सुविस्मृतविलासासु स्थितासु ललनास्व् अपि । चित्रभित्ताव् इव न्यस्ते समस्ते राजसद्मनि
मुहूर्तशेषम् अभवद् दिवसं मधुरातपम् । व्यवहारो रविकरैस् सह तानवम् आययौ
ववुर् उत्फुल्लकमलप्रकरोन्मदमांसलाः । वायवो मधुरस्पन्दं श्रवणार्थम् इवागताः
श्रुतं चिन्तयितुं भानुर् इवाहोरचनाभ्रमम् । तत्याजैकान्तम् अगमच् छून्यम् अस्तगिरेस् तटम्
उत्तस्थुर् मिहिकारम्भश्यामता वनभूमिषु । विज्ञानश्रवणाद् अन्तश्शीतलाश् शान्तता इव
बभूवुर् अल्पसञ्चारा जना दशसु दिक्ष्व् अपि । सावधानतया श्रोतुम् इव सन्त्यक्तचेष्टिताः
छाया दीर्घत्वम् आजग्मुर् वासिष्ठं वर्णनक्रमम् । इव श्रोतुम् अशेषाणां वस्तूनां दीर्घकन्धराः
प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् । देव स्नानद्विजार्चासु कालो ह्य् अतिगतो भृशम्
ततो वसिष्ठो भगवान् संहृत्य मधुरां गिरम् । अद्य तावन् महाराज श्रुतम् एतावद् अस्तु वः
प्रातर् अन्यद् वदिष्याम इत्य् उक्त्वा मौनवान् अभूत् । इत्य् आकर्ण्यैवम् अस्तूक्त्वा भूपतिर् भूतिवृद्धये
पुष्पार्घ्यपाद्यसम्मानदक्षिणादानपूजया । सदेवर्षिमुनीन् विप्रान् पूजयाम् आस सादरम्
अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला । कुण्डलाकीर्णरश्म्योघपरिवेशावृतानना
परस्परांससङ्घट्टरणत्केयूरकङ्कणा । हारभाराहतस्वर्णपट्टाभोरस्तटान्तरा
शेखरोत्सङ्गविश्रान्तप्रबुद्धमधुपस्वनैः । सघुङ्घुमशिरोभागा पतद्भिर् इव मूर्धजैः
काञ्चनाभरणोद्द्योतकनकीकृतदिङ्मुखाः । बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः
जग्मुर् नभश्चरा व्योम भूचरा भूमिमण्डलम् । चक्रुर् दिनसमाचारं स्वं सर्वे स्वेषु वेश्मसु
एतस्मिन्न् अन्तरे श्यामा यामिनी समदृश्यत । जनसङ्घातनिर्मुक्ते गृहे बालाङ्गना यथा
देशान्तरं भासयितुं ययौ दिवसनायकः । सर्वत्रालोककर्तृत्वम् एव सात्पुरुषं व्रतम्
उदभूद् अभितस् सन्ध्या तारानिकरधारिणी । उत्फुल्लकिंशुकवना वसन्तश्रीर् इवोदिता
चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे । निलिल्यिरे खगाश् चित्ते तदा ता वृत्तयो यथा
भानोर् भासा भूषितैर् मेघलेशैः किञ्चित् किञ्चित् कुङ्कुमच्छाययेव । पाश्चात्यो ऽद्रिः पीतवासास् तमोऽब्धेस् ताराहारश्रीयुतः खं समेतः
पूजाम् आदाय सन्ध्यायां प्रयातायां यथागतम् । अन्धकारास् समुत्तस्थुर् वेतालवलया इव
अवश्यायकणस्यन्दी हेलाविधुतपल्लवः । कोमलः कुमुदाशंसी ववाव् आशीतलो ऽनिलः
परमान्ध्यम् उपाजग्मुर् दिशो ऽपि स्फुटतारकाः । लम्बदीर्घतमःकेश्यो विधवा इव योषितः
आययौ भुवनं तेजःक्षीरपूरेण पूरयन् । रसायनमयाकारश् शशिक्षीरार्णवो नभः
जग्मुस् तिमिरसङ्घाताः पलाय्य क्वाप्य् अदृश्यताम् । श्रुतज्ञानगिरश् चित्तान् महीपानाम् इवाज्ञताः
ऋषयो भूमिपालाश् च मुनयो ब्राह्मणास् तथा । चेतसीव विचित्रार्थास् स्वास्पदेषु विशश्रमुः
यमकायोपमा श्यामा ययौ तिमिरमांसला । आययौ मिहिकाकारा तत्र तेषाम् उषा शनैः
अलक्ष्यताम् उपाजग्मुस् तारा नभसि भासुराः । प्रभातपवनेनेव हृताः कुङ्कुमवृष्टयः
दृश्यताम् आजगामार्कप्रभोन्मीलितलोचना । विवेकवृत्तिर् महतां मनसीव नवोद्गता