अन्य आधारतां धत्ते पर आधेयताम् अपि । प्रयच्छत्य् आर्तवम् ऋतुकालश् चेद् ऋतुतां वहन्
एवं क्रमे विकसिते वस्तुसत्तानियामके । नियतिस् स्थिरताम् एति स्वयं निम्ने यथा पयः
वेदा इत्य् एव नियतेस् ततस् ते नाम तद्गताः । भावयन्त्य् अर्थरूपेण नियन्त्रितजगत्स्थितेः
जगत्स्थितेर् अथाकल्पं ज्ञानायापि च सिद्धये । स्थैर्याय चाशु नियतिं ते वेदा इति कल्पिताम्
शब्दराशिमयीं कृत्वा ब्रह्मविष्णुहरादयः । धारयन्ति चिरारूढां हृद्य् अर्थगणनाम् इव
तस्या वेदाभिधानायास् स्थितेर् अवयवा इमे । पिण्डदानादयस् तेन सैव रूढिम् उपागता
भावितास् ते यथाभावं फलन्ति मनसि स्थिताः । पक्षीवाण्डरसाच् चित्त्वात् कालेनोद्यन्ति सन्ति च
श्रुतिस्मृत्यर्थभावात्मा मृतो भावितम् अग्रगम् । सर्वं पश्यति सद्रूपं तच् च तस्य फलप्रदम्
श्रुतिस्मृतिगतिर् येन न मनाग् अपि भाविता । स मृतो मोहम् आयाति घनम् आत्मज्ञतां विना
मनाग् अपि च सा येन भाविता स मृतḫ पुमान् । तावन्मात्रफलं भुक्त्वा पुनर्जन्मनि जायते
श्रुतिस्मृतिगतिर् येन भाविता वा न भाविता । भाविता चात्मसत्तासौ मुक्त एव न संशयः
यच् चित्तभूमौ पतितं बीजम् आशु मनाग् अपि । तद् अवश्यं हि कालेन फलत्य् अविकलं फलम्
पिण्डादिदानस्य फलानि लोके श्रुत्वा मृतस् सन् पुरुषḫ पुरस्तात् । प्राप्नोति तान्य् अन्तर् अवश्यम् एव भुङ्क्ते यथाभावितम् एव चेतः
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् । संवादं दैत्यनाथस्य तथा देवगुरोḫ पुरा
अतीतषष्ठकल्पस्य पूर्वम् एकादशे मनौ । चतुर्युगे पञ्चदशे त्रेतायां वसुधातले
आसिद् दैत्यो बलो नाम साक्षाद् बलम् इवोद्धतम् । लसद्दर्पावदलितदैत्यदानवराक्षसः
उत्सादिताशेषपुरो भुक्ताशेषजनव्रजः । आक्रान्ताशेषभुवनो जिताशेषसुरेश्वरः
त्रैलोक्यं तेन निर्जित्य स्वीकृता वासवस्थितिः । क्षुण्णग्रामटिकेवैका देशे ऽराजनि दस्युना
शक्रस् सपरिवारो ऽस्य भृत्यताम् अनुजग्मिवान् । लोकपालाप्सरस्सिद्धविद्याधरगणैस् सह
स पालयञ् जगद्राज्यं हृत्वेन्द्रत्वं शचीपतेः । यथावद् अखिलं सम्यगाचारम् अनुतस्थिवान्
स कदाचित् सभासंस्थẖ कथाप्रस्तावतः क्वचित् । नरमृत्युकथामध्ये गुरुं पप्रच्छ वाक्पतिम्
भस्मीभूतस्य शान्तस्य पुनर् आगमनं कुतः । परलोकोपलम्भश् च शरीरेण विना कुतः
मृगतृष्णाम्बुवद् देहो जीवस्य प्रतिभासते । असत्यात्मा स्वसंवित्तेḫ पयसीव तरङ्गकः
न तत्त्वतो दह्यते ऽसौ जायते न च तत्त्वतः । न तत्त्वतश् च म्रियते दुẖखं चानुभवत्य् अति
यादृग्भावो भवत्य् एष जीवस् तत् फलम् अश्नुते । नासत्यत्वं न सत्यत्वं किञ्चिद् अस्योपयुज्यते
यया कयाचिद् युक्त्यैव राजन् भावनभावने । विनिवृत्ते क्व जीवत्वं बन्धमोक्षदृशौ क्व च
सदेहो ऽहं हि जीवामि चिरम् अप्य् उपलभ्य ह । चेतत्य् अहं मृतो ऽस्मीति जीवस् स्वप्न इवावपुः
पिण्डदानादिना भूयो भावितेनाशु पश्यति । जातो ऽस्मीति ततẖ कर्मभोक्तास्मीति च चेतति
इयं मृतिर् अयं व्याधिर् इदं मरणम् आगतम् । इदं जीवितम् एता मे योनयस् सुखदुẖखदाः
इत्य् अन्तश् चेतति पुमाञ् जलद्रवविवृत्तिवत् । अभावितं भावितं च स्वचमत्कारजं च तत्