यण्डरसपिण्डवत्
विना ज्ञानाग्निदाहेन न कदाचिन् निवर्तते । चित्तात् सकृद्गृहीतो ऽर्थो नीलीराग इवाम्बरात्
न चास्त्य् अवासनं चित्तम् अकार्ष्ण्यम् इव कज्जलम् । जगत्पदार्थसार्थात्मा वासनौघो मनोऽभिधः
न चास्य लभ्यते सत्ता चेतसẖ काचिद् ईक्षिता । तिमिरस्येव दीपेन तदसत्तैव शिष्यते
नातश् चित्तं न चैत्तादि विद्म इत्येवमात्रकम् । विद्धि ज्ञानम् अनेनैषा शाम्येद् भवविषूचिका
ख एवाहन्त्वम् उदितं शून्यत्वम् इव तन् मनः । नोदितं तद् इति ज्ञप्तेर् मनश्शान्त्योपशाम्यति
मनḫप्रशमनोपायो योग इत्य् अभिधीयते । सप्तभूमिस् तु स प्रोक्तस् तत्र भूमिक्रमं शृणु
भूमिकानां त्रयं प्रोक्तं तव राम यथाक्रमम् । भूमिकात्रितयस्था ये ते महापुरुषास् स्मृताः
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर् विमुक्तास् सुखदुẖखसारैर् भवन्ति भूमित्रयम् अभ्युपेताः
भूमिकात्रितयाभ्यासाद् अज्ञाने क्षयम् आगते । सम्यग्ज्ञानोदये चित्ते पूर्णचन्द्रोदयोपमे