जीवितप्रतिभासो ऽथ मरणप्रतिभासनम् । अन्यताप्रतिभासाश् च जीवस्यैव व्यवस्थिताः
न देहḫ परमार्थेन विद्यते न च भूतता । असद् एवेदम् आभाति सद् इव भ्रममात्रकम्
वेदनं विद्धि संसारम् अवेदनम् असंसृतिम् । जीवो यादृक्संसृतिस् स्यात् तादृग् एव च चेतति
एतावन्मात्रकैवेयं युक्तिर् उक्ता मनीषिभिः । अनुभूयत एवैतत् किम् एतावति विभ्रमः
जीवे ऽन्तर् अस्ति संसारस् तिले तैलम् इवाबिलम् । न संसारान्तरे जीवस् स्वप्नादाव् इति दृश्यते
कटकत्वं सुवर्णे ऽस्ति कटकत्वे न हेमता । अविचारणयास्त्य् एतत् प्रेक्षया नेह विद्यते
अधिकप्रेक्षया कैश्चिन् न हेमाप्य् अनुभूयते । अतो न हेम नो जीवẖ कटकत्वं च नाङ्ग सत्
यद् अन्तर् अस्ति तद् राजन्न् अन्तर् एवानुभूयते । मनाग् अप्य् अत्र नो बाह्यसाधनाद्य् उपयुज्यते
मृगतृष्णाम्बु जीवादि तत्समाश् चानुभूतयः । वेदनावेदनाद्यास् तद् यच् छिष्टं तद् अवाग्गति
भ्रम एवोदितो मिथ्या भ्रमो मिथ्या विलीयते । शेषं शान्तम् अवाग्योग्यं यत् तद् अस्ति न चास्ति वा
अयं मृतो ऽहम् अस्मीति जीवो भावितभावनः । अजातो म्रियते ऽन्यत्र जातो ऽस्मीत्य् अवगच्छति
देशकालक्रियाद्रव्यराशीन् स्वमननात्मकान् । जीवको ऽनुभवत्य् अन्तर् जलं द्रवरयान् इव
प्रमाणातीतचिद्रूपरूपत्वाज् जीवको ऽप्य् असन् । तेनानुभाव्यानुभवौ न सन्तौ नानुभावकः
असत्यम् एव सत्याभं जीवस् स्वप्रतिभात्मकम् । सभूम्यम्बरशैलार्कं वपुḫ पश्यति वा न वा
जीवḫ पश्यति चेद् एतत् तद् अनर्थविजृम्भणा । न चेत् पश्यति चात्मैव तत् परोपशमश् शिवः
निरस्तशास्त्रार्थविचारचापलं विलीननानाकुलकार्यगौरवम् । असम्भवत्सानुभवोद्भवभ्रमं प्रशान्तनिर्वाणम् अशेषम् ईश्वरः
सतासता वा जीवेन केनाप्य् अन्येन वा गुरो । तथा न केनचिद् वापि देहेनैवाथ वापि च
भावितं पिण्डदानादेḫ फलं यद्य् अनुभूयते । तदाकर्तुर् न दोषेण सम्बन्ध इति मे मतिः
अकर्तुḫ पिण्डदानादेẖ क्रियापीठस्य सन्मते । विरोधभावनं चित्तात् क्व गच्छति वदाशु मे
परस्परानपेक्षित्वात् क्रियात्यागात् प्रजाहितम् । भवेत् तेनेह संयोगो जायते महतैनसा
अहम् इत्य् एव यस्यास्ति संवित् तस्यास्ति चित्तभूः । यत्र यत् पतितं बीजं तद् अवश्यं प्ररोहति
ज्ञानाद् ऋते विमूढस्य बालस्य च सचेतसः । सत्यं समस्तम् एवेदम् आ सर्गनियतिक्रमात्
मृतेन जीवता वापि सर्वẖ कर्तव्यताक्रमः । भावितस् तेन सर्वत्र स हि सर्वफलप्रदः
एवं चेत् तत् सुरगुरो न किञ्चिद् येन भावितम् । पाषाणेनेव मनसा स मुक्त इति वेद्म्य् अहम्
न किञ्चिद् भावितं येन दृषज्जाड्ये तु तिष्ठता । स मुक्तो नात्र सन्देहो मुक्तिẖ केवलतैव हि
नकिञ्चिद्भावनं जन्तोर् जीवतो नोपपद्यते । ज्ञानाद् ऋते जीवतैव किल किञ्चिन्मयी यतः
यया कयाचिद् वा युक्त्या नकिञ्चिद्भावनं यदि । नूनं रूढम् अरूढस्य तत् प्राप्यं नावशिष्यते
इत्थं पुरा सुरपुरे ऽसुरनायकस्य रामैवमुत्तमविदा गुरुणा सुराणाम् । तत् ते मयाद्य कथितं कथयानयेह पिण्डादिदानकृतचारु विचारयेति
सत्यं भवत्व् असत्यं वाप्य् असतापि सतापि वा । चेतसेषद् अपि स्पृष्टम् अवश्यम् अनुभूयते
सद्यẖ कालान्तरे वापि सकृद् दृष्टं हि चेतसा । द्रवत्वम् अम्भसेवान्तर् अवश्यम् अनुभूयते